अथर्ववेदः/काण्डं २/सूक्तम् २८
← सूक्तं २.२७ | अथर्ववेदः - काण्डं २ सूक्तं २.२८ ऋ. शम्भुः। |
सूक्तं २.२९ → |
दे. १, ३ जरिमा,आयुः, २ मित्रावरुणौ, ३-५ द्यावापृथिव्यादयो देवाः। त्रिष्टुप्, १ जगती, ५ भुरिक्। |
तुभ्यमेव जरिमन् वर्धतामयं मेममन्ये मृत्यवो हिंसिषुः शतं ये ।
मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात्पात्वंहसः ॥१॥
मित्र एनं वरुणो वा रिशादा जरामृत्युं कृणुतां संविदानौ ।
तदग्निर्होता वयुनानि विद्वान् विश्वा देवानां जनिमा विवक्ति ॥२॥
त्वमीशिषे पशूनां पार्थिवानां ये जाता उत वा ये जनित्राः ।
मेमं प्राणो हासीन् मो अपानो मेमं मित्रा वधिषुर्मो अमित्राः ॥३॥
द्यौष्ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने ।
यथा जीवा अदितेरुपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥४॥
इममग्ने आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन् ।
मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत्॥५॥
सायणभाष्यम्
'तुभ्यमेव जरिमन्' इति सूक्तेन गोदानचौलकर्मणोर्मातापितरौ परस्परं पुत्रं त्रिः प्रत्यर्पयतः।
तथा तत्रैव कर्मणि अनेन सूक्तेन त्रीन् घृतपिण्डान् संपात्य अभिमन्त्र्य पुत्रं प्राशयतः।
सूत्रितं हि- " तुभ्यमेव जरिमन्' इति कुमारं मातापितरौ त्रिः संप्रयच्छेते । घृतपिण्डान् आशयतः” (कौसू ५४,१३; १४ ) इति ।
तुभ्यमेव जरिमन् वर्धतामयं मेममन्ये मृत्यवो हिंसिषुः शतं ये ।
मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात्पात्वंहसः ॥१॥
तुभ्यम् । एव । जरिमन् । वर्धताम् । अयम् । मा । इमम् । अन्ये । मृत्यवः । हिसिषुः । शतम् ।ये।
माताऽइव । पुत्रम् । प्रऽमनाः। उपऽस्थे । मित्रः । एनम् । मित्रियात् । पातु । अंहसः ॥ १ ॥
जरिमन् । जरतिः स्तुतिकर्मा । 'जरा स्तुतिर्जरतेः स्तुतिकर्मणः' इति यास्कः (नि १०,८)। तस्मात् कर्मणि औणादिक इमनिच् । हे स्तूयमान अग्ने तुभ्यमेव त्वत्परिचरणार्थमेव अयम् कुमारो वर्धतां रोगादिरहितः सन् अभिवृद्धो भवतु । यद्वा जरिमन् । जरैव जरिमा । हे जरे तुभ्यं त्वदर्थं त्वदागमनपर्यन्तं चिरकालम् अयं वर्धताम् । किञ्च। शतम् शतसंख्योपलक्षिता अपरिमिता अन्ये त्वद्व्यतिरिक्ता ये मृत्यवः हिंसका रक्षःपिशाचादिरोगाद्याः सन्ति ते सर्वेपि इमं बालकं मा हिंसिषुः मा हिंसन्तु। तथा प्रमनाः प्रमुदितमना मित्रः एतन्नामा देवः मातेव पुत्रम् माता पुत्रमिव एनम् बालकम् उपस्थे उत्सङ्गे निकटप्रदेशे कृत्वा मित्रियात् मित्रसंबन्धिनः अंहसः दोहजनितात् पापात् पातु रक्षतु ।
मित्र एनं वरुणो वा रिशादा जरामृत्युं कृणुतां संविदानौ ।
तदग्निर्होता वयुनानि विद्वान् विश्वा देवानां जनिमा विवक्ति ॥२॥
मित्रः । एनम् । वरुणः । वा । रिशादाः । जराऽमृत्युम् । कृणुताम् । सम्ऽविदानौ ।
