अथर्ववेदः/काण्डं १/सूक्तम् २५
← सूक्तं १.२४ | अथर्ववेदः - काण्डं १ सूक्तं १.२५ भृग्वङ्गिराः। |
सूक्तं १.२६ → |
दे. यक्ष्मनाशनोऽग्निः। त्रिष्टुप्, २-३ विराड्गर्भा, ४ पुरोऽनुष्टुप्। |
यदग्निरापो अदहत्प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि ।
तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥१॥
यद्यर्चिर्यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम् ।
ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥२॥
यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः ।
ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥३॥
नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि ।
यो अन्येद्युरुभयद्युरभ्येति तृतीयकाय नमो अस्तु तक्मने ॥४॥
सायणभाष्यम्
ऐकाहिकादिशीतज्वरसंततज्वरवेलाज्वरादिशान्तये 'यदग्निरापः' इति सूक्तं जपेत् । लोहकुठारम् अग्नौ संताप्य उष्णोदकमध्ये स्थापयित्वा तेनोदकेन व्याधितम् अभिषिञ्चेत् । तथा च कौशिकः -- 'यदग्निरिति जपति परशुं तापयति क्वाथयत्यवसिञ्चति' ( कौसू २६,२५ ) इति ।
यदग्निरापो अदहत्प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि ।
तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥१॥
यत् । अग्निः । आपः । अदहत् । प्रऽविश्य । यत्र । अकृण्वन् । धर्मऽधृतः। नमांसि ।
तत्र । ते। आहुः । परमम् । जनित्रम् । सः । नः । सम्ऽविद्वान् । परि । वृङ्गिधि । तक्मन् ॥ १॥
अग्निः अङ्गनादिगुणयुक्तो देवः आपः अपः । व्यत्ययेन जस् । उदकानि प्रविश्य तप्तपरशुद्वारा अन्तरनुप्रविश्य अदहत् क्वाथम् अकार्षीत् । दह भस्मीकरणे । 'निपातैर्यद्यदिहन्त०' (पा ८१,३० ) इति निघातप्रतिषेधः । ततः उदकेषु औषण्यगुणविशिष्टोग्निर्वर्तत इत्यर्थः। अग्निविशिष्टेन उष्णोदकेन ज्वरितः अवसिच्यते इति यत् तस्मात् कारणात् हे तक्मन् कृच्छ्रजीवनकारिन् । तकि कृच्छ्रजीवने । अस्माद् औणादिको मनिन्प्रत्ययः । तथाविध ज्वर संविद्वान् सम्यक् स्वकारणम् अग्निं जानन् । विद ज्ञाने इत्यस्मात् लटः शत्रादेशः। 'विदेः शतुर्वसुः' (पा ७,१,३६) इति वस्वादेशः । स त्वं नः अस्मान् उष्णोदकसिक्तगात्रान् परि वृङ्ग्धि परिवर्जय । अस्मच्छरीरं विहाय स्वकारणभूतेन अग्निना सह निर्गच्छेत्यर्थः । वृजी वर्जने। अस्मात् लोटि 'हुझल्भ्यो हेर्धिः' ( पा ६,४,१०१) इति हेर्धिरादेशः । रुधादित्वात् श्नम् । 'चोः कुः' (पा ८,२,३० ) इति कुत्वम् । 