अथर्ववेदः/काण्डं १/सूक्तम् ३१

विकिस्रोतः तः
← सूक्तं १.३० अथर्ववेदः - काण्डं १
सूक्तं १.३१
ब्रह्मा।
सूक्तं १.३२ →
दे. आशापालाः, (वास्तोष्पतिः)। अनुष्टुप्, ३ विराट् त्रिष्टुप्, ४ परानुष्टुप् त्रिष्टुप्।

आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः ।
इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥१॥
य आशानामाशापालाश्चत्वार स्थन देवाः ।
ते नो निर्ऋत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ॥२॥
अस्रामस्त्वा हविषा यजाम्यश्लोणस्त्वा घृतेन जुहोमि ।
य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत्॥३॥
स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः ।
विश्वं सुभूतं सुविदत्रं नो अस्तु ज्योगेव दृशेम सूर्यम् ॥४॥

सायणभाष्यम्

अत्र नित्यनैमित्तिककाम्यभेदेन द्वाविंशतिः सवयज्ञा विहिताः। ते च ब्रह्मौदनस्वर्गौदनचतुःशरावसवौदनसवशतौदनद्वयाजौदनपञ्चौदनब्रह्मास्यौदन *[अति ] मृत्युसवानडुत्सवद्वयकर्कीपृश्निद्वयपौनःशिलपवित्रोर्वरऋषभवशाशालाबृहस्पतिसवाख्याः । तत्र चतुःशरावौदनसवे ‘आशानाम्' इति सूक्तं विनियुक्तम् । तत्र तेन निरुप्तहविरभिमर्शनम्, संपातम् , दातृवाचनम् , दानं च कुर्यात् । यद् आह कौशिकः-- ' "आशानाम्' इति चतुःशरावम्" ( कौसू ६४, १) इति । 'निरुप्तं सूक्तेनाभिमृशति' (कौसू ६८,३ ) इति । 'सूक्तेन पूर्वं संपातवन्तं करोति' (कौसू ६३, १९) इति । तस्मिन्नन्वारब्धं दातारं वाचयति । तन्त्रसूक्तं पच्छः' (कौसू ६८, २४, २५) इति । 'सूक्तेनाभिमन्त्र्य दद्यात्' ( कौसू ६३, २० ) इति च ।

तथा अनेनैवं सूक्तेन धूमकेतुरूपाद्भुतदर्शने दिग्देवताकस्य बहुरूपस्य अजस्य अवदानानि तद्देवताकं चरुं च प्रत्यृचं जुहुयात् । तथा च सूत्रम् – 'अथ यत्रैतद् धूमकेतुः सप्तर्षीन् उपधूपयति तद् अयोगक्षेमाशङ्कम् इत्युक्तम् । पञ्च पशवस्तायन्ते' इति प्रक्रम्य " 'आशानाम्' इति दैशस्य” ( कौसू १२७, १-६) इति ।

तद्वदेव ग्रामनगरदेशप्राकाराद्यवदरणे 'अश्रामस्त्वा' इति तृतीयावर्जम् अनेन सूक्तेन पुरोडाशानां पाषाणानां च निखननं कुर्यात् । 'आशापालीयं तृतीयावर्जम्' इति प्रक्रम्य 'पुरोडाशान् अश्मोत्तरान् अन्तःस्रक्तिषु निदधाति। उभयान् संपातवतः' (कौसू ३८, ११-१४) इति हि सूत्रितम्

अस्य प्रथमयर्चा सर्वरोगभैषज्ये आप्लावनावसेचनपायनादिकं कुर्यात् । सूत्रं च--'ओषधिवनस्पतीनामनुक्तान्यप्रतिषिद्धानि भैषज्यानाम् । अंहोलिङ्गाभिः' (कौसू ३२, २६; २७ ) इति । अत्र अंहोलिङ्गाभिरिति 'आशानाम् आशापालेभ्यः' (अ १,३१, १) इत्येका, 'अग्नेर्मन्वे' (अ ४, २३-२९) इति सप्त सूक्तानि, 'या ओषधयः सोमराज्ञी:' (अ ६,९६, १) इत्येका, 'वैश्वानरो न आगमत्' (अ ६,३५, २) इत्येका, 'शुम्भनी द्यावापृथिवी' (अ ७, ११७, १) इत्येका, 'यदर्वाचीनम्' (अ १०,४, २२) इत्येका, 'मुञ्चन्तु मा' ( अ ११, ८,७), 'भवाशर्वाविदम् ' (अ ११, ८, ९), 'या देवीः पञ्च' (अ ११, ८, २२), 'यन्मातली रथ' ( अ ११, ८, २३ ) इत्येताभिश्चतसृभिर्वर्जितम् ‘अग्निं ब्रूमः' (अ ११, ८) इत्यर्थसूक्तम् । अयं सप्तप्रतीकः अंहोलिङ्गगणो विवक्षितः।