तत् । अग्निः । होता । वयुनानि । विद्वान् । विश्वा । देवानाम् । जनिम । विवक्ति ॥२॥
मित्रः अहरभिमानी देवः वरुणः रात्र्यभिमानी। 'मैत्रं वा अहः वारुणी रात्रिः' (तैब्रा १,७,१०,१) इति श्रुत्यन्तरात् । स च वरुणो रिशादाः रिशानां हिंसकानाम् अत्ता। रिश हिंसायाम् इत्यस्मात् इगुपधलक्षणः कः। अद भक्षणे इत्यस्माद् असुन् । वाशब्दः चार्थे । तावुभौ संविदानौ ऐकमत्यं प्राप्तौ । संपूर्वाद् वेत्तेरकर्मकात् ‘समो गमादिषु विदिप्रच्छि” (पावा १,३,२९) इत्यात्मनेपदम् । लटः शानच् । एनम् माणवकं जरामृत्युम् जरयैव मृत्युर्मरणं यस्य तथाविधं कृणुताम् कुरुताम् । अहोरात्रयोरेव मरणसंभवात् तन्निवारणाय तदभिमानिदेवयोर्मित्रावरुणयोः प्रार्थनेति भावः। होता देवानाम् आह्वाता वयुनानि । प्रज्ञानामैतत । इह त सामर्थ्यात् प्रज्ञातव्यानि। विद्वान जानन अग्निः देवानां विश्वा विश्वानि सर्वाणि जनिमा जनिमानि जन्मानि प्रादुर्भावस्थानानि । प्राप्येति शेषः । तत् प्रार्थितं दीर्घम् आयुः विवक्ति ब्रवीतु । अग्निप्रमुखाः सर्वे देवाश्चास्य दीर्घम् आयुः कुर्वन्तु इत्यभिप्रायः। विवक्तीति । वचेः पञ्चमलकारे छान्दसः शपः श्लुः । 'बहुलं छन्दसि' (पा ७,४,७८ ) इत्यभ्यासस्य इत्त्वम् । जनिमेति । 'जनिमृङ्भ्याम् इमनिन्” (पाउ ४,१४९) इति इमनिन् ।
त्वमीशिषे पशूनां पार्थिवानां ये जाता उत वा ये जनित्राः ।
मेमं प्राणो हासीन् मो अपानो मेमं मित्रा वधिषुर्मो अमित्राः ॥३॥
त्वम् । ईशिषे । पशूनाम् । पार्थिवानाम् । ये । जाताः । उत । वा । ये । जनित्राः ।
मा । इमम् । प्राणः । हासीत् । मो इति । अपानः । मा। इमम् । मित्राः। वधिषुः। मो इति । अमित्राः ॥३॥
हे अग्ने त्वं पार्थिवानाम् पृथिव्याम् उत्पन्नानाम् । 'पृथिव्या ञाञौ' ( पावा ४,१,८५) इत्यञ्प्रत्ययः। ञित्त्वाद् आद्युदात्तत्वम् । पशूनाम् द्विपाच्चतुष्पाद्रूपाणां प्राणिनाम् । 'अधीगर्थदयेशां कर्मणि' (पा २,३,५२) इति षष्ठी। ईशिषे अधिपतिरसि । ईश ऐश्वर्ये । 'थासः से' (पा ३,४,८०)। अदादित्वात् शपो लुक् । 'ईशः से' (पा ७,२,७७) इति इडागमः। तानेव पशून् विशिनष्टि--ये जाताः पूर्वम् उत्पन्नाः उत वा। उतशब्द: अप्यर्थे । अपि वा ये जनित्राः जनिष्यमाणाः । तेषाम् इति संबन्धः । जनेरौणादिक इत्रप्रत्ययः। अतस्त्वत्प्रसादाद् इमम् माणवकं प्राणः ऊर्ध्वकायस्थो वायुः मा हासीत् मा त्याक्षीत् । अपानः अधरकायस्थो वायुः मो मैव हासीत् । ओहाक् त्यागे । 'यमरमनमातां सक् च' (पा ७,२,७३) इति सगिटौ । तथा मित्राः । लिङ्गव्यत्ययः। मित्रभूता जनाः इमं कुमारं मा वधिषुः मा हिंसिषुः । अमित्राः शत्रवश्च मो मैव वधिषुः । हन्तेः 'लुङि च' (पा २,४,४३) इति वधादेशः । तस्य अदन्तत्वेन अनेकाच्त्वाद् एकाज्लक्षणेप्रतिषेधाभावात् सिच इट् । अल्लोपस्य स्थानिवत्त्वाद् ‘अतो हलादेर्लघोः' (पा ७,२,७ ) इति वृद्धेरप्रसङ्गः।
