लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १७६

विकिस्रोतः तः
← अध्यायः १७५ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १७६
[[लेखकः :|]]
अध्यायः १७७ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके चानन्दाद्यष्टाविंशतिं तथा ।
योगान् यानाह भगवान् क्रथकाय वदामि ते ।। १ ।।
रवाश्विवनिकायुक्ते सोमे मृगयुते तथा ।
भौमे चाश्लेषान्विते च बुधे हस्तयुते तथा ।। २ ।।
गुरावनुराधास्थिते शुक्रे चोत्तरषाढिगे ।
शततारान्वयशनावानन्दयोगः सिद्धिदः ।। ३ ।।
रवौ भरणिकायुक्ते आर्द्रान्विते च सोमके ।
मघायुक्ते मंगले च बुधे चित्रायुते तथा ।। ४ ।।
ज्येष्ठायुते गुरौ चापि शुक्रेऽभिजित्समन्विते ।
शनौ प्राग्भाद्रपदगे योगः स कालदण्डकः ।। ५ ।।
फलं मृत्युस्ततस्त्याज्यः सर्वथैव तु कर्मसु ।
रवौ तु कृत्तिकायुक्ते सोमे पुनर्वसुस्थिते ।। ६ ।।
मंगले प्राक्फाल्गुनीस्थे बुधे स्वातियुते तथा ।
गुरौ मूलयुते शुक्रे श्रवणस्थे शनौ त्वथ ।। ७ ।।
उत्तराभाद्रगे धूम्राक्षयोगश्चाऽसुखं फलम् ।
एकघटिका त्याज्यास्याऽरम्भे ततः सुखप्रदः ।। ८ ।।
रवौ तु रोहिणी सोमे पुष्यं च मंगले त्वथ ।
उत्तराफाल्गुनी चापि बुधे विशाखिका तथा ।। ९ ।।
गुरौ पूर्वाषाढिका च शुक्रे धनिष्ठिका तथा ।
शनौ च रेवती प्रजापतियोगः सुभाग्यदः ।। 2.176.१० ।।
रवौ मृगशिरा सोमे चाश्लेषा हस्तकः कुजे ।
बुधेऽनुराधा च गुरावुत्तराषाढिका तथा ।। ११ ।।
शुक्रे शततारका चाश्विनी शनौ यदा भवेत् ।
सुभाग्यदः सौम्ययोगः त्याज्यः पञ्चघटीकिकः ।। १ २।।
रवावार्द्रा मघा सोमे चित्रा तु मंगले तथा ।
ज्येष्ठा बुधेऽभिजिद् गुरौ पूर्वाभाद्रपदा कवौ ।। १ ३।।
शनौ तु भरणी ध्वांक्षयोगः स धननाशकृत् ।
रवौ पुनर्वसुः पूर्वाफाल्गुनी सोमके तथा ।। १४।।
स्वातिः कुजे बुधे मूलं श्रवणं तु गुरौ तथा ।
शुक्रे चोत्तरभाद्रा च कृत्तिका च शनौ यदा ।। १५।।
ध्वजयोगः सुखदो वै सर्वकार्ये जयप्रदः ।
रवौ पुष्यं चोत्तराफाल्गुनी सोमेऽथ मंगले ।। १६ ।।
विशाखा च बुधे पूर्वाषाढा गुरौ धनिष्ठिका ।
शुक्रे रेवा शनौ रोहा सुखः श्रीवत्सयोगकः ।। १७।।
रवावाश्लेषिका सोमे हस्तोऽनुराधिका कुजे ।
बुधे चोत्तरषाढा च गुरौ तु शततारका ।। १८।।
शुक्रेश्विनी शनौ मृगो वज्रयोगः क्षयप्रदः ।
त्याज्यः स पञ्चघटिकः ततो वै शुभदः क्वचित् ।। १ ९।।
रवौ मघा सोमके तु चित्रा ज्येष्ठा तु मंगले ।
बुधेऽभिजिद् गुरौ पूर्वाभाद्रा भरणी शुक्रके ।। 2.176.२०।।
शनावार्द्रा मुद्गराख्ययोगो वै धननाशकृत् ।
त्याज्यः पञ्चघटिकः स ततो वै शुभदः क्वचित् ।। २१ ।।
