सामग्री पर जाएँ

अथर्ववेदः/काण्डं १/सूक्तम् १५

विकिस्रोतः तः
← सूक्तं १.१४ अथर्ववेदः - काण्डं १
सूक्तं १.१५
अथर्वा।
सूक्तं १.१६ →
दे. सिन्धवः, (वाताः, पतत्रिणः)। अनुष्टुप्, १-२ भुरिक्पथ्यापङ्क्तिः।

सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः ।
इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ॥१॥
इहैव हवमा यात म इह संस्रावणा उतेमं वर्धयता गिरः ।
इहैतु सर्वो यः पशुरस्मिन् तिष्ठतु या रयिः ॥२॥
ये नदीनां संस्रवन्त्युत्सासः सदमक्षिताः ।
तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥३॥
ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य च
तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥४॥


सायणभाष्यम्

‘सं सं स्रवन्तु' इति सूक्तं सर्वपुष्टिकर्मणि संपाताभिमन्त्रितमैश्रधान्यचरुप्राशने दधिमधुमिश्रसक्तुमन्थप्राशने च विनियुक्तम् । सूत्रितं हि -" 'सं सं स्रवन्तु' इति नाव्याभ्याम् उदकम् आहरतः सर्वत उपासेचम् । तस्मिन् मैश्रधान्यं शृतम् अश्नाति" ( कौसू १९,४,५ ) इत्यादि व्रीहियवादीनि मिश्रधान्यानि 'व्रीहियवगोधूमोपवाकतिलप्रियंगुश्यामाका इति मिश्रधान्यानि' ( कौसू ८,२० ) इति परिभाषासूत्रात् ।

तथा लक्ष्मीकरणे च एतत् सूक्तम् । सूत्रितं हि –- 'यस्य श्रियं कामयते ततो व्रीह्याज्यपय आहार्य क्षीरौदनम् अश्नाति' (कौसू १९,७) इत्यादि।


सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः ।

इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ॥१॥

सम् । सम् । स्रवन्तु । सिन्धवः । सम् । वाताः । सम् । पतत्रिणः ।

इमम् । य॒ज्ञम् । प्रऽदिवः । मे । जुषन्ताम् । सम्ऽस्राव्येऽण । हविषा । जुहोमि ॥ १॥

सिन्धवः स्यन्दनशीला नद्यः सं सं स्रवन्तु सम्यक् अस्मदनुकूलाः प्रवहन्तु । सृ गतौ । लोटि शब्गुणावादेशाः । 'प्रसमुपोदः पादपूरणे' (पा ८,१,६) इति समो द्विर्वचनम् । 'तस्य परम् आम्रेडितम्' (पा ८,१,२) इति परस्य आम्रेडितसंज्ञा । 'अनुदात्तं च' (पा ८,१,३) इति तस्य अनुदात्तत्वम् । तथा वाताः गमनशीला वायवः । वा गतिगन्धनयोः। 'हसिमृग्रिण्वामिदमिलूपूधूर्विभ्यस्तन्' (पाउ ३,८६) इति तन्प्रत्ययः । नित्त्वाद् आद्युदात्तत्वम् । तेपि । उपसर्गवशात् स्रवन्तु इति सर्वत्र अनुषज्यते । सं सं स्रवन्तु आनुकूल्येन प्रवर्तन्ताम् । तथा पतत्रिणः पतत्राणि पक्षा एषां सन्तीति पतत्रिणः । पत्लृ गतौ। ‘पतेरत्रन्' (?पाउ ३,१०५) इति पतत्रशब्दः अत्रन्प्रत्ययान्तः । 'अत इनिठनौ' (पा ५,२,११५) इति मत्वर्थीय इनिप्रत्ययः । तदुपलक्षिताः सर्वे प्राणिनः सं सं स्रवन्तु सम्यग् अनुकूलाश्चरन्तु । यद्वा एते सिन्धुप्रभृतयः सं स्रवन्तु अस्मदभिलषितं फलं संप्रयच्छन्तु । तथा प्रदिवः पुराणनामैतत् । पुरातना देवाः मे मदीयम् इमं यज्ञम् यागं जुषन्ताम् सेवन्ताम् । अत्र संनिहिता भूत्वा हविः स्वीकुर्वन्तु इत्यर्थः। जुषी प्रीतिसेवनयोः। तुदादित्वात् शप्रत्ययः । तस्य ङित्त्वात् लघूपधगुणाभावः । अत्र हविषः सद्भावम् आह -- संस्राव्येण इति । सम्यक् स्रवणं संस्रावः । सृ गतौ । भावे घञ् । संस्रावम् अर्हतीति संस्राव्यम् आज्यपयःप्रभृति । 'तदर्हति' (पा ५,१,६३) इति यत्प्रत्ययः । यद्वा संस्रावणीयेन । संपूर्वात् स्रवतेर्ण्यन्तात् 'अचो यत्' (पा ३,१,९७) इति यत् । तादृशेन हविषा आज्यादिना जुहोमि । आज्यादिकं हविः देवान् उद्दिश्य अग्नौ प्रक्षिपामीत्यर्थः । 'तृतीया च होश्छन्दसि' (पा २,३,३) इति हविषा इति कर्मणि तृतीया ।


