माधवीये शिवराघवसंवादे--
"प्रातःकाले तु न श्राद्धं प्रकर्वीत कदाचन । |
इति माधवोदाहृतशिवराघवसंवादवचनेन गान्धर्वमुहूर्तेऽप्यारम्भस्योक्तत्वेनार्थात्संगवनिषेधः । तथा च संगवकालादूर्ध्वं सायंकालाप्राक्तनोऽनैमित्तिकस्य श्राद्धस्य काल इत्युक्तं भवति । तत्रापराह्णस्य प्राशस्त्यमाह मनुः--
"अथ चैवापरपक्षः पूर्वपक्षाद्विशिष्यते । |
इत्यादिपूर्वोदाहृतवचनैश्चापराह्णस्य मुख्यकालत्वं प्रतिपाद्यते । मुख्यत्वेन निषिद्धस्यापि सायाह्नस्य गौणकालत्वमाह व्यासः--
"स्वकालातिक्रमे कुर्याद्रात्रेः पूर्वं यथाविधि" इति । |
चातुर्मास्यान्तर्गतादित्येष्टौ बद्धक्रमेण प्राप्तपूर्वाह्णकालबाध इव मासिकश्राद्धदिन एवानुष्ठेयतया मुख्यकालस्य मासिश्राद्धावरुद्धत्वेनोत्तरभावित्वादत्रापि मुख्यापराह्णकालबाधः । तत्रापि सति संभवे दिनान्त्यघटिकाद्वयतः पूर्वमेव समापनीयम् ।
यतु--
"चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते द्विजः । |
इतिवचनं श्रा(तच्छ्रा)द्धान्तरेण मुख्यकालस्यानवरोधे । प्रकृते तु मासिकश्राद्धकालस्य मासिश्राद्धेनावरोधानैतद्वचनप्रवृत्तिः । न चैवं तयोरभेद एवास्तु किमेतावताऽऽयासेनेति वाच्यम् । उभयत्रोपात्तब्राह्मणदक्षिणादिवैयर्थ्यापत्त्यादिदोषग्रस्तत्वेन तस्य वक्तुमशक्यत्वात् । न चान्तेवास्यसंबन्धान्ब्रह्मविद इति विधानायानुवाद इति वाच्यम् । तयोर्विशेषयोर्लाघवादत्रैव वक्तुमुचितत्वेन गुणद्वयविधानार्थं पुनः कृत्स्नानुवादेन गौरवस्य दुष्परिहरत्वात् । न च [१]तयोर्गुणयोर्मासिकश्राद्धे मासिकश्राद्ध[त्व] मिति वाच्यम् । ब्रह्मविदोऽन्तेवास्यसंबन्धानित्येतावतैव तत्सिद्धौ पुनस्तद्दोषतादवस्थ्यात् । अतस्तयो
- ↑ अत्र सतोरिति शेषो ज्ञेयः ।