रवौ पूर्वाफाकनी च सोमे स्वातिः कुजे त्वथ ।
मूलं बुधे श्रवणं चोत्तराभाद्रा गुरौ यदा ।।२२।।
शुक्रे तु कृत्तिकाः शनौ पुनर्वसुर्यदा स च ।
छत्रयोगः स वै प्रोक्तः राजसन्मानदः सदा ।।२३ ।।
उत्तराफाल्गुनी सूर्ये विशाखा सोमके यदा ।
पूर्वाषाढा मंगले च धनिष्ठा बुधवासरे ।। २४।।
रेवती च गुरौ शुक्रे रोहिणी पुष्यकं शनौ ।
मित्रयोगः स वै प्रोक्तः पुष्टिदः सर्वकर्मसु ।।२५।।।
रवौ हस्तोऽनुराधाः तु सोमे च मंगले त्वथ ।
उत्तराषाढिका चाथ बुधे तु शततारका ।। २६।।
अश्विनी च गुरौ शुक्रे मृग आश्लेषिका शनौ ।
मानसाख्यः स योगो वै सुखदः सर्वकर्मसु ।।२७।।
रवौ चित्रेन्दुके ज्येष्ठाऽभिजिद् भौमे बुधे तु च ।
पूर्वाभाद्रा भरणी स्याद् गुरावार्द्रा तु शुक्रके ।।२८।।
मघा शनौ पद्मयोगो धनप्राप्तिकरः स च ।
चतुर्घटिको वर्ज्यश्च ततः सुखप्रदो मतः ।।२९।।
रवौ स्वातिर्मूलमिन्द्रो श्रवणं मंगले यदा ।
उत्तराभद्रिका बुधे गुरौ च कृत्तिका तथा ।। 2.176.३ ०।।
शुक्रे वसुः शनौ प्राक्फाल्गुनी लम्बुकयोगकः ।
धनहानिकरो वर्ज्यश्चतुर्घटिक एव सः ।। ३१ ।।
विशाखा च रवौ पूर्वाषाढा तु चन्द्रके यदा ।
धनिष्ठा मंगले रेवा बुधे गुरौ तु रोहिणी ।।३२।।
पुष्यं शुक्रे शनावुत्तराफाल्गुनी यदा तदा ।
उत्पातयोगो वर्ज्यः स प्राणनाशफलो यतः ।।३३ ।।
अनुराधा रवावुत्तराषाढा चन्द्रजे तथा ।
शततारा मंगले चाश्लेषा बुधे गुरौ मृगः ।।३४।।
आश्लेषा शुक्रके हस्तः शनौ स मृत्युयोगकः ।
वर्जनीयः सदा पूर्णो मृत्युफलो यतो हि सः ।।३५।।
ज्येष्ठा रवावभिजित्सोमके प्राग्भद्रिका कुजे ।
बुधे भरणी गुरावार्द्रा मघा शुक्रे शनौ तु वै ।।३६।।
चित्रा स काणयोगः क्लेशदो वर्ज्यो घटीद्वयम् ।
रवौ मूलं श्रवः सोमे उत्तराभद्रिका कुजे ।।३७।।
कृत्तिका बुधके वसुर्गुरौ शुक्रे प्राक्फाल्गुनी ।
स्वातिः शनौ सिद्धयोगः कार्यसिद्धिः फलं भवेत् ।।३८।।
पूर्वाषाढा रवौ सोमे धनिष्ठा रेवती कुजे ।
बुधे रोहा गुरौ पुष्यमुत्तराफाल्गुनी कवौ ।।३९।।
शनौ विशाखा शुभयोगः स कल्याणकारकः ।
रवौ तु चोत्तराषाढा शततारा तु चन्द्रके ।।2.176.४०।।
अश्विनी मंगले मृगशिरा बुधे गुरौ तु वै ।
आश्लेषा शुक्रके हस्तः शनौ तथाऽनुराधिका ।।४१।।
अमृतसिद्धियोगः स राजमानादिसम्पदः ।
रवावभिजित् पूर्वाभाद्रपदा चन्द्रके तथा ।।४२।।
भरणी मंगले चार्द्रा बुधे मघा गुरौ भवेत्। ।
चित्रा शुक्रे शनौ ज्येष्ठा मूशलयोग उच्यते ।।४३।।
धनक्षयकरः चतुष्घटिको वर्ज्य एव सः ।
रवौ श्रवश्चन्द्रके चोत्तराभाद्रपदा तथा ।।४४।।
