प्रवृत्तिः केवलं निरपत्रपकृत्यमेवेति तयोः प्रशंसापरोऽयं श्लोकः । यद्वा, प्राचा.महाकवीनां प्रबन्धेषु सत्सु स्वकीयप्रबन्धनिर्माणप्रवृत्तावनौचित्य- परिहारेण स्वविनयाविष्करणार्थोऽयं श्लोकः । अत्र पक्षे अन्येऽपि मद- न्येऽपीत्यर्थः । अयं भावः-मदन्येऽपि हि कवयः सत्येव रामायणे भारते च यथा प्रबन्ध निरमिमत, एवं मयापि निर्मीयते । यथामति निर्माणे कापनपेति ॥ ४ ॥
स कविः कथ्यते स्रष्टा रमते यत्र भारती।
रसभावगुणीभूतैरलङ्कारैर्गुणोदयैः॥५॥
स इति। रसाः शृङ्गारादयः, भावाः तत्तद्रसोचिता विभावानुभावसञ्चा- रिणः, गुणीभूतानि 'अगूढमपरस्याङ्ग वाच्यसिद्धयङ्गमस्फुटम् । सन्दिग्ध- तुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥' इत्युक्तरूपाणि अगूढत्वापराङ्गत्वा- दिनिमित्तैरप्राधान्यं प्राप्तानि व्यङ्ग्यानि तैः । अलङ्काराः अनुप्रासोपमादयः तैः। गुणोदया: माधुर्यादीनां रससमवेतानां गुणानां तत्तद्गुणोचितवर्णसमा- सरचनाभिव्यक्तयः तैः, प्रकारैः उपलक्षिता। भारती वाणी । यत्र रमते यस्मिन् बलादाकृष्यमाणतां विना खयमेव निरर्गळप्रवाहरूपा वर्तते । सः स्रष्टा अन्यैः कविभिरनुल्लिखितस्यार्थस्य प्रतिभया निष्पादकः । कविः कथ्यते कविरिति व्यपदिश्यत इति प्रकृतोऽर्थः । अपि'चात्र रसभावाः रागप्रयुक्ता नयनादाववलोकनमन्दस्मिताद्यनुभावाः तेषां गुणीभूतैरुप- स्कारकैः तद्विजृम्भणहतुभूतैरिति यावत् । अलङ्कारैः कटककेयूरादिभिः । गुणैः रूपयौवनादिभिः उदयन्ते नायकदर्शनेनोद्गच्छन्तीत्युदयाः दृष्टि- विकारादयः तैश्च । उपलक्षिता 'आलम्बन गुणाश्चैव तच्चेष्टा तदलंकृतिः। तटस्थाश्चेति विज्ञेयश्चतुर्थोद्दीपनक्रमः ।' इति नायिकागुणालङ्कारचेष्टानां नायकरतिभावोद्दीपनहेतुत्वमुक्तम् । एवंभूता भारती वाग्देवता, यत्र रमते