अश्वमेधे उत्सृष्टम् अश्वम् ‘आशानाम्' इति सूक्तेन ब्रह्मा अनुमन्त्रयते । उक्तं वैताने 'आशापालीयेनोत्सृष्टं संवत्सरम्' ( वैताश्रौ ३६, २०) इति ।

तथा अंहोलिङ्गानाम् आपोभोजनहवींषि' ( कौसू ५८, २४ ) इत्यादावपि एतद् द्रष्टव्यम्।

अद्भुतमहाशान्तौ दिग्देवताक आद्यो मन्त्रः। उक्तं शान्तिकल्पे – 'अथातोद्भुतमहाशान्तौ दिशो यजते विदिशो यजते' इत्यारभ्य ‘आशानाम् ' ( शाक १४, १) इति । 'स्वस्ति मात्रे' (अ १,३१, ४) इत्यन्त्यया ऋचा सर्वस्वस्त्ययनकामः रात्रौ उपस्थानं कुर्यात् । “ 'स्वस्ति मात्रे' इति निश्युपतिष्ठते (कौसू ५०, ११) इति सूत्रम् ।


आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः ।

इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥१॥

आशानाम् । आशाऽपालेभ्यः । चतुःऽभ्यः । अमृतेभ्यः ।

इदम् । भूतस्य । अधिऽअक्षेभ्यः । । विधेम । हृविषा । वयम् ॥ १ ॥

आशानाम् प्राच्यादिदिशाम् । 'आशाया अदिगाख्या चेत्' (फि १, १९) इति अन्तोदात्तत्वस्य पर्युदासाद् आद्युदात्तता । आशापालेभ्यः । आशाः पालयन्ति रक्षयन्तीति आशापालाः । 'कर्मण्यण्' (पा ३, २, १) इति अण्प्रत्ययः। कृदुत्तरपदप्रकृतिस्वरत्वेन अन्तोदात्तता। अत्र आशापालेभ्य इति समस्तेन पदेन स्वामित्वमात्रं विवक्षितम् । आशानाम् इति षष्ठ्यन्तेन ईशितव्यस्य बहुत्वम् अभिधीयत इति न पौनरुत्त्यम् । तेभ्यः चतुर्भ्यः चतुःसंख्याकेभ्यः इन्द्रयमादिभ्यः। 'झल्युपोत्तमम्' (पा ६, १, १८०) इति उपोत्तमस्य अच उदात्तत्वम् । अमृतेभ्यः। मृतं मरणम् । भावे निष्ठा । तद् न विद्यते येषां ते तथोक्तास्तेभ्यः। 'नञो जरमरमित्रमृताः' (पा ६, २, ११६) इत्युत्तरपदाद्युदात्तत्वम् । भूतस्य सत्तां प्राप्तस्य स्थावरजङ्गमात्मकस्य जगतः अध्यक्षेभ्यः अधिपतिभ्यः इन्द्रादिभ्यः इदम् इदानीं चतुःशरावसवयागकाले हविषा ओदनेन मन्त्रसंस्कृतेन विधेम परिचरेम । 'विधतिः परिचरणकर्मा' (तु. निघ ३, ५)। विध विधाने इति तुदादौ च पठ्यते। विकरणस्वरेण मध्योदात्तत्वम् । पादादित्वाद् निघाताभावः।


