गुणः प्रसादः, ओजसा सह संप्लवात् । शुद्धस्तु दोष एवेति ।
ननु विरुद्धयोरोजःप्रसादयोः कथं संप्लव इत्यत्राह---
स त्वनुभवसिद्धः ॥ ८॥
स तु संप्लवस्तु अनुभवसिद्धः तद्विदां रत्नादिविशेषवत् ।
अत्र श्लोकः--
'करुणप्रेक्षणीयेषु संप्लवः सुखदुःखयोः ।
यथानुभवतः सिद्धस्तथैवौजःप्रसादयोः ॥'
साम्योत्कर्षौ च ॥९॥
साम्यमुत्कर्षश्चौजःप्रसादयोरनुभवादेव । साम्यं यथा- 'अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।'
मेलनम् । प्रसादो गुणो भवत्येव, ओजसा गुणेन सह संप्लवात् । तदमिश्रं तु शैथिल्यं दोष एवेत्याह- शुद्धस्त्विति ।
ननु गाढत्वशैथिल्ययोस्तमःप्रकाशवद्विरुद्धस्वभावयोः संप्लव एव न संभवतीति शङ्कामनूद्यानन्तरसूत्रेणापवदितुमाह--नन्विति । व्याचष्टे-स तु संप्लव इति । रत्नविशेषवत्परीक्षानुभवसाक्षिक इत्यर्थः ॥
विरुद्धयोरपि क्वचित्संप्लवः संभवतीत्यभियुक्तोक्तिमभिदर्शयति--करुणेति । यानि करुणानि कारुण्यावहानि यानि मनोज्ञानि च वस्तूनि, तेषु युगपदनुभूयमानेषु समसमयसमुत्पन्नयोः सुखदुःखयोः संप्लवो यथा अनुभवतः स्वसंवेदनात् सिद्धः, तथा ओजःप्रसादयोरपि संप्लवः स्वसंवित्संवेद्यतया सिद्ध इति श्लोकार्थः।
अत्र ओजःप्रसादयोः साम्ये पर्यायतः प्रकर्षे च प्रसादस्त्रिप्रकारो भवति । ते च प्रकारा अप्यनुभवगम्या इति दर्शयितुमाह- साम्योत्कर्षौ चेति । क्रमेण त्रिविधं प्रसादमुदाहृत्य दर्शयति--- साम्यं यथेति । 'विषयव्यावृत्ता-