लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २२५

विकिस्रोतः तः
← अध्यायः २२४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २२५
[[लेखकः :|]]
अध्यायः २२६ →

श्रीकृष्ण उवाच-
यज्ञस्य च शुभे श्रेष्ठे मुहूर्ते राधिके प्रगे ।
ऋषयो देवताश्चापि यज्ञमण्डपमाययुः ।। १ ।।
गृणन्तः श्रीहरेर्नाम वदन्तो वेदकाण्डिकाः ।
जपन्तश्च वेदभुवं हृष्टा मण्डपमाययुः ।। २ ।।
देवा देवेश्वरः साक्षाद् ब्रह्माद्या ईश्वरेश्वराः ।
ईशाः प्रधानाः पत्न्यश्च देव्यश्च पार्षदादयः ।। ३ ।।
साक्षाद्वै मण्डपे तत्राययुर्हर्षभृतो मखे ।
सामग्र्यश्चापि हव्यानि मूर्तिमन्ति शुभानि च ।। ४ ।।
आसनानि साधनानि समिधश्च समाययुः ।
ध्वजः साक्षाद् घटः साक्षात् साक्षात्तथैव मण्डपः ।। ५ ।।
मखः साक्षाद् वेदिकाश्च साक्षात् साक्षाच्च यूपराट् ।
कुण्डः साक्षाद् वास्तुपुमान् साक्षाद्वै समुपागतः ।। ६ ।।
वेदाः साक्षाद् विधयश्च साक्षान्मन्त्राः समाययुः ।
साक्षात् सुविनियोगाश्च कुशा दर्भाः समाययुः ।। ७ ।।
साक्षात् पात्राणि चरवो वह्नयश्च समाययुः ।
समस्तोपकरणानि त्वाययुर्मण्डपे तदा ।। ८ ।।
स्वस्तश्चय समयश्च देशः पुण्याह आययुः ।
एवं तीर्थानि भौमानि पञ्चामृतानि चाययुः ।। ९ ।।
उपस्थिताः समस्ताश्च तन्मखे कामधेनवः ।
कल्पलताः कल्पवृक्षाश्चिन्तामणय आययुः ।। 2.225.१ ०।।
सर्वाण्यक्षयपात्राणि कल्पाऽऽपूरकपेटिकाः ।
अक्षयाः कोशनिधयश्चामृतानि समाययुः ।। ११ ।।
रसाश्च फलजातानि पत्रपुष्पाऽक्षतादयः ।
मूर्तिमन्तो मखे तत्र राधिके वै समाययुः ।। १ २।।
विनियोगानुसारेण विनियुज्यन्त एव ते ।
लक्ष्म्यः सर्वाश्च विद्याश्च सत्यः सर्वाश्च सिद्धयः ।। १ ३।।।
चमत्कारास्तथा सिद्धास्तत्र यज्ञे समाययुः ।
मधुपर्काः सर्वविधाः सर्वे पक्वान्नपर्वताः ।। १४।।
पेयवस्तूनि मूर्तानि साक्षात् सर्वे सुगन्धकाः ।
स्वर्णरूप्यकमुद्राश्च साक्षाद्गव्यानि चाययुः ।। १५।।
एवं यावत्सु साक्षाद्वै ह्युपस्थितेषु मण्डपे ।
ब्राह्मणानां मंगलानि योषितां गीतयोऽभवन् ।। १६।।
स्वस्तिवाचोऽभवँस्तत्र विप्राणां सर्वमंगलाः ।
देशकालादिसंकल्पोऽकारयल्लोमशो मुनिः ।। १७।।
मण्डपे यजमानश्च ईशानपानशिष्टकः ।
राजा च दम्पतीरूपो मुख्यस्तत्र विधिं शुभम् ।। १८।।
ऋषिणा प्रेरितश्चक्रे तथाऽन्यनृपमण्डलम् ।
