विजननकाले प्रसवकाले । क्षिप्रं प्रसूयते येन कर्मणा तत्क्षिप्रप्रसवनं तद्वक्ष्यते । शिरस्तः शिरसः समीप उदकुम्भं निदधाति । पत्तः पादयोः समीपे तूर्यन्तीमव[१]कातां निदधाति । केचित्तु--ओषधिविशेष इत्याहुः । पत्त इत्यत्र पद्भावश्छान्दसः । उदराभिमर्शो मन्त्रेण तूष्णीमवमार्जनमिति प्रथमे व्याख्याने । उदराभिमर्शस्तूष्णीं मन्त्रेणावमार्जनमिति द्वितीयव्याख्याने । पूर्वव्याख्यानेऽपरितोषादेव व्याख्यानान्तरं कृतं वृत्तिकृता ।
यथाऽऽहुर्भट्टपादाः--
"पूर्वव्याख्यानतोऽन्यस्य द्वयमिष्टं प्रयोजनम् । |
अत्रापरितोषोऽवसर्पत्वितिलिङ्गानुपपत्तिरूपदोषवशेन । सूत्रेऽथशब्दोऽनित्यत्वख्यापनार्थः । तेन काम्यमिदं न पुंसवनवन्नित्यम् ।
ऋग्विधाने--
"प्रमन्दिने प्रसूयन्त्यां जपेद्गर्भप्रमोचनीम् । |
शास्त्रान्तर उपायान्तरम्--
"हिमवत्युत्तरे पार्श्वे शबरी नाम यक्षिणी । |
अनेनैरण्डतैलं महिषीक्षीरमिश्रितमभिमन्त्र्य पाययेदुदरे लापयेच्चेति । ग्रन्थान्तरे तु--हिमवत्युत्तरे पार्श्व इत्यमुं मन्त्रं जपन्नेकविंशतिदूर्वाङ्कुरैस्तिलतैलमेकपलं प्रदक्षिणमावर्तयन्नष्टशतं जपित्वा तत्तैलं किंचित्पाययित्वा शेषं योनौ निषेचयित्वा(च्य) दूर्वाङ्कुरान्केशेषूपगूहेदित्युक्तम् ।
"वृषस्य मूलं यदि नाभियोनिप्रलेपितं स्त्री झटिति प्रसू[२]ते । |
वृषः 'अडुळसा' तस्य मूलम् । एवमन्येऽप्युपायाः शास्त्रान्तरे द्रष्टव्याः ।
यन्त्रमप्युक्तं यन्त्रप्रकाशे--
"गजाग्निवेदा उडुराट्शराङ्का रसर्षिपक्षा इति हि क्रमेण । |
अस्यार्थः--गर्भिण्या नार्या दृष्टिगोचरे देशे समं चतुरश्रं संसाध्य तस्य समान्नव कोष्ठकान्कृत्वैशानोत्तरवायुकोष्ठेष्वष्टमतृतीयचतुर्थानङ्कान्क्रमेण लिखित्वा
पूर्वमध्यमपश्चिमकोष्ठेषु प्रथमपञ्चमनवमाङ्कान्क्रमेण विलिख्याऽऽग्नेयदक्षिणनैर्ऋ