सामग्री पर जाएँ

अथर्ववेदः/काण्डं १/सूक्तम् १९

विकिस्रोतः तः
← सूक्तं १.१८ अथर्ववेदः - काण्डं १
सूक्तं १.१९
ब्रह्मा।
सूक्तं १.२० →
दे. ईश्वरः ( १ इन्द्रः, २ दैवी मनुष्येषवः, ३ रुद्रः, ४ देवाः)। अनुष्टुप्, २ पुरस्ताद्बृहती, ३ पथ्यापङ्क्तिः।

मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् ।
आराच्छरव्या अस्मद्विषूचीरिन्द्र पातय ॥१॥
विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः ।
दैवीर्मनुष्येषवो ममामित्रान् वि विध्यत ॥२॥
यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मामभिदासति ।
रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु ॥३॥
यः सपत्नो योऽसपत्नो यश्च द्विषन् छपाति नः ।
देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥४॥


सायणभाष्यम्

'मा नो विदन्' (अ १,१९) 'अदारसृत्' (अ १,२०) 'स्वस्तिदाः' (अ १,२१) इति सूक्तत्रयस्य अपराजितगणे पाठात् तद्गणसाध्येषु सांग्रामिकादिकर्मसु विद्मा शरस्य (अ १,२) इति प्रथमसूक्तवद् विनियोगोनुसंधेयः। अत्र ‘मा नो विदन्' इति सूक्तस्य ब्राह्मणायुधधारणदेवताप्रतिमानर्तनहसनाद्यद्भुतेषु आज्यहोमे विनियोगः। 'अथ यत्रैतद् ब्राह्मणा आयुधिनो भवन्ति' इति प्रक्रम्य सूत्रितम् । “'मा नो विदन्' ( अ १,१९) 'नमो देववधेभ्यः' (अ ६,१३) इत्येताभ्यां सूक्ताभ्यां जुहुयात् । सा तत्र प्रायश्चित्तिः। अथ यत्रैतद् दैवतानि नृत्यन्ति' ' ( कौसू १०४, १-४, १०५,१) इत्यादि। तथा अनड्वान् यदि धेनोः स्तन्यं पिबेत् तदा एतेन आज्यं जुहुयात् । तथा च कौशिकः -- 'अथ यत्रैतद् अनड्वान् धेनुं धयति' इति प्रक्रम्य “'मा नो विदन्', 'नमो देववधेभ्यः' इत्येताभ्यां जुहुयात्" ( कौसू ११३,१-३) इति ।


मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् ।

आराच्छरव्या अस्मद्विषूचीरिन्द्र पातय ॥१॥

मा । नः । विदन् । विऽव्याधिनः । मो इति । अभिऽव्याधिनः । विदन् ।

आरात् । शरव्याः । अस्मत् । विषूचीः । इन्द्र । पातय ॥ १ ॥

विव्याधिनः विशेषेण अस्त्रादिभिस्ताडनशीलाः शत्रवः नः अस्मान् युध्यमानान् मा विदन् मा लभन्तां मा प्राप्नुवन्तु । विद्लृ लाभे। अस्मात् माङि लुङि 'पुषादिद्युताद्य्लृदितः परस्मैपदेषु' (पा ३,१,५५) इति च्लेः अङादेशः। 'न माङयोगे' (पा ६,४, ७४) इति अडभावः। विव्याधिन इति । व्यध ताडने । अस्माद् विपूर्वात् 'सुप्यजातौ णिनिस्ताच्छील्ये' ( पा ३,२,७८ ) इति णिनिः। तथा अभिव्याधिनः अभिमुखम् आगत्य विध्यन्ति हिंसन्तीत्यभिव्याधिनः प्रत्यर्थिनः संनिहिता भटाः। पूर्ववद् णिनिः। तेऽपि मो विदन् मैव लभन्ताम् । दूरस्थाः संनिहिताश्च भटा अस्मान् न स्पृशन्तु इत्यर्थः। अधुना शत्रुसंबन्धीनि शस्त्राण्यपि अस्मत्समीपदेशं न प्राप्नुवन्तु इति प्रार्थयते । हे इन्द्र परमैश्वर्ययुक्त देव शरव्याः शत्रुभिर्बहुशो विनिर्मुक्ताः शरसंहतीः विषूचीः विष्वक् नानामुखम् अञ्चनशीलाः सतीः अस्मत् आरात् अस्मत्तो दूरदेशे पातय प्रक्षिप। शरव्या इति । 'शॄस्वृस्निहित्रप्यसि' ( पाउ० १,१०) इत्यादिना औणादिक उप्रत्ययः। शरुशब्दात् 'उगवादिभ्यो यत्' (पा ५,१,२) इति यत् । 'ओर्गुणः' (पा ६,४,१४६) इति गुणे 'वान्तो यि प्रत्यये' (पा ६, १,७९ ) इति अवादेशः। 'तित् स्वरितम्' (पा ६, १,१८५) इति स्वरितत्वम् । 'अन्यारादितरर्ते' (पा २,३,२९ ) इति अस्मच्छब्दात् पञ्चमी । विषूचीरिति । अञ्चु गतिपूजनयोः । अस्माद् विषुशब्दोपपदात् 'ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च' (पा ३,२,५९ ) इति क्विन् । 'अनिदिताम्' (पा ६,४,२४ ) इति नलोपः। 'अञ्चतेश्चोपसंख्यानम्' ( पावा ४,१,६ ) इति ङीपि भसंज्ञायाम् 'अचः' (पा ६,४, १३८ ) इत्यकारलोपे 'चौ' (पा ६,३,१३८) इति दीर्घत्वम् ।


विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः ।

दैवीर्मनुष्येषवो ममामित्रान् वि विध्यत ॥२॥

विष्वञ्चः । अस्मत् । शरवः । पतन्तु । ये । अस्ताः । ये । च । आस्याः ।

दैवीः । मनुष्यऽइषवः । मम । अमित्रान् । वि । विध्यत ॥ २ ॥

शरवः शराः हिंसकाः । शॄ हिंसायाम् । 'शॄस्वृस्निहि' [पाउ १,१०] इत्यौणादिक उप्रत्ययः। तत्र 'धान्ये नित्' (पाउ १,९) इत्यनुवृत्तेः 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७) इत्याद्युदात्तत्वम् । ते अस्मत् अस्मत्तः सकाशात् विष्वञ्चः विविधगमनाः पतन्तु निपतन्तु । अस्मान् परित्यज्य अन्यत्र गच्छन्तु इत्यर्थः। तान् शरान् विशिनष्टि- ये शरा अस्ताः शत्रुभिर्धनुर्यन्त्रेण विनिर्मुक्ताः। असु क्षेपणे । कर्मणि निष्ठा । 'यस्य विभाषा' (पा ७,२,१५ ) इति इट्प्रतिषेधः । तथा ये च शराः आस्याः क्षेप्तव्याः तूणीरे संगृहीताः । ते सर्वे निपतन्तु इति योजना । असु क्षेपणे इत्यस्मात् 'ऋहलोर्ण्यत्' (पा ३,१,१२४ ) इति ण्यत्प्रत्ययः । पूर्वं शत्रुशराणां लक्ष्यावेधलक्षणं वैयर्थ्यं प्रार्थ्य अधुना स्वीयानां शराणां शत्रुरूपस्य [ लक्ष्यस्य] । हिंसकत्वं प्रार्थयते । दैवीः देवसंबन्धिन्यः [इषवः] आग्नेयवारुणादिरूपाणि अस्त्राणि । देवशब्दात् 'तस्येदम् ' (पा ४,३,१२०) अर्थे 'देवाद् यञञौ' (पावा ४,१,८५) इति अञ्प्रत्ययः। ‘टिड्ढाणञ्' (पा ४,१,१५) इत्यादिना ङीप् । ' वा छन्दसि' (पा ६,१,१०६) इति जसि पूर्वसवर्णदीर्घः । 'नित्यादिर्नित्यम्' (पा ६,१,१९७) इति आद्युदात्तत्वम् । तथा मनुष्येषवः मनुष्याणाम् अस्मदीयानां संबन्धिन्य इषवः शस्त्राणि उभयविधास्ता इषवः अस्मदीयैर्योद्धृभिः मनुप्यैर्विमुच्यमानाः मम मदीयान् अमित्रान् न विद्यते मित्रम् एषाम् इति अमित्राः शत्रवः । बहुव्रीहौ 'नञ्सुभ्याम्' (पा ६,२,१७२ ) इति उत्तरपदान्तोदात्तत्वे प्राप्ते 'नञो जरमरमित्रमृताः' ( पा ६,२,११६) इति उत्तरपदाद्युदात्तत्वम् । तान् शत्रून् वि विध्यतु विविध्यन्तु मारयन्तु । व्यध ताडने । लोटि दिवादित्वात् श्यन् । तस्य ङित्त्वात् 'ग्रहिज्यावयिव्यधिवष्टि' (पा ६,१,१६ ) इत्यादिना संप्रसारणम् । 'तिङां तिङो भवन्तीति वक्तव्यम्' ( पावा ७,१,३९) इति झेस्तिप् । 'तिङ्ङतिङः' (पा ८,१,२८) इति निघातः ।


यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मामभिदासति ।

रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु ॥३॥

यः । नः । स्वः । यः । अरणः । सऽजातः । उत । निष्ट्यः । यः । अस्मान् । अभिऽदासति ।

रुद्रः । शरव्यया । एतान् । मम । अमित्रान् । वि । विध्यतु ॥ ३ ॥

नः अस्माकं संबन्धी यः स्वः ज्ञातिः अधिकबलः सन् अस्मान् अनपकर्तॄन् अभिदासति उपक्षपयति क्षेत्रधनादिकम् अपहृत्य पीडयतीत्यर्थः। दसु उपक्षये । अस्मात् ण्यन्तात् लट् । शपः 'छन्दस्युभयथा' (पा ३,४,११७ ) इति आर्धधातुकत्वात् 'णेरनिटि' ( पा ६,४,५१) इति णिलोपः। शप्तिपोः पित्त्वाद् अनुदात्तत्वे धातुस्वरः शिष्यते । 'यद्वृत्तान्नित्यम् ' ( पा ८,१,६६ ) इति निघातप्रतिषेधः । तथा अरणः अरणनीयः संभाष्यो न भवतीत्यरणः शत्रुः । रण शब्दार्थः इत्यस्माद्धातोः 'वशिरण्योरप्युपसंख्यानम्' (पावा ३.३,५८ ) इति कर्मणि अप् । ततो नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । एवंभूतो यः शत्रुः अस्मान् अभिदासति उपक्षपयति । तथा अन्योपि सजातः समानजन्मा समबलः ज्ञातिः अरातिर्वा । उत अपिच निष्ट्यः निर्गतवीर्यो निकृष्टबलो यः शत्रुः अस्मान अभिदासति क्षुद्रोपद्रवैः पीडयति । सजात इति । जनेः कर्तरि निष्ठा । 'श्वीदितो निष्ठायाम्' (पा ७,२,१४ ) इति इट्प्रतिषेधः । 'जनसनखनां सञ्झलोः' (पा ६,४,४२) इति आत्त्वम् । ततः समानशब्देन समासे 'समानस्य च्छन्दस्यमूर्धप्रभृत्युदर्केषु' ( पा ६,३,८४ ) इति समानशब्दस्य सभावः । निष्ट्य इति । 'अव्ययात् त्यप्' ( पा ४,२,१०४ ) इत्यत्र 'निसो गते' (पा ४,२,१०४ ) इति वचनात् निस्शब्दात् त्यप्प्रत्ययः। 'ह्रस्वात् तादौ तद्धिते' ( पा ८,३,१०१ ) इति सकारस्य मूर्धन्यादेशः। एतान् ज्ञातिप्रभृतीन् मम मदीयान् अमित्रान् शत्रून् रुद्रः । रोदयति सर्वम् अन्तकाले इति रुद्रः संहर्ता देवः । रुदिर् अश्रुविमोचने । अस्मात् ण्यन्तात् 'रोदेर्णिलुक् च' ( पाउ २,२२ ) इति रक्प्रत्ययः । शरव्यया शरूणां हिंसकानाम् आयुधानां संहतिः शरव्या। 'पाशादिभ्यो यः' (पा ४,२,४९ ) इति समूहेर्थे यप्रत्ययः । 'ओर्गुणः' (पा ६,४,१४६ ) इति गुणे 'वान्तो यि प्रत्यये' (पा ६,१,७९ ) इति अवादेशः। तया वि विध्यतु विनिहन्तु । व्यध ताडने । श्यनि ‘ग्रहिज्या' (पा ६,१,१६ ) इत्यादिना संप्रसारणम् ।


यः सपत्नो योऽसपत्नो यश्च द्विषन् छपाति नः ।

देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥४॥

यः। सऽपत्नः । यः। असपत्नः । यः । च । द्विषन् । शपाति । नः ।

देवाः। तम् । सर्वे । धूर्वन्तु । ब्रह्म । वर्म । मम । अन्तरम् ॥ ४ ॥

यः सपत्नः ज्ञातिरूपः शत्रुः यः असपत्नः ज्ञातिव्यतिरिक्तः शत्रुः अस्मान् बाधते । तथा यश्च शत्रुः द्विषन् द्वेषं कुर्वन् । द्विष अप्रीतौ । 'द्विषोऽमित्रे' (पा ३,२,१३१) इति शतृप्रत्ययः। नः अस्मान् अनागसः शपाति शपेत् । निग्रहरूपया वाचा नाशयेत् । शप आक्रोशे । अस्मात् लेटि आडागमः । 'यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति निघातप्रतिषेधः । तं सर्वं पूर्वोक्तं शत्रुं सर्वे निखिला देवाः इन्द्रादयो धूर्वन्तु हिंसन्तु । धुर्वी हिंसायाम् । शत्रुकृतशापस्य असंस्पर्शनोपायम् आह - ब्रह्मेति । मम मन्त्रप्रयोक्तुः ब्रह्म प्रयुज्यमानं मन्त्रजालम् अन्तरम् व्यवधायकं वर्म कवचं भवतु । यथा शत्रुकृता वाक्शस्त्रादयः अस्मान् न स्पृशन्ति तथा अयं मन्त्रः अस्मान् छादयतु इत्यर्थः ।

इति तृतीयं सूक्तम् ।