य आशानामाशापालाश्चत्वार स्थन देवाः ।

ते नो निर्ऋत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ॥२॥

ये । आशानाम् । आशाऽपालाः । चत्वारः । स्थन । देवाः ।

ते । नः । निःऽऋत्याः । पाशेभ्यः । मुञ्चत । अंहसःऽअंहसः ॥२॥

हे देवाः इन्द्रादयः चत्वारः चतुःसंख्याका ये प्रसिद्धा यूयम् आशानाम् दिशाम् आशापालाः अधिपतयः स्तन भवत । अस भुवि इत्यस्मात् लोण्मध्यमपुरुषबहुवचनादेशस्य तशब्दस्य 'तप्तनप्तनथनाश्च' (पा ७, १,४५) इति तनादेशः । 'श्नसोरल्लोपः' (पा ६, ४, १११) इत्यकारलोपः। ते यूयं नः अस्मान् हविषा युष्मान् प्रीणयितॄन् निर्ऋत्याः । निर्ऋतिः आर्तिकरी पापदेवता । तस्याः संबन्धिभ्यः पाशेभ्यः मरणहेतुभ्यः तथा अंहसोअंहसः निर्ऋतिपाशव्यतिरिक्ताद् मरणहेतुभूताद् अन्यस्मात् पापात् मुञ्चत मोचयत । मुच्लृ मोक्षणे । 'शे मुचादीनाम्' (पा ७, १,५९) इति नुम् ।


अस्रामस्त्वा हविषा यजाम्यश्लोणस्त्वा घृतेन जुहोमि ।

य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत्॥३॥

अस्रामः । त्वा । हविषा । यजाम । अश्लोणः । त्वा । घृतेन । जुहोमि ।

यः। आशानाम् । आशाऽपालः । तुरीयः । दे॒वः । सः । नः । सुऽभूतम् । आ । इह । वृक्षत् ॥३॥

अत्र उत्तरार्धे वक्ष्यमाणो देवः संबोधनीयः । हे धनद त्वा त्वाम् अभिमतधनादिसिद्ध्यर्थम् अश्रामः अश्रमः । श्रमु तपसि खेदे च । अस्माद् घञि 'अत उपधायाः' (पा ७,२,११६) इति प्राप्ताया वृद्धेः 'नोदात्तोपदेशस्य मान्तस्यानाचमेः' (पा ७, ३, ३४ ) इति निषेधाभावश्छान्दसः। श्रमरहितः शरीरप्रयासम् अननुसंदधानः सन् हविषा चर्वादिरूपेण यजामि पूजयामि । तथा हे देव त्वा त्वाम् उद्दिश्य अश्रोणः श्रोणाख्यव्याधिविशेषरहितः सन् घृतेन आज्येन जुहोमि । घृतेनेति । 'तृतीया च होश्छन्दसि' ( पा २, ३, ३ ) इति तृतीया । तम् अभिमतं देवं दर्शयति--आशानाम् दिशाम् आशापालः स्वामी तुरीयः पूर्वोदीरितेन्द्रादिदिक्पालापेक्षया चतुर्थः । 'चतुरश्छयतावाद्यक्षरलोपश्च' ( पावा ५,२,५१) इति छप्रत्ययः तत्संनियोगेन चकारलोपश्च । 'आयन्नादिषु उपदेशिवद्वचनं स्वरसिद्ध्यर्थम्' (पाम ७, १, २) इति वचनात् प्रत्ययस्वरेण ईकार उदात्तः। एवंभूतो यः प्रसिद्धो देवः धनदाख्यदेवोऽस्ति स देवः नः अस्माकं सुभूतम् सुष्ठु प्रभूतं सुवर्णरजतादिरूपं धनम् इह अस्मिन् कर्मणि संनिहितः गृहे वा आ वक्षत् आवहतु प्रापयतु । मया दत्तेन हविराज्यादिना प्रीतः सन् मह्यं यथेष्टं धनम् आहृत्य प्रयच्छतु इत्यर्थः । वह प्रापणे । अस्मात् लेटि अडागमः । 'सिब्बहुलं लेटि' (पा ३, १, ३४ ) इति सिप् । ततः 'हो ढः' (पा ८, २, ३१) इति ढत्वम् । षढोः कः सि' (पा ८, २, ४१ ) इति कत्वम् । 'तिङ्ङतिङः' ( पा ८, १, २८ ) इति निघातः।


