सूत्रकृताऽपि शृतान्नेन होम उक्तो धर्मसूत्रे--
"गृहमेधिनो यदशनीयस्य होमा वलयश्च" इति । |
गृहमेधिनो यदशनीयं पक्वमपक्वं वोपस्थितं तस्यैकदेशेन होमा वलयश्च वक्ष्यमाणाः कर्तव्याः, स्वर्गः पुष्टिश्च तेषां फलमिति व्याख्यातमुज्ज्वलाकृता । पक्वमग्निसंयोगाज्जातपाकमोदनादि । एतद्भिन्नमपक्वं फलादीति द्रष्टव्यम् । तच्च शृता[शृता]न्नं हविष्यमेव होमसाधनमित्यपि दर्शितं सूत्रकृता निषेधमुखेन 'न क्षारलवणहोमो विद्यते तथाऽयज्ञसंसृष्टस्य' इति ।
यद्युपवासवशेन[१] शाकपत्रमूलफलाहारस्तदा तेनैव वैश्वदेवः कार्यः--
"शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् । |
विश्वप्रकाशे--
"अन्नेन तण्डुलैर्वाऽपि फलेनाद्भिरथापि वा । |
मन्त्रान्वैश्वदेवमन्त्रान् । ([२] अत्रैवं व्यवस्था । शाकाद्याहारे शाकादिभिः । भोजनेऽन्नेन शृतेन । भर्जितान्नभक्षणे तण्डुलैरपक्वैरेव । सर्वथाऽशनाकरणेऽद्भिः । अतिसंकटेन जलस्याप्यभावे वैश्वदेवमन्त्रजप इति । उदकेन वैश्वदेवक्रियायामुदक एव कार्यो नाग्नौ ।
"अन्नेन तण्डुलैर्वाऽग्नौ जलेनाप्स्वपि वा चरेत् । |
"अद्भिरञ्जलिना जले" इतिवक्ष्यमाणचतुर्विंशतिमताच्च । पक्वान्नप्रतिग्रहेऽपि तेनैव वैश्वदेवस्तस्य पाकप्रयोजकत्वात् । शूद्रलब्धेन वैश्वदेवादि न कार्यम् ।
"आमं शूद्रस्य यत्किंचिच्छ्राद्धिकं प्रतिगृह्य च । |
स्मृत्यन्तरे हविष्याण्युक्तानि--
"गोधूमा व्रीहयश्चैव तिला मुद्गा यवास्तथा । |