कृत्तिका मंगले पुनर्वसुर्बुधे गुरौ तु वै ।
पूर्वाफाल्गुनिका शुक्रे स्वातिः मूलं शनौ तथा ।।४५।।
गदयोगः क्षयदः स वर्ज्यः सप्तघटीककः ।
धनिष्ठा तु रवौ सोमे रेवती रोहिणी कुजे ।।४६।।
पुष्यं बुधे गुरावुत्तराफाल्गुनी कवौ तु वै ।
विशाखा च शनौ पूर्वाषाढा मातंगयोगकः ।।४७।।
कुलवृद्धिप्रदः सोऽस्ति शुभकृत् सर्वदा मतः ।
शततारा रवौ सोमेऽश्विनी मृगशिरा कुजे ।।४८।।
आश्लेषा बुधके हस्तो गुरौ शुक्रेऽनुराधिका ।
शनावुत्तराषाढा च राक्षसी योगकः स तु ।।४९।।
महाकष्टप्रदो वर्ज्यः सर्वदा शुभकर्मणि ।
पूर्वाभाद्रपदा सूर्ये सोमे च भरणी तथा ।।2.176.५० ।।
आर्द्रा भौमे मघा बुधे चित्रा गुरौ कवौ तु च ।
ज्येष्ठाऽभिजिच्छनौ चरयोगः कार्यस्य हानिकृत् ।।५१।।
वर्ज्यः स वै त्रिघटिकः, ततो लाभकरः क्वचित् ।
उत्तराभद्रिका सूर्ये चन्द्रे तु कृत्तिका तथा ।।५२।।
पुनर्वसुर्मंगले च पूर्वाफाल्गुनिका बुधे ।
स्वातिर्गुरौ कवौ मूलं श्रवणं तु शनौ तथा ।।५३।।
स्थिरयोगो महारंभकरः सर्वविवर्धनः ।
रवौ तु रेवती चन्द्रे रोहिणी पुष्यकं कुजे ।।५४।।
उत्तराफाल्गुनी बुधे विशाखा च गुरौ तथा ।
शुक्रे पूर्वाषाढिका च धनिष्ठा तु शनौ यदा ।।५५।।
वर्धमानाख्ययोगः स लग्नकरः शुभः सदा ।
रवौ शुक्रे च प्रतिपत् चन्द्रे बुधे द्वितीयका ।।।५६ ।।
मंगले तृतीया शनौ चतुर्थी पञ्चमी गुरौ ।
मंगले शुक्रके षष्ठी बुधे च सप्तमी तथा ।।५७।।
रवौ शनौ मंगले वाऽष्टमी नवमी मंगले ।
रवौ शनौ चाथ दशमी तु गुरौ च चन्द्रके ।।५८।।
एकादशी गुरौ शुक्रे द्वादशी बुधवासरे ।
मंगले शुक्रके त्रयोदशी शनौ चतुर्दशी ।।५९।।
गुरौ पञ्चदशी चेत् स्यात् सिद्धियोगः शुभावहः ।
अथाऽन्यानशुभान् योगान् द्वादश प्रवदामि ते ।।2.176.६०।।
हुताशनश्च दग्धश्च विषश्च क्रकचस्तथा ।
संवर्तश्चतुर्थीगृहं मृत्युश्च वज्रपातकः ।।६ १।।
कालमुखस्तथा ज्वालामुखो वर्ज्योऽशुभास्त्विमे ।
षष्ठ्यां चन्द्रश्च सप्तम्यां मंगलश्च बुधेऽष्टमी ।।६२।।
नवम्यां च गुरुः शुक्रे दशम्येकादशी शनौ ।
द्वादश्यां तु रविर्हुताशनयोगोऽशुभः सदा ।।६३।।
तृतीयायां बुधः पञ्चम्यां भौमः षष्ठके गुरुः ।
शुक्रोऽष्टम्यां नवम्यां च शनिश्चन्द्रे ह्येकादशी ।।६४।।
रवौ च द्वादशी दग्धयोगोऽशुभः सदा मतः ।
द्वितीयायां बुधः सूर्यश्चतुर्थ्यां षष्ठके शशी ।।६५।।
शनिर्भौमश्च सप्तम्यामष्टम्यां च गुरुस्तथा ।
नवम्यां शुक्रको यत्र विषयोगो भयावहः ।।६६।।
षष्ठ्यां शनिश्च सप्तम्यां शुक्रोऽष्टम्यां गुरुस्तथा ।
नवम्यां बुध एवापि दशम्यां मंगलस्तथा ।।६७।।