मण्डपे कुण्डसान्निध्येऽनुकल्पविधिमाचरत् ।। १ ९।।
प्रधानाख्यं च संकल्पं लोमशः समकारयत् ।
दिग्रक्षां च कलशस्याऽऽराधनां प्रचकार च ।।2.225.२०।।
गणेशस्य स्थापनं च पूजनं चाप्यकारयत् ।
स्वस्तिवाचश्च पुण्याहवाचनं प्रचकार च ।।२१ ।।
यजमानाद्यभिषेकं लोमशः समकारयत् ।
मातृकाणां स्थापनं च पूजनं समकारयत् ।।२२।।
नान्दीश्राद्धं तथाऽऽचार्यादीनां वरणमित्यपि ।
अर्घवन्दनमेवापि मधुपर्कमकारयत् ।।२३।।
वर्धनीकलशस्यापि स्थापनं चाप्यकारयत् ।
मण्डपे संप्रवेशं च मण्डपप्रोक्षणादिकम् ।।२४।।
वास्तुस्थापनमेवाऽपि वासुदेवप्रपूजनम् ।
मण्डपस्यार्चनं तत्र सर्वतोभद्रमण्डले ।।२५ ।।
देवानां स्थापनं पूजामकारयद्धि लोमशः ।
यन्त्रदेवस्थापनं च देवानां पूजनं तथा ।। २६।।।
पीठस्य पूजनं वेदीपूजनं कुण्डपूजनम् ।
कुण्डदेवार्हणं चापि कुण्डेऽग्निस्थापनं तथा ।।२७।।
ग्रहाणां स्थापनं पूजां योगिनीस्थापनादिकम् ।
क्षेत्रपानां स्थापनं च पूजनं चाप्यकारयत् ।।।२८।।
कुण्डे च मेखलादीनां पूजनं देवपूजनम् ।
अग्नेः पूजनमेवापि ग्रहाणां पूजनं तथा ।।२९।।
अन्वाधानस्य संकल्पं लोमशर्षिरकारयत् ।
आघाराज्यभागहोमं लोमशोऽकारयत्तदा ।।।2.225.३ ० ।।
वास्तुमण्डलदेवार्थं योगिन्यर्थं हवं तथा ।
प्रधानहोमं तत्रापि व्याहृतिहोममाचरत् ।।३ १ ।।
बलिदानं सुनैवेद्यं ददौ वै लोमशो मुनिः ।
यूपारोपणमेवापि ततो जलाधिवासनम् ।।३२।।
जलमातृजलपूजां शंखघण्टादिपूजनम् ।
भूतशुद्धिं तथा प्राणप्रतिष्ठां चाप्यकारयत् ।। ३३ ।।
सौवर्णप्रतिमापूजां बालकृष्णस्य चाचरत् ।
षोडशोपचारपूजां चरुनैवेद्यमार्पयत् ।।३४।।
सहस्राहुतिकाश्चापि सर्वहोममकारयत् ।
इदं मुक्तेभ्यो नमम समर्पयामि भोजनम् ।।३५।।
इदं ब्रह्मणे नमम समर्पयामि भोजनम् ।
मुक्तानीभ्य इदं नमम समर्पयामि भोजनम् ।।३६।।
अवतारेभ्यो नमम इदं ददामि भोजनम् ।
अवतारिणीभ्य इदं ददे नमम भोजनम् ।। ३७।।
गुणैश्वर्यविभूतिभ्य इदं नमम भोजनम् ।
भूषाहेतिप्रशक्तिभ्य इदं नमम भोजनम् ।। ३८।।
ईश्वरेभ्यश्चेश्वराणीभ्यो नमम भोजनम् ।
व्यूहेभ्यः पार्षदादिभ्य इदं नमम भोजनम् ।। ३९।।
ब्राह्मीभ्यश्च सतीभ्यश्च इदं नमम भोजनम् ।
ब्रह्मप्रियाभ्यः सर्वाभ्य इदं नमम भोजनम् ।।2.225.४० ।।
राधालक्ष्म्यादिशक्तिभ्य इदं नमम भोजनम् ।
माणिक्यादिसतीभ्यश्च इदं नमम भोजनम् ।।४१ ।।
गंगासरस्वतीश्रीभ्य इदं नमम भोजनम् ।