इहैव हवमा यात म इह संस्रावणा उतेमं वर्धयता गिरः ।

इहैतु सर्वो यः पशुरस्मिन् तिष्ठतु या रयिः ॥२॥

इह । एव । हवम् ।आ। यात । मे। इह । सम्ऽस्रावणाः। उत। इमम्। वर्धयत । गिरः।

इह । आ। एतु । सर्वः। यः। पशुः। अस्मिन् । तिष्ठतु। या । रयिः ॥२॥

हे देवाः मे मम संबन्धिनं हवम् आह्वानम् उद्दिश्य इहैव अस्मिन् मत्समीपदेश एव आ यात आगच्छत । अन्यान् सर्वान् परित्यज्य मत्समीपमेव आगच्छतेत्यर्थः । या प्रापणे। लोटि अदादित्वात् शपो लुक् । तत्र हेतुरुच्यते - इह अस्मिन् कर्मणि संस्रावणाः संस्रावणीयाज्यादिसाध्या होमाः। सन्तीति शेषः। स्रवतेर्ण्यन्तात् कर्मणि ल्युट् । तद्धविःस्वीकरणार्थम् आ यातेति पूर्वेण संबन्धः । उत अपि च गिरः गीर्यन्ते स्तूयन्त इति गिरः। कर्मणि क्विप् । 'ऋत इद्धातोः' (पा ७,१,१०० ) इति इत्वम् । हे देवाः स्तूयमाना यूयम् इमम् हविःप्रदं यजमानं वर्धयत प्रजापश्वादिभिः समृद्धं कुरुत । वृधु वृद्धौ। अस्मात् ण्यन्तात् लोटि मध्यमपुरुषबहुवचनस्य थस्य तादेशः। 'ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्' (पा ६,३,१३३ ) इति सांहितिको दीर्घः । यद्वा हे देवाः यूयं गिरः अस्माभिः क्रियमाणाः स्तुतिरूपा वाचः । प्राप्य इत्यध्याहृत्य योज्यम्। हे देवाः युष्मत्प्रसादात् यः लोके प्रसिद्धः गवाश्वमहिषादिरूपः पशुरस्ति स सर्वोपि इह अस्मदीये सदने ऐतु आगच्छतु । तथा या प्रसिद्धा धान्यकनकादिरूपा रयिः धनम् अस्ति सा सर्वापि अस्मिन् मदीये गृहे तिष्ठतु निवसतु । मम पशुधनादिसर्वसमृद्धिर्भवतु इत्यर्थः।


