अथर्ववेदः/काण्डं ६/सूक्तम् ०७४

विकिस्रोतः तः
← सूक्तं ६.०७३ अथर्ववेदः - काण्डं ६
सूक्तं ६.०७४
ऋषिः - अथर्वा।
सूक्तं ६.०७५ →
दे. सांमनस्यम्, नाना देवताः, त्रिणामा। अनुष्टुप्, ३ त्रिष्टुप्।

सांमनस्यम्

सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता ।
सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत्॥१॥
संज्ञपनं वो मनसोऽथो संज्ञपनं हृदः ।
अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः ॥२॥
यथादित्या वसुभिः सम्बभूवुर्मरुद्भिरुग्रा अहृणीयमानाः ।
एवा त्रिणामन्न् अहृणीयमान इमान् जनान्त्संमनसस्कृधीह ॥३॥