दासदासीसमेताभ्य इदं नमम भोजनम् ।।४२।।
महाविष्णुहिरण्गर्भविराड्भ्यो भोजनं नमः ।
ब्रह्मविष्णुमहेशेभ्यो नम इदं च भोजनम् ।।४३ ।।
सावित्रीकमलादुर्गादिभ्यो नमम भोजनम् ।
कंभरायै महालक्ष्म्यै इदं नमम भोजनम् ।।।४४।।
सन्तुष्टायै चामृतायै इदं नमम भोजनम् ।
पद्मावत्यै रमायै च इदं नमम भोजनम् ।।४५।।
मंजुलासद्गुणाहासाऽम्बाभ्यो नमम भोजनम् ।
बालकृष्णांगनादुःखहालक्ष्म्यादिभ्य इत्यपि ।।४६।।
भोजनं सर्वपत्नीभ्यः सिद्धर्षिभ्य इदं नमम ।
इदं पितृभ्यो नमम पितृकाभ्यश्च भोजनम् ।।४७।।
आर्षीभ्यो भोजनं चेदं सुरेभ्यो भोजनं नमम ।
सुराणीभ्यश्च देवीभ्यो देवताभ्यश्च भोजनम् ।।४८।।
दिक्पालेभ्य इदं लोकपालेभ्यो भोजनं नमः ।
आदित्येभ्यश्च रुद्रेभ्य इदं चेदं च भोजनम् ।।४९।।
वसुभ्यश्चाश्विनीभ्यां च इदम् इदं च भोजनम् ।
दिग्भ्यश्चापि च तत्त्वेभ्य इदम् इदं च भोजनम् ।।2.225.५०।।
निधिभ्यश्च गृहेभ्यश्च इदम् इदं च भोजनम् ।
सिद्धिभ्यश्च महर्षिभ्य इदम् इदं च भोजनम् ।।५ १ ।।
कृत्तिकाभ्यो मनुभ्यश्च इदम् इदं च भोजनम् ।
मरुद्भ्यश्च कलाभ्यश्च इदम् इदं च भोजनम् ।।५२।।
तीर्थेभ्यश्च वालखिल्येभ्यश्चेदं भोजनं नमम ।
यक्षराक्षसभूतेभ्यः प्रेतेभ्यो भोजनं त्विदम् ।।५३।।
कूष्माण्डेभ्यः पिशाचेभ्य इद् चेदं च भोजनम् ।
विनायकेभ्यो गणेभ्य इदं चेदं च भोजनम् ।।५४।।
वेतालेभ्यश्चारणेभ्यः सूतेभ्यो भोजनं त्विदम् ।
मागधेभ्यश्च बन्दीभ्यो भृत्येभ्यो भोजनं त्विदम् ।।।५५।।
डाकिनीभ्यः शाकिनीभ्यस्तामसीभ्यश्च भोजनम् ।
विद्याध्रेभ्यो गन्धर्वेभ्यः किन्नरेभ्यश्च भोजनम् ।।५६।।
किंपुंभ्यो विश्वदेवेभ्यो नमम भोजनं त्विदम् ।
दैत्येभ्यो दानवेभ्यश्च नागेभ्यो भोजनं त्विदम् ।।५७।।
सर्पेभ्यश्च फणिभ्यश्च सरीसृपेभ्यो भोजनम् ।
वृक्षेभ्यश्च विरुद्भ्यश्च तृणादिभ्यश्च भोजनम् ।।५८।।
तीर्थेभ्यः पर्वतेभ्यश्च सागरेभ्यश्च भोजनम् ।
सरिद्भ्यश्च तडागेभ्यश्चैत्येभ्यो भोजनं त्विदम् ।।५९।।
कल्पलताद्रुमेभ्यश्च कामधेनुभ्य इत्यपि ।
चिन्तामणिभ्य इदं चाक्षयपात्रेभ्य इत्यपि ।।2.225.६ ०।।
कुण्डेभ्यः कुण्डदेवेभ्य इदं नमम भोजनम् ।
मण्डपेभ्यो मण्डपस्थदेवेभ्यो भोजनं त्विदम् ।।६ १ ।।
द्वारेभ्यो द्वारदेवेभ्यः शाखासुरेभ्य इत्यपि ।
ध्वजदेवेभ्य इदं च यूपदेवेभ्य इत्यपि ।।६२।।
स्रुक्स्रुवादिसाधनेभ्य इदं नमम भोजनम् ।