द्यौष्ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने ।
यथा जीवा अदितेरुपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥४॥
द्यौः । त्वा । पिता । पृथिवी । माता । जराऽमृत्युम् । कृणुताम् । संविदाने इति सम् ऽविदाने ।
यथा । जीवाः । अदितेः । उपऽस्थे । प्राणापानाभ्याम् । गुपितः । शतम् । हिमाः ॥ ४ ॥
हे माणवक त्वा त्वां पिता पितृभूतो द्यौः द्युलोकः माता मातृभूता पृथिवी च संविदाने अन्योन्यम् ऐकमत्यम् आपन्ने जरामृत्युम् दीर्घायुषं कृणुताम् कुरुताम् । आयुषः परिमाणं दर्शयति--अदितेः अखण्डनीयायाः पृथिव्या उपस्थे उत्सङ्गे प्राणापानाभ्याम् उक्तलक्षणाभ्यां गुपितः रक्षितः । गुपू रक्षणे इत्यस्माद् निष्ठायां 'यस्य विभाषा' (पा ७,२,१५) इति इटः प्रतिषेधो व्यत्ययेन न प्रवर्तते । शतं हिमाः शतसंख्याकान् हेमन्तान् । संवत्सरान् इत्यर्थः। 'कालाध्वनोरत्यन्तसंयोगे' (पा २,३,५) इति द्वितीया । हिमशब्दस्य हेमन्तपरत्वं तैत्तिरीयके समाम्नायते-- 'शतं हिमा इत्याह । शतं त्वा हेमन्तान् इन्धिषीयेति वावैतद् आह' (तै १,५,८,५) इति । यथा येन प्रकारेण त्वं जीवाः जीवेः । जीव प्राणधारणे इत्यस्मात् लेटि आडागमः। तथा जरामृत्युं कृणुताम् इति पूर्वत्र संबन्धः।
इममग्ने आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन् ।
मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत्॥५॥
इमम् । अग्ने। आयुषे । वर्चसे । नय । प्रियम् । रेतः । वरुण । मित्रऽराजन् ।।
माताऽइव । अस्मै । अदिते । शर्म । यच्छ । विश्वे । देवाः । जरत्ऽअष्टिः। यथा । असत् ॥५॥
हे अग्ने इमम् माणवकम् आयुषे शतसंवत्सरजीवनाय वर्चसे तेजसे। ‘क्रियाग्रहणं कर्तव्यम्' (पावा १,४,३२) इति कर्मणः संप्रदानत्वाद् उभयत्र चतुर्थी । तद् उभयं नय प्रापय । हे वरुण मित्र राजन् राजमान । उभयोर्विशेषणम् एतत् । अत एव दाशतय्याम् आम्नायते-- 'राजाना मित्रावरुणा सुपाणी' (ऋ १,७१,९) इति । हे युवां प्रियम् पुत्रादिजानकत्वेन अभिमतम् । प्रीङ् प्रीतौ इत्यस्मात् 'इगुपधज्ञाप्रीकिरः कः' (पा ३,१,१३५) इति कः। यद्यपि वृत्तौ 'इगुपधज्ञा' (पा ३,१,१३५) इत्यत्र प्रीणातेरेव ग्रहणं कृतं तथापि आत्रेयधातुवृत्त्यनुसारेण अस्मादपि को द्रष्टव्यः । 'अचि श्नुधातु' (पा ६,४,७७ ) इत्यादिना इयङ् । तथाभूतं रेतः इमं माणवकं नयतम् । पुत्रादिजननसमर्थं कुरुतम् इत्यर्थः। हे अदिते देवमातस्त्वं मातेव जननीव अस्मै माणवकाय शर्म सुखं यच्छ । हे विश्वे देवाः यूयमपि अयं माणवको जरदष्टिः जरापर्यन्तजीवनस्य अष्टिर्व्याप्तिर्यस्य स तथोक्तः। ‘जीर्यतेरतृन्' ( पा ३,२,१०४ ) व्यत्ययेन भावे कर्तृप्रत्ययः । यद्वा जरतो जीर्यतोऽपि अष्टिः सर्वव्यापारविषया व्याप्तिर्यस्य तादृशो यथा असत् भवेत् । तथा दीर्घायुषं कुरुतेति शेषः । अस्तेर्लेटि अडागमः।
इति द्वितीयकाण्डे पञ्चमेऽनुवाके द्वितीयं सूक्तम् ।