र्भेद एव । सायाह्नस्याप्यतिक्रमे दर्शश्राद्धमासिकश्राद्धयोर्लोप एव । तदर्थं द्वितीयदिन औपासने समस्तव्याहृतिभिराज्याहुतिं हुत्वोपोष्य प्राणायामं च कृत्वा प्राजापत्यद्वयमाचरेत् । केचित्तु शुक्लपक्षे सर्वप्रायश्चित्तमौपासने हुत्वाऽन्तरितश्राद्धं कुर्यात् । तत्राप्यतिक्रमे द्वितीयदर्शपूर्वदिनप्राप्तौ सर्वप्रायश्चित्तं हुत्वोपोष्य प्राणायामं कृत्वा प्राजापत्याचरणं कर्तव्यमिति वदन्ति । एवं महालयादिष्वपि ज्ञेयम् । सांवत्सरिकश्राद्धे सायाह्नस्यातिक्रमे रात्रावपि कार्यम् ।
'मृताहं समतिक्रम्य चण्डालेष्वभिजायते' इति मरीचिना मृताहातिक्रमे दोषोक्तेः । न च नक्तं श्राद्धं कुर्वीतेतिधर्मसूत्रोक्तो निषेधः सांवत्सरिकश्राद्धव्यतिरिक्तश्राद्धपर इति बहवः । मृताहं समतिक्रम्येति निषेधस्तु बुद्ध्या समतिक्रमे न तु दैवादतिक्रमे । तेन धर्मसूत्रोक्तनिषेधोऽत्राप्यस्त्येवेति केचिद्वदन्ति । अयं च रात्रौ श्राद्धनिषेधो ग्रहणश्राद्धे न । अन्यत्र राहुदर्शनादितिवचनात् ।
अथ श्राद्धविघ्ने निर्णयः ।
तत्र विप्रस्य निमन्त्रणोत्तरं सूतके मृतकेऽपि वाऽऽशौचाभावः ।
"निमन्त्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि । |
कर्तुस्तु विष्णुराह--
"व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे । |
प्रारम्भशब्दार्थस्तेनैवोक्तः--
"प्रारम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः । |
पाकपरिक्रिया पाकनिष्पत्तिः पाकारम्भो वा । पाकप्रोक्षणमित्यन्ये । माधवीये ब्राह्मेऽपि सद्यःशौचं प्रकृत्य--
"श्राद्धादौ पितृयज्ञे च कन्यादाने च नो भवेत्" इति । |
मिताक्षरायां स्मृत्यन्तरेऽपि सद्यःशौचं प्रकृत्य--
"यज्ञे संभृतसंभारे विवाहे श्राद्धकर्मणि" इति । |
दातृगृहे मरणादौ ब्राह्मे--
"भोजनार्धे तु संभुक्ते विप्रैर्दातुर्विपद्यते । |