स्तंभेभ्यः स्तम्भदेवेभ्य इदं नमम भोजनम् ।।६३।।
मातृकाभ्यः सतीभ्यश्च साध्वीभ्य इदमित्यपि ।
इदं सांख्ययोगिनीभ्यो भोजनं च नमोनमः ।।६४।।
पतिव्रताभ्यो देवीभ्य इदं नमम भोजनम् ।
कामदेवाय च सप्तर्षिभ्यो नमम भोजनम् ।।६५।।
ईशानाय वरुणाय महेन्द्राय च भोजनम् ।
अग्नये च कुवेराय नैर्ऋताय च भोजनम् ।।६६।।
वायवे च यमायेदं दूतेभ्यो भोजनं त्विदम् ।
यादोभ्यो वायुवासेभ्य इदं नमम भोजनम् ।।६७।।
भूवासेभ्यो हिमस्थेभ्य इदं नमम भोजनम् ।
जरायूजेभ्योऽण्डजेभ्यश्च इदं नमम भोजनम् ।।६८।।
स्वेदजेभ्य उद्भिज्जेभ्यश्चेद्ं नमम भोजनम् ।
इदं कीटपतंगादिसूक्ष्मेभ्यो भोजनं नमम ।।६ ९।।
जडेभ्यश्चेतनेभ्यश्च मखिभ्यो भोजनं नमम ।
मेघेभ्यः स्तनयित्नुभ्य इद्ं नमम भोजनम् ।।2.225.७०।।
सुरासुरादिसर्वेभ्य इद्ं नमम भोजनम् ।
ब्रह्मसृष्टिस्थितेभ्यश्च इदं नमम भोजनम् ।।७१ ।।
ईशसृष्टिस्थितेभ्यश्च इद्ं नमम भोजनम् ।
जीवसृष्टिस्थितेभ्यश्च इदं नमम भोजनम् ।।७२।।
चतुरशीतिखनिजेभ्यश्चेदं भोजनं नमः ।
स्मृतेभ्यश्चाऽस्मृतेभ्यश्चेदं च नमम भोजनम् ।।७३।।
विशिष्टशिष्टतत्त्वेभ्य इदं नमम भोजनम् ।
समस्तेभ्यश्च व्यस्तेभ्य इदं नमम भोजनम् ।।७४।।
प्रत्येकेभ्यश्च यावद्भ्य इदं नमम भोजनम् ।
कर्मठेभ्यो ब्राह्मणेभ्य इदं नमम भोजनम् ।। ७५।।
इद्ं नमम सर्वात्माननाय वह्नये स्वाहा ।
सहस्रधाराभिश्चेदं हव्यं च वह्नये स्वाहा ।।७६।।
एवं वै वह्नये हव्यं घृतं समित् फलानि च ।
मिष्टान्नानि रसाश्चापि द्रवाश्चापि समर्पिताः ।।७७।।
ततो बह्वाहुतिं होमं प्रचक्रे लोमशो मुनिः ।
महाघृताऽऽहुतिहोमं ततश्चाकारयन्मुनिः ।।७८।।
तदा प्रत्यक्षदेवाद्यास्तृप्ता अपि पुनः पुनः ।
जगृहुर्वह्निना सार्धं प्रदत्तं हव्यमुत्तमम् ।।७९।।
नीराजनं प्रचकार ततः श्रीलोमशो मुनिः ।
वादित्राणां निनदाश्चाऽभवँस्तदा समन्ततः ।।2.225.८० ।।
वेदघोषा अजायन्त गीतयो योषितां तथा ।
पुष्पाञ्जलिं ततो राजा ददौ देवेभ्य एव च ।।८ १।।
विप्राश्चक्रुर्यजमानाभिषेचनं तु पावनम् ।
श्रेयःप्रदानकं चक्रुः राजा च दक्षिणां ददौ ।।८२।।
विप्रा आशीर्वचनानि जगुर्हर्षभरास्ततः ।
वह्निं नत्वा च देवेभ्यो नमस्कृत्य क्षमार्थनाम् ।।८३।।
कृत्वा च कारयामास विसर्जनं हि लोमशः ।
आकाशं तु तदा व्याप्तमभूद् विमानपद्मकैः ।।८४।।
सृष्टित्रयाधिवासानां समागमेन सर्वतः ।
