गर्भाधानसमये योनिपुष्पं विशद्वीर्यं द्विधा विभक्तमादिपश्चाद्भावेन प्रविशति तदा यमौ भवतः । तयोश्च पितृतः प्रवेशक्रमविपर्ययेण मातृतः प्रसूतिः ।
"यदा विशद्द्विधा बीजभूतपुष्पं परिक्षरत् । |
इति पिण्डसिद्धिस्मरणात् । अतः स्वदेहात्पूर्वं यो जातस्तस्य हिरण्यकशिपुरिति दितेः प्रथमप्रसूतस्य हिरण्याक्ष इति नाम कृतवानिति । अत्र देशाचाराद्व्यवस्था । अत्र ज्येष्ठक्रमेणैव संस्कारा उक्ता धर्मप्रकाशे यमौ प्रकृत्य--
"संस्कारास्तत्र कर्तव्यास्तत्क्रमेणैव सर्वदा" इति ॥ |
तत्क्रमेण ज्येष्ठक्रमेण । इति यमलयोर्ज्येष्ठत्वकनिष्ठत्वनिर्णयः ।
अथ जातकर्म ।
तत्र 'जातेऽश्मनि परशुं निधाय' इत्यादिगृह्यसूत्रम् । अत्र जात इति वचनमित आरभ्य शिरःसमीप उदकुम्भं निदधातीत्यन्तस्य कर्मणो जातकर्मेति संज्ञां गमयति । सप्तमीनिर्देशप्रयोजनं जन्मानन्तरमेव क्रिया स्यान्न त्वाशौचनिवृत्त्यपेक्षेत्येतदर्थम् । उत्तरमधरं येषामिति बहुव्रीहिः । यथावस्थितं विपर्यस्य यथाऽधस्ताद्धिरण्यमुपरिष्टादश्मा तथा कृतेष्वित्यर्थः । उपनिर्हरन्त्यौपासनमतिहरन्ति सूतकाग्नि स एष उत्तपनीय एव । नास्मिन्किंचन कर्म क्रियतेऽन्यत्रोद्धूपनादिति । उपनिर्हरणवचनं तस्मिन्गृह्याणि कर्माणि क्रियन्त इतिवचनस्य जायापतिकर्मार्थत्वात्प्रजासंस्कारेष्वौपासनस्याप्राप्तिः स्यात्सा मा भूदित्येतदर्थम् । उक्तं च बौधायनेन--तस्मिन्प्रजासंस्कार इति । सूतकसंबद्धकर्मार्थोऽग्निः सूतकाग्निः सूतककर्तव्योद्धूपनार्थोऽग्निरिति यावत् । स एषोऽग्निरुत्तपनीय एव कपालसंतापाग्निरेव भवति । आम्बरीषोऽग्निरुत्तपनीय इत्येके । एवकारकरणं कैश्चिन्निर्मन्थ्यस्य विहितस्य निवृत्त्यर्थम् । अस्मिन्सूतकाग्नाबुद्धूपनादन्यत्किमपि न कर्म क्रियत इति । जातकर्म सचैलं स्नानं कृत्वैव कर्तव्यम् ।
तत्र वसिष्ठः--
"जातमात्रकुमारस्य मुखमस्यावलोकयेत् । |
जातमात्र इत्यनेन जननाव्यवहितोत्तरकाले मुखावलोकनं विधीयते ।
ज्योतिर्वसिष्ठः--
"श्रुत्वा जातं पिता पुत्रं सचैलं स्नानमाचरेत् । |
अनेन श्रवणाव्यवहितोत्तरकाले स्नानं विधीयते । अत्रासंनिधौ श्रवणान