'श्नसोरल्लोपः' (पा ६,४,१११) इति अकारलोपे अनुस्वारपरसवर्णौ । अग्नेः कारणत्वे भवेद् एवम् , तदेव कुत इत्यत आह -- यत्रेति । धर्मधृतः । धर्मशब्देन अत्र यागदानादिरुच्यते । तं धारयन्ति अनुतिष्ठन्तीति धर्मधृतः। धृञ् धारणे । अस्माद् धर्मशब्दोपपदात् 'क्विप् च' (पा ३,२,७६ ) इति क्विप् । उपपदसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन धातुस्वर एव शिष्यते । तथाविधा यजमाना यत्र यस्मिन्नग्नौ । नमांसि । अन्ननामैतत् । हविर्लक्षणानि अन्नानि । नम प्रह्वत्वे । अस्माद् औणादिकः असुन्प्रत्ययः । 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७ ) इति आद्युदात्तत्वम् । अकृण्वन् अकुर्वन् अयजन् अजुहवुर्वा । कृवि हिंसाकरणयोश्च । इदित्त्वाद् नुम् । लङि 'धिन्विकृण्व्योर् च' (पा ३,१,८०) इति उप्रत्ययः, तत्संनियोगेन अकारश्च अन्तादेशः । तस्य अन्त्यलोपे स्थानिवद्भावात् लघूपधगुणाभावः । 'लुङ्लङ्लृङ्क्ष्वडुदात्तः' (पा ६,४,७१ ) इति अडागम उदात्तः । 'निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम्' (पा ८,१,३० ) इति निघातप्रतिषेधः। तत्र तथाविधे अग्नौ हे ज्वर ते तव परमम् उत्कृष्टं जनित्रम् जन्म आहुः कथयन्ति । दोषवशाज्जाठराग्नेरेवायं ज्वरो विकार इति हि चिकित्सकानां प्रसिद्धिः । ब्रूञ् व्यक्तायां वाचि। 'ब्रुवः पञ्चानामादित आहो ब्रुवः' (पा ३,४,८४ ) इति झेः उसादेशः, प्रकृतेः आहादेशश्च । जनित्रम् इति । जनी प्रादुर्भावे । अस्माद् भावे औणादिक इत्रप्रत्ययः । प्रत्ययाद्युदात्तत्वम् । यद्वा हे तक्मन् सेकसाधनभूता अपः प्रविश्य अग्निस्त्वाम् अदहत् धक्ष्यतीति यत् । 'छन्दसि लुङ्लङ्लिटः' (पा ३,४,६) इति भविष्यदर्थे लङ् । अतो हेतोः अस्मान् परित्यज्य सेकोदकगताग्निना स्वकारणभूतेन सह निर्गच्छेत्यर्थः । अन्यत् पूर्ववद् योज्यम्।
यद्यर्चिर्यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम् ।
ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥२॥
यदि । अर्चिः । यदि । वा । असि । शोचिः । शकल्यऽएषि । यदि । वा । ते । जनित्रम् ।
ह्रूडुः । नाम । असि । हरितस्य । देव । सः । नः । सम्ऽविद्वान् । परि । वृङ्ग्धि । तक्मन् ॥ २ ॥
हे तक्मन् कृच्छ्रजीवनकारिन् ज्वर त्वं यदि अर्चिः अर्चिष्मान् औष्ण्यगुणयुक्तः असि भवसि । यदि वा शोचिः शोचकः शरीरसंतापकोसि । यदि वा ते तव जनित्रम् जन्म शकल्येषि । शकलानां समूहः शकल्यः। समूहार्थे यप्रत्ययः। शकल्यं दाह्यं काष्ठसमूहम् इच्छतीति शकल्येट् अग्निः। इषु इच्छायाम् । अस्मात् 'अन्येभ्योऽपि दृश्यन्ते' (पा ३,२,७५ ) इति विच् प्रत्ययः । अग्नौ तव जन्मेत्यर्थः । तथापि हे देव दीप्यमान ज्वर त्वं हरितस्य पीतवर्णस्य रूढुः रोहकः पुरुषशरीरे उत्पादकः। रुह बीजजन्मनि प्रादुर्भावे [च] । अस्माद् औणादिकस्तुन्प्रत्ययः । 'हो ढः' (पा ८,२,३१) इति ढत्वम् । ‘झषस्तथोर्धोऽधः' (पा ८,१,४०) इति तकारस्य धत्वम् । ततष्टुत्वे ढो ढे लोपे च कृते 'ढ्रलोपे पूर्वस्य दीर्घोऽणः' (पा ६,३,१११) इति धातोरुकारस्य दीर्घः । नामशब्दः प्रसिद्धौ । रूढुः इति प्रसिद्धः असि भवसि । यद्यपि ते बहूनि नामानि सन्ति तथापि इदमेव नाम प्रसिद्धम् इत्यर्थः । व्याख्यातम् अन्यत् ।
यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः ।
ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥३॥
यदि । शोकः । यदि । वा । अभिऽशोकः । यदि । वा । राज्ञः । वरुणस्य । असि । पुत्रः।
ह्रूडुः । नाम । असि । हरितस्य । देव । सः । नः। सम्ऽविद्वान् । परि । वृङ्ग्धि । तक्मन् ॥ ३ ॥
हे तक्मन् शीतज्वर त्वं यदि शोकः शरीरस्यान्तःशोचकः । यदिशब्दयोगात् असीति क्रिया अत्रापि संबध्यते । तापकोसि भवसि । यदि वा अभिशोकः अभितः सर्वतः कृत्स्नस्य शरीरस्य शोचकोसि । शुच शोके । बाहुलकात् कर्तरि घञ् । 'चजोः कु घिण्ण्यतोः' ( पा ७,३,५२ ) इति कुत्वम् । यदि वा राज्ञः राजमानस्य वरुणस्य पापकारिणां शिक्षकस्य । 'अनृते खलु वै क्रियमाणे [वरुणो] गृह्णाति ( तैब्रा १,७,२,६) इति हि श्रुतिः । तथाविधस्य देवस्य पुत्रः असि भवसि । अनेन शीतज्वरस्य उत्पत्तिरुक्ता। अन्यत् पूर्ववद् योज्यम् ।
नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि ।
यो अन्येद्युरुभयद्युरभ्येति तृतीयकाय नमो अस्तु तक्मने ॥४॥
नमः । शीताय । त॒क्मने । नमः । रूराय । शोचिषे । कृणोमि ।
यः । अन्येद्युः । उभयऽद्युः । अभिऽएति । तृतीयकाय । नमः । अस्तु । तक्मने ॥ ४ ॥
शीताय शीतजनकाय तक्मने कृच्छ्रजीवनकारिणे रोगाय नमः नमस्कारं कृणोमि । नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च' (पा २,३,१६ ) इति चतुर्थी । तथा रूराय शीतानन्तरभाविने ज्वराय शोचिषे शोचकाय नमस्कृणोमि करोमि। कृवि हिंसाकरणयोश्च । शीतरूरौ शाखान्तरे स्पष्टम् आम्नायते--'स इन्द्र आत्मनः शीतरूरावजनयत् तच्छीतरूरयोर्जन्म' (तै २,५,२,३ ) इति । शीतज्वरविशेषान् आह—अन्येद्युः अन्यस्मिन् परदिने यः शीतज्वरः अभ्येति आगच्छति। 'यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति तिङो निघाताभावः । तथा उभयद्युः उभयस्मिन् द्वितीयेऽहनि यः शीतज्वर आयाति 'सद्यःपरुत्परारि' (५,३,२२) इत्यादिना अन्येद्युः उभयेद्युः इति शब्दौ निपातितौ। उभयद्युः इत्यत्र एत्वाभावश्छान्दसः । तस्मै ऐकाहिकाय द्वयाहिकाय च ज्वराय तृतीयकाय तृतीयदिवसे आगच्छते त्र्याहिकाय ज्वराय । चातुर्थिकादीनामपि उपलक्षणम् एतत् । सर्वस्मै तक्मने शीतज्वराय नमः अस्तु नमस्कारो भवतु । एवं नमस्कारेण प्रीतः सन् सर्वो ज्वरः अस्मान् परिवर्जयतु इत्यर्थः।।
इति पञ्चमेनुवाके चतुर्थं सूक्तम्