पञ्चम्यां राधिके चैवं मखकार्योत्तरं हरिः ।।८५।।
भोजयित्वा महीमानान् महर्षींश्च द्विजातिकान् ।
सर्वान् प्राघूणिकाँश्चापि धामधामादिवासिनः ।।८६ ।।
भोजयित्वा यथायोग्यान् ततश्चकार भोजनम् ।
यजमानैर्नृपैः सार्धं बुभुजे भगवान् स्वयम् ।।८७।।
एवं प्रवर्तितो यज्ञो राधिके सरितस्तटे ।
पितॄणां पिण्डदानाद्यैस्तर्पणं समजायत ।।८८।।
सायं स्नानं ततश्चक्रे भगवान् सर्वमानवैः ।
देवैश्च देहिभिः साकं वरुणं सम्प्रपूज्य च ।।८९।।
जलं प्रपूज्य भगवान् सस्नौ सर्वैः समन्वितः ।
अथाऽऽययौ निजं स्थानं ददौ दानानि वै तदा ।। 2.225.९०।।
मुक्तेभ्यः पादुके सर्वावतारेभ्यः किरीटकान् ।
मुक्तानीभ्योऽवतारिणीभ्यो ददौ स्वर्णशाटिकाः ।।९१ ।।
मुकुटाँश्च ददौ चैशेभ्यश्च हारान् ददौ प्रभुः ।
ईशानीभ्यश्च स ददौ शृंखला रशनास्तथा ।।९२।।
ऋषिभ्यः स्वर्णकलशान् आर्षीभ्यः स्वर्णतन्तिकाः ।
सिद्धेभ्य स्वर्णमालाश्च सिद्धिभ्यः स्वर्णकञ्चुकीः ।। ९३।।
पितृभ्यश्चामृतस्थालीः पित्रिकाभ्योऽक्षयान् घटान् ।
देवेभ्यः स्वर्णछत्राणि देवीभ्यः कण्ठपत्रिकाः ।। ९४।।
कटकानि ददौ चापि देवेशेभ्यश्च वेत्रकान् ।
भूतप्रेतपिशाचेभ्यः कञ्चुकान् प्रददौ प्रभुः ।। ९५।।
मानवेभ्यः स्वर्णमुद्रा दैत्येभ्यश्च मणीन् ददौ ।
सूतमागधबन्दीभ्यः स्वर्णहाराँस्तदा ददौ ।।९६।।
अनाथबालवृद्धेभ्यो द्रव्याणि चाम्बराणि च ।
ददौ श्रीभगवाँस्तत्र येषां यद्यदपेक्षितम् ।। ९७।।
जडेभ्यश्चेतनेभ्यश्च येषां यद्यदपेक्षितम् ।
संकल्प्य सर्वं प्रददौ परमात्मा दयानिधिः ।। ९८।।
महादानानि सर्वाणि मध्यदानानि यानि च ।
क्षेत्रकन्यादिदानानि तद्गुरुभ्योऽप्यदापयत् ।।९९।।
राजानश्च ददुः सर्वं द्रव्यं चान्नं गृहाणि च ।
कन्यादानानि बहूनि गवाश्वगजदानकम् ।। 2.225.१० ०।।
एवमारात्रिपर्यन्तं दानानि प्रददौ प्रभुः ।
ततस्त्वारार्त्रिकं चाभूद् बालकृष्णस्य राधिके ।। १० १।।
राजभिः संकृतं पश्चाद् भोजनान्यभवन् पुनः ।
अथोपदेशं भगवान् रात्रौ प्रजासु संव्यधात् ।। १० २।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आश्विनकृष्णपञ्चम्यां प्रातर्हरिणा सह यज्ञभूमिं प्रति महीमानानामागमनम् मण्डपे सर्वेषामुपस्थितिः स्वस्ति-
वाचनादि घृतबह्वाहुतिहोमपर्यन्तकार्याणां विनिवर्तनं परिहारश्चेत्यादिनिरूपणनामा पञ्चविंशत्यधिकद्विशततमोऽध्यायः ।। २२५ ।।