स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः ।

विश्वं सुभूतं सुविदत्रं नो अस्तु ज्योगेव दृशेम सूर्यम् ॥४॥

स्वस्ति । मात्रे । उत । पित्रे । नः । अस्तु । स्वस्ति । गोभ्यः । जगते । पुरुषेभ्यः ।

विश्वम् । सुऽभूतम् । सुऽविदत्रम् । नः। अस्तु । ज्योक् । ए॒व । दृशेम । सूर्यम् ॥ ४ ॥

आत्मनोऽभिलषितं धनादिकं संप्रार्थ्य स्वकीयानां मात्रादीनां कुशलम् आशास्ते । 'एभ्यो माता गरीयसी' (यास्मृ १,३५) इति स्मरणात् पित्रादिभ्यः श्रैष्ठ्यम् अभिप्रेत्य मातुः प्रथमतो निर्देशः। मात्रे स्वकीयायै जनन्यै । 'ऋन्नेभ्यः” (पा ४,१,५) इति प्राप्तस्य ङीपो 'न षट्स्वस्रादिभ्यः' (पा ४,१,१०) इति प्रतिषेधः । 'नमःस्वस्तिस्वाहा” (पा २,३,१६) इति चतुर्थी । 'उदात्तयणो हलपूर्वात्' (पा ६,१,१७४ ) इति विभक्तेरुदात्तत्वम् । स्वस्ति क्षेमः अस्तु । ‘स्वस्तीत्यविनाशिनाम । अस्तिरभिपूजितः सु अस्तीति' इति हि यास्कः ( ३,२१)। उत अपि च नः अस्माकं पित्रे जनकाय स्वस्त्यस्तु भवतु । उपलक्षणम् एतद् अन्येषामपि पुत्रपत्न्यादीनाम् । तथा गोभ्यः पशुभ्यः स्वस्त्यस्तु । 'सावेकाचस्तृतीयादि' (पा ६,१,१६८) इति प्राप्तस्य विभक्त्युदात्तत्वस्य 'नगोश्वन्त्साववर्ण' ( पा ६,१,१८२ ) इति प्रतिषेधः । तथा पुरुषेभ्यः स्वकीयेभ्यो भृत्यादिभ्यः स्वस्त्यस्तु । किं बहुना जगते सर्वस्मै लोकाय स्वस्त्यस्तु । मात्रादीनां स्वस्त्यस्तु इत्युक्तम् तदेव विशिनष्टि--नः अस्माकं संबन्धि विश्वम् सर्वम् उक्तं मात्रादिकं सुभूतम् शोभनधनोपेतं सुविदत्रम् शोभनज्ञानयुक्तं च अस्तु भवतु । 'सुविदत्रः कल्याणविद्यः' इति हि यास्कः (६,१४) । यद्वा सुभूतम् सु शोभनं भूतं भवनं यस्य तत् तथोक्तम् । सुविदत्रम् । विद्यते लभ्यत इति विदत्रम् धनम् । विद्लृ लाभे, विद ज्ञाने इत्यस्माद् वा 'सुविदेः' कत्रन्' (पाउ ३,१०८) इति कत्रन् प्रत्ययः । शोभनं विदत्रं धनं यस्य तत् तथोक्तम्। यद्वा सुभूतम् सुसमृद्धं विश्वम् सर्वं सुविदत्रम् धनं नोस्तु। सुविदत्रशब्दं यास्कस्तु द्वेधा व्युत्पादयामास-- 'सुविदत्रं धनं भवति विन्दतेर्वा एकोपसर्गाद् ददातेर्वा स्याद् द्वयुपसर्गात्' (या ७, ९) इति । तथा उक्तमात्रादिसहितस्य आत्मनश्च दीर्घम् आयुः प्रार्थयते--ज्योगेव चिरकालमेव शतसंवत्सरपर्यन्तं सूर्यम् आदित्यं दृशेम पश्येम । दृशिर् प्रेक्षणे । 'लिङयाशिष्यङ्' (पा ३,१,८६) इत्यस्य स्थाने 'दृशेरग्व कव्यः' (पावा ३,१,८६ ) इति अक्प्रत्ययः। कित्त्वात् लघूपधगुणाभावः।

इति षष्ठेनुवाके तृतीयं सूक्तम् ।