अथर्ववेदः/काण्डं १५/सूक्तम् १२

विकिस्रोतः तः
← सूक्तं १५.११ अथर्ववेदः - काण्डं १५
सूक्तं १५.१२
अथर्वा
सूक्तं १५.१३ →
दे. अध्यात्मम्, व्रात्यः। १ त्रिपदा गायत्री, - - - - -- -

तद्यस्यैवं विद्वान् व्रात्य उद्धृतेष्वग्निष्वधिश्रितेऽग्निहोत्रेऽतिथिर्गृहान् आगच्छेत्॥१॥
स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्याति सृज होष्यामीति ॥२॥
स चातिसृजेज्जुहुयान् न चातिसृजेन् न जुहुयात्॥३॥
स य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥४॥
प्र पितृयाणं पन्थां जानाति प्र देवयानम् ॥५॥
न देवेष्वा वृश्चते हुतमस्य भवति ॥६॥
पर्यस्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥७॥
अथ य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥८॥
न पितृयाणं पन्थां जानाति न देवयानम् ॥९॥
आ देवेषु वृश्चते अहुतमस्य भवति ॥१०॥
नास्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥११॥