ये नदीनां संस्रवन्त्युत्सासः सदमक्षिताः ।

तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥३॥

ये । नदीनाम् । सम्ऽस्रवन्ति । उत्सासः । सदम् । अक्षिताः ।

तेभिः । मे । सर्वैः । सम्ऽस्रावैः । धनम् । सम् । स्रावयामसि ॥ ३ ॥

नदीनाम् नदनशीलानां गङ्गादीनाम् । 'नदनान्नद्यः' ( या २,२४ ) इति यास्कः । तथा च अग्रे निर्वक्ष्यते । 'यददः संप्रयतीरहावनदता हते । तस्मादा नद्यो नाम स्थ' ( अ ३, १३,१ ) इति । नद अव्यक्ते शब्दे । अस्मात् पचाद्यच् । तत्र गणे नदट् इति पाठात् टित्त्वात् ङीप्प्रत्ययः । 'अनुदात्तस्य च यत्रोदात्तलोपः' (पा ६,१,१६१) इति ङीप उदात्तत्वम्। तासां संबन्धिनो ये प्रसिद्धाः सदम् सदा अविच्छेदेन वर्तमाना अक्षिताः क्षयरहिताः अक्षीयमाणा वा । यद्वा सदम् अक्षिताः सर्वदा ग्रीष्मादावपि क्षयरहिताः। क्षि क्षये । अस्माद् भावे कर्मणि वा क्तः। 'निष्ठायाम् अण्यदर्थे' (पा ६,४,६० ) इति भावकर्मणोः पर्युदस्तत्वाद् दीर्घाभावः। अत एव ‘क्षियो दीर्घात्' (पा ८,२,४६ ) इति विहितस्य निष्ठानत्वस्यापि अभावः। तथाविधा उत्सासः उत्साः भूमेरुद्गच्छन्तो जलप्रवाहाः। 'आज्जसेरसुक्' (पा ७,१,५० )। संस्रवन्ति संभूय प्रवहन्ति । महानदीनां जलप्रवाहाः सर्वदा क्षयरहिताः प्रवहन्तीत्यर्थः। तेभिः तैः। 'बहुलं छन्दसि' (पा ७,१,१०) इति भिसः ऐसभावे 'बहुवचने झल्येत्' (पा ७,३,१०३ ) इति एत्त्वम् । सर्वैः निखिलैः संस्रावैः जलप्रवाहैः । स्रु स्रवणे । भावे घञ् । 'थाथघञ्क्ताजबित्रकाणाम्' (पा ६,२,१४४ ) इति उत्तरपदान्तोदात्तत्वम् । धनम् गोहिरण्यादिरूपं मे मम संस्रावयामसिः संस्रावयामः संप्रवाहयामः । अविच्छिन्नैर्नदीनां प्रवाहैः सस्याद्यभिवृद्धिद्वारा अभिलषितं धनं प्राप्नुयामेत्यर्थः । यद्वा नदीनाम् अविच्छिन्नप्रवाहवत् ममापि धनम् अविच्छेदेन समृद्धं भवतु इत्यर्थः । स्रु स्रवणे । अस्मात् ण्यन्तात् लटि 'इदन्तो मसि" ( पा ७,१,४६ ) इति मस इदन्तत्वम् ।


ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य च

तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥४॥

ये । सर्पिषः । सम्ऽस्रवन्ति । क्षीरस्य । च । उदकस्य । च ।

तेभिः । मे । सर्वैः । सम्ऽस्रावैः । धनम् । सम् । स्रावयामसि ॥ ४ ॥

सर्पिषः सर्पणशीलस्य आज्यस्य । 'यद् असर्पत् तत् सर्पिरभवत्' ( तै २,३,१०,१) इति हि तैत्तिरीयकम् । ये अवयवाः संस्रवन्ति नदीरूपेण प्रवहन्ति । यद्वा पूर्वमन्त्रात् उत्सास इति विशेष्यम् अनुषज्य योजनीयम् । सर्पिषोपि द्रवणस्वभावं द्रव्यम् उदाहरति । क्षीरस्य क्षरणशीलस्य पयसः ततोपि द्रवणशीलस्य उदकस्य । उदननात् परितो गमनाद् उदकम् । तथा च निगमः -- ‘उदानिषुर्महीरिति तस्माद् उदकम् उच्यते' (तै ५,६,१,३) इति। परस्परसमुच्चयार्थौ चकारौ। तयोर्ये उत्साः संस्रवन्ति तेभिरित्यादि पूर्वं व्याख्यातम्।

इति चतुर्थं सूक्तम् ।