र्थदोषाः सूक्ष्माः, ते गुणविवेचने वक्ष्यन्ते ; उपमादोषाश्चोपमाविचार इति ।
इति काव्यालंकारसूत्रवृत्तौ दोषदर्शने द्वितीयेऽधिकरणे
द्वितीयोऽध्यायः॥
समाप्तं चेदं दोषदर्शनं द्वितीयमधिकरणम् ॥
ये त्वन्य इति । सूक्ष्माः काव्यसौन्दर्याक्षेपानतिक्षमाः । 'ओजोविपर्ययात्मा दोषः' इत्यारभ्य तदुदाहरणप्रत्युदाहरणाभ्यां वक्ष्यन्ते; ते गुणविवेचने यथायथमवबोध्याः । यद्येवं तर्हि स्थूलत्वादुपमादोषा दोषविवेचने विविच्यन्तामित्यत आह- उपमादोषश्चेति । उपमाविचारे तद्दोषविचारणं प्रतिपत्तिसौकर्याय भवतीति भावः ।
इति कृतरचनायामिन्दुवंशोद्वहेन
त्रिपुरहरधरित्रीमण्डलाखण्डलेन ।
ललितवचसि काव्यालंक्रियाकामधेना-
वधिकरणमयासीत्पूर्तिमेतद्द्वितीयम् ॥
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृत्ति-
व्याख्यायां काव्यालंकारकामधेनौ दोषदर्शन नाम
द्वितीयमधिकरणम् ॥