अथर्ववेदः/काण्डं ६/सूक्तम् ००७
दिखावट
← सूक्तं ६.००६ | अथर्ववेदः - काण्डं ६ सूक्तं ६.००७ ऋ. अथर्वा। |
सूक्तं ६.००८ → |
दे. सोमः, अदितिः, ३ देवाः। गायत्री, १ निचृत्। |
येन सोमादितिः पथा मित्रा वा यन्त्यद्रुहः ।
तेना नोऽवसा गहि ॥१॥
येन सोम साहन्त्यासुरान् रन्धयासि नः ।
तेना नो अधि वोचत ॥२॥
येन देवा असुराणामोजांस्यवृणीध्वम् ।
तेना नः शर्म यच्छत ॥३॥