पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवविहितहविर्द्रव्यविचारः]
९४३
संस्काररत्नमाला--

 एवमन्यान्यपि स्मृतिभ्यो ज्ञेयानि । अ[१]हविष्याणि स्मृत्यन्तरे--

"कोद्रवं चणकं माषं मसूरं च कुलित्थकम् ।
क्षारं च लवणं सर्वं वैश्वदेवे विवर्जयेत्" इति ॥

 ([२] "कन्दः सैन्धवसामुद्रे" इत्यनेन सैन्धवसामुद्रयोर्हविष्यत्वेन प्राप्तिर्यद्यपि तथाऽपि 'न क्षारलवणहोमो विद्यते' इति धर्मसूत्रे 'क्षारं च लवणं सर्वं वैश्वदेवे विवर्जयेत्' इति स्मृत्यन्तरे च तयोर्निषेधान्निवृत्तिरेव । अत एव सर्वग्रहणं स्मृत्यन्तरे कृतमिति द्रष्टव्यम् । ) एवमन्यान्य[३]प्यहविष्याणि स्मृतिभ्योऽवगन्तव्यानि । विस्तरभयान्नोच्यते(न्ते)। ([४] निषिद्धं वर्जयित्वा हविष्याभावे यावनालादयो ग्राह्याः । 'यदन्नः पुरुषो लोके तदन्नास्तस्य देवताः' इतिवचनात् । इत्याचारप्रदीपे । ) अहविष्यद्रव्येण तत्संसृष्टेन वा होमो न कार्यः, किंतु तूष्णीं भस्माग्न्यायतनादुत्तरतोऽपोह्य त[५]स्मिन्होतव्यम् । तदुक्तं धर्मसूत्रे--

"न क्षारलवणहोमो विद्यते तथाऽयज्ञसंसृष्टस्याहविष्यस्य होम उदीचीनं भस्मापोह्य तस्मिञ्जहुयात्तद्भुतमहृतं चाग्नौ भवति" इति ।

 यद्भक्ष्यमाणं पश्यतो लालोत्पद्यते तत्क्षारं गुडादि । लवणं प्रसिद्धम् । तत्संसृष्टं न होतव्यम् । तथा--अयज्ञं कुलित्थमाषाद्यन्नं तत्संसृष्टस्यान्नस्य होमो न विद्यते । वरान्नमित्यापस्तम्बः । अथ यस्यैवंविधमेव भोजनमुपस्थितं तस्य कथं भोजनं तत्राऽऽह--अहविष्यस्य होम उदीचीनमित्यादि । औषासात्पचनाद्वाऽग्नेरुदीचीनं भस्मापोह्योष्णं तस्मिन्भस्मनि जुहुयाद्वैश्वदेवहोममन्त्रमिति व्याख्यातमुज्ज्वलाकृता । ( [६] एकामाहुतिं तूष्णीं जुहुयादित्यन्ये निबन्धकाराः ।) उष्णं भस्मेत्यस्याङ्गारमिश्रितमुष्णं भस्मेत्यर्थः ।

तथा च बौधायनः--

"अङ्गारान्भस्ममिश्रांस्तु उद्धृत्योत्तरतोऽनलात् ।
जुहुयाद्वैश्वदेवं तु यदि क्षारादिमिश्रितम्" इति ॥

 ([७]यत्तु-- 'हविष्याणामभावे तु क्षारादिभिरपीष्यते' इत्याचारप्रदीपे स्मृत्यन्तरवचनं तदपि शब्दस्वरसात्क्षारादिभिरपीष्यते किमु वक्तव्यं कन्दमूलादिभिरित्यन्नाभावे मूलादिहोमकर्तव्यताबोधकम् । उदीचीनमुष्णं भस्मापोह्येत्येतेन विधिना क्षारादिभिरपि होमः कर्तव्यः । तेनैव वैश्वदेवसिद्धिरित्येवंपरं वा ।)


  1. च. निषिद्धानि ।
  2. ख. ङ. पुस्तकयोर्नास्ति धनुश्चिह्नान्तर्गतो ग्रन्थः ।
  3. च. न्यपि निषिद्धानि स्मृ ।
  4. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  5. क. ख. ङ. तास्यस्तु हा ।
  6. धनुश्चिह्नान्तर्गतो ग्रन्थः ख. पुस्तके नास्ति ङ. पुस्तके तु तत्स्थानेऽन्यथैव वर्तते स यथा--"एतेन निषेधेन वैश्वदेवहोमे हविष्यविधिः सिद्धां भवति" इति ।
  7. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।