एकादश्यां चन्द्रकश्च द्वादश्यां च रविस्तथा ।
क्रकचाख्यः स योगो वै अशुभः सर्वथा मतः ।।६८।।
आद्ये बुधः सप्तमेऽर्कः संवर्तयोगकोऽशुभः ।
आद्ये शनिर्द्वितीये शुक्रस्तृतीये गुरुस्तथा ।।६९।।
चतुर्थ्यां बुधकः पञ्चम्यां भौमः षष्ठके शशी ।
सप्तम्यां च रविः चतुर्थीगृहयोगकोऽशुभः ।।2.176.७०।।
आद्ये गुरुर्मंगलश्च द्वितीये शुक्रको गुरुः ।
तृतीये च बुधः शुक्रश्चतुर्थे शुक्रको गुरुः ।।७१।।
पञ्चम्यां शनिरर्के च गुरौ च षष्ठिका तथा ।
रवौ चन्द्रे गुरौ शुक्रे सप्तमी बुधकेऽष्टमी ।।७२।।
नवमी शुक्रके शनौ दशमी च ततः परम् ।
एकादश्यां रविर्भौमो द्वादश्यां चन्द्रको गुरुः ।।७३।।
त्रयोदश्यां बुधचन्द्रौ पञ्चदश्यां शनिस्तथा ।
चतुर्दश्यां बुधशुक्ररवयो मृत्युयोगकः ।।७४।।
अशुभो मृत्युकरणः त्याज्य एषः सदा तु सः ।
अनुराधा द्वितीयायां तृतीये चोत्तरात्रयम् ।।७५।।
पञ्चम्यां तु मघा षष्ठ्यां रोहिणी च ततः परम् ।
हस्तं मूलं च सप्तम्यां पूर्वाभाद्रपदाऽष्टमे ।।७६।।
नवम्यां कृत्तिका चैकादश्यां तु रोहिणी यदि ।
चित्रा स्वातिस्त्रयोदश्यां योगः स वज्रपातकः ।।७७।।
वज्रपातसमं दुःखं करोति कर्मसु ध्रुवम् ।
अनुराधा तृतीयायां चतुर्थ्यामुत्तरात्रयम् ।।७८।।
पञ्चम्यां च मघाऽष्टम्यां रोहा नवमे कृत्तिका ।
कालमुखाख्ययोगः स सदा चाशुभपाकदः ।।७९।।
मूलं प्रतिपदि चापि भरणी पञ्चमीदिने ।
अष्टम्यां कृत्तिका रोहा नवम्यां दशमेऽश्लिषा ।।2.176.८०।।
ज्वालामुखश्च योगः स सदोद्वेगकरोऽशुभः ।
सप्तम्यां भरणी पुष्यं नवम्यां दशमेऽश्लिषा ।।८ १ ।।
त्रयोदश्यां चित्रिका च वर्ज्ययोगोऽशुभो हि सः ।
आद्ये सूर्यो मंगलश्च द्वितीये शुक्रकः शशी ।।।८२।।
तृतीयायां बुधो गुरुश्चतुर्थ्यां पंचमे शनिः ।
षष्ठ्यां सूर्यो मंगलश्च सप्तम्यां शुक्रकः शशी ।।८३।।
बुधोऽष्टम्यां नवम्यां च गुरुर्दशमके शनिः ।
एकादश्यां रविर्भौमश्चन्द्रशुक्रौ तु द्वादशे ।।८४।।
बुधस्त्रयोदशे गुरुश्चतुर्दशे पूर्णे शनिः ।
अशुभयोगाः प्रोक्तास्ते सर्वकार्यविघातकाः ।।८५।।
ज्येष्ठामूलर्क्षयोः सन्धौ रेवत्यश्विभयोस्तथा ।
आश्लेषामघयोरन्तराले घटीचतुष्टयम् ।।८६।।
द्वे पूर्वाया द्वे पश्चाया घट्यौ गण्डान्तयोगकः ।
त्याज्यः सोऽपि शुभकार्ये फलानिष्टो हि गण्डकः ।।८७।।
अन्तरे पञ्चमीषष्ठ्योः सन्धौ पृर्णाप्रतिपदोः ।
दशम्येकादशीसन्धौ गण्डान्तो घटिकाद्वयम् ।।८८।।
नवम्यन्ते द्वे घटिके पञ्चम्यन्ते घटी तथा ।
चतुर्थ्यन्तेऽर्धघटिका गण्डान्तं त्याज्यमित्यपि ।।८९।।
कर्कसिंहान्तरालं च मीनमेषान्तरालकम् ।
