पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अ. १.]
७३
कामधेनुसहिता ।

 तान् क्रमेण दर्शयितुमाह--

गाढबन्धत्वमोजः ॥ ५॥

 बन्धस्य गाढत्वं यत् , तत् ओजः ।

 यथा--'विलुलितमकरन्दा मञ्जरीर्नर्तयन्ति' । न पुनः 'विलुलितमधुधारा मञ्जरीर्लोलयन्ति ।'

शैथिल्यं प्रसादः ॥ ६ ॥

 बन्धस्य शैथिल्यं शिथिलत्वं प्रसादः ।

 नन्वयमोजोविपर्ययात्मा दोषः, तत् कथं गुण इत्यत आह--

गुणः संप्लवात् ॥७॥


शिष्टं वा? नाद्यो निरवद्यः, एकैकगुणोदाहरणेषु काव्यत्वाभावप्रसङ्गात् गुणसमष्टिवैशिष्ट्याभावात् । न द्वितीयः, वस्त्वलंकारध्वनिषु गुणिनो रसस्याभावेन गुणस्यैवाभावात् । किंच, किं सर्वे रसाः संभूय काव्यात्मीभवन्ति ? उत एको रसः? आद्ये न कुत्रापि काव्यात्मसंभावना, विरोधिरसानामैकाधिकरण्यासंभवात्। द्वितीये वस्त्वलंकारध्वनिषु रसासंभवात् आत्मविधुरेषु काव्यव्यवहाराभावप्रसङ्ग इत्यलं परमतदोषोद्घाटनपाटवप्रकटनेन । प्रकृतमनुसरामः ।

 उद्देशक्रमादमीषां गुणानामसाधारणधर्मानाख्यातुमारभते--तान् क्रमेणेति । बन्धस्य पदरचनायाः गाढत्वं कनकशलाकावयवघटनवन्निबिडत्वम् । तत्र हेतवः- संयुक्ताक्षरत्वम्, निरन्तररेफशिरस्कैर्वर्गाणां प्रथमद्वितीयैस्तृतीयचतुर्थैः प्रथमैस्तृतीयैश्च संयोगाः, विसर्जनीयजिह्वामूलीयोपध्मानीयाः, गुर्वन्तता, समासाश्व, इत्येवमादयस्तरतमभावेनावस्थिताः। तत्रोदाहरणप्रत्युदाहरणे दर्शयति- यथेति । उभयत्र गाढत्वशैथिल्ये स्फुटे ।

 शैथिल्यमिति । अस्य वृत्तिः स्पष्टार्था ।

 शिथिलत्वमोजोगुणविपर्ययरूपम् । तदात्मकत्वे प्रसादस्य दोषत्वमेव स्यादिति परशङ्कां प्रस्तुत्य तां पराकर्तुमनन्तरसूत्रमवतारयति-- नन्विति । संप्लवो 10