पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अ. २.]
६७
कामधेनुसहिता।

 'अहंकारेण जीयन्ते द्विषन्तः किं नयश्रिया ।'

 द्विषज्जयस्य नयमूलत्वं स्थितं दण्डनीतौ; तद्विरोधादर्थशास्त्रविरुद्धं वाक्यमिति ।

 'दशनाङ्कपवित्रितोत्तरोष्ठं रतिरखेदालसमाननं स्मरामि ।'

 'उत्तरोष्ठमन्तर्मुखं नयनान्तमिति मुक्त्वा चुम्बननखरदशनस्थानानि' इति कामशास्त्रे स्थितम् । तद्विरोधात् कामशास्त्रविरुद्धार्थं वाक्यमिति ।

  'देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदा ।'
  एतस्यार्थस्य मोक्षशास्त्रे स्थितत्वात् तद्विरुद्धार्थम् ।

 एते वाक्यवाक्यार्थदोषास्त्यागाय ज्ञातव्याः । ये त्वऽन्ये शब्दा-

रात्रौ स्नानं धर्मशास्त्रविरुद्धम् , 'रात्रौ स्नानं न कुर्वीत राहोरन्यत्र दर्शनात्' इति स्मृतेः । अर्थशास्त्रमत्र दण्डनीतिः । यत्र पुनरर्थकामौ प्रधानम्, लोकयात्रानुवृत्तिमात्राय धर्मः, सा दण्डनीतिः ; यस्या भगवान् बृहस्पतिः प्रवक्ता । तद्विरुद्धमुदाहरति-- अहंकारेणेति । विरोधं विवृणोति-- द्विषज्जयस्येति । तत् कामशास्त्रम् , यत्र त्रिवर्गस्य परस्परानुपरोधादुपयोगोपदेशः; यस्य भगवान् भार्गवः प्रणेता । कामशास्त्रविरुद्धं दर्शयति-- दशनेति । विरोधं विवेचयति-उत्तरोष्ठमिति । उक्तं हि रतिरहस्ये, 'अङ्गुष्ठे पदगुल्फजानुजघने---' इत्यादि । मोक्षशास्त्रविरुद्धमुदाहरति-देवताभक्तित इति । विरोधं व्युत्पादयति--एतस्येति । 'चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ॥' इत्युक्तनीत्या या ज्ञानलक्षणा भक्तिः, सात्र न विवक्षिता ; किंत्वार्तत्वादिप्रयुक्ता त्रिरूपा । ज्ञानरूपायास्तु भक्तेर्मोक्षो भवत्येव । तदुक्तं तत्रैव---- 'ज्ञानी त्वात्मैव मे मतम् ।' इति । अतः 'न तत्त्वज्ञानसंपदा' इत्येतत् 'ज्ञानादेव तु कैवल्यम्' इत्यादिमोक्षशास्त्रविरुद्धम् ।

 प्रतिपादितानाममीषां दोषाणां परिज्ञानस्य फलमाह- एत इति ।