वृश्चिकधनुष्यमध्यं घटी गण्डान्तकं स्मृतम् ।।2.176.९० ।।
रवितः शनिपर्यन्तं मुहूर्ताः क्रमशस्त्विमे ।
चतुर्दशद्वादशदशाष्टषट्चतुर्द्विप्रखाः ।। ९१ ।।
कुलिकयोगरूपास्ते त्याज्याः शुभे तु कर्मणि ।
बुधतो भौमपर्यन्तं मुहूर्तांऽकास्त एव तु ।। ९२।।
क्रमशः कण्टकयोगरूपास्त्याज्यास्त इत्यपि ।
गुरुतो बुधपर्यन्तं मूहूर्तांऽकास्त एव तु ।। ९३ ।।
क्रमशः कालवेलाख्ययोगस्त्याज्यः स एव च ।
शुक्रतो गुरुपर्यन्तं मुहूर्तांऽकास्त एव तु ।। ९४
यमघण्टः क्रमशो वै त्याज्यः स श्रेष्ठकर्मसु ।
दिवसे ते कुलिकाद्याश्चोक्ता रात्रौ त्वथ शृणु ।।९५ ।।
रवितः शनिपर्यन्तं मुहूर्ताः क्रमशस्त्विमे ।
त्रयोदशैकादशनवसप्तपञ्चत्र्येककाः ।।९६।।
कुलिकयोगरूपास्ते त्याज्याः शुभे तु कर्मणि ।
बुधतो भौमपर्यन्तं त एवांऽकास्तु कण्टकः ।।९७।।
गुरुतो बुधपर्यन्तं तेंऽकाश्च कालवेलिकाः ।
शुक्रतो गुरुपर्यन्तं तेंऽकास्तु यमघंटकाः ।।९८।।
त्यक्तव्यास्ते निशाभागे सर्वथा शुभकर्मसु ।
रवौ चतुर्दशं मुहूर्तकं त्याज्यं हि दुष्टकम् ।।९९।।
तथा चन्द्रे नवमं द्वादशं त्याज्यं हि दुष्टकम् ।
भौमे रात्रौ सप्तकं च दिने त्याज्यं चतुर्थकम् ।। 2.176.१० ०।।
बुधेऽष्टमं गुरौ षष्ठं द्वादशं त्याज्यमित्यपि ।
शुक्रे तुर्यं नवमं च शनावाद्यं द्वितीयकम् ।। १० १।।
दुष्टक्षणास्त एते वै त्याज्याः शुभे तु कर्मणि ।
चन्द्रे शुभे तु ते सर्वे निर्बलाः शुभशंसकाः ।। १ ०२।।
सिद्धियोगे कुयोगास्ते निर्बलाः सिद्धिशंसकाः ।
रवौ गगनमध्यस्थे मुहूर्तेऽभिजिदाह्वये ।। १०३ ।।
घटीद्वयं सर्वदोषान् हन्ति जयमुहूर्तकम् ।
तत्रारब्धं सर्वकार्यं जयदं नात्र संशयः ।। १ ०४। ।
सप्तांगुला यष्टिका च स्थापनीया क्षितौ ततः ।
छाया तस्याः प्रद्रष्टव्या सिद्धच्छायाऽभिधा यथा ।। १ ०५।।
रवौ चैकादशांऽगुला सोमे सार्धाऽष्टकांगुला ।
भौमे नवांऽगुला दीर्घा बुधेऽष्टांगुलदीर्घिका ।। १ ०६।।
गुरौ सप्तांगुला शुक्रे सार्धाऽष्टांगुलदीर्घिका ।
शनौ सार्धाऽष्टांगुला च यदा सूर्यकृता भवेत् ।।१०७।।
सिद्धिच्छायामुहूर्तं तत् दुष्टान् करोति शोभनान् ।
ऋक्षं तिथिं दिनं तारां चन्द्रं ग्रहं तदादिकान् ।। १ ०८।।
उक्तानेतान् विचार्यैव कार्यं खातादिकं शुभम् ।
इत्याह श्रीहरिं राधे! क्रथकं भूपतिं तदा ।।१ ०९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आनन्दाद्यष्टाविंशतियोगतिथिवारनक्षत्रोत्पन्नदुष्टयोग-त्रिविधगण्डान्तयोगकुलिकादिमुहूर्तदुष्टमुहूर्ताऽभि-
जिच्छायामुहूर्तादिनिरूपणनामा षट्सप्तत्यधिकशततमोऽध्यायः ।। १७६ ।।