अथर्ववेदः/काण्डं ७/सूक्तम् ०४९
दिखावट
← सूक्तं ७.०४८ | अथर्ववेदः - काण्डं ७ सूक्तं ७.०४९(७.०४७) ऋषिः - अथर्वा। |
सूक्तं ७.०५० → |
दे. कुहूः। १ जगती, २ त्रिष्टुप्। |
कुहूं देवीं सुकृतं विद्मनापसमस्मिन् यज्ञे सुहवा जोहवीमि ।
सा नो रयिं विश्ववारं नि यछाद्ददातु वीरं शतदायमुक्थ्यम् ॥१॥
कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषो जुषेत ।
शृणोतु यज्ञमुशती नो अद्य रायस्पोषं चिकितुषी दधातु ॥२॥