अथर्ववेदः/काण्डं १५/सूक्तम् १३

विकिस्रोतः तः
← सूक्तं १५.१२ अथर्ववेदः - काण्डं १५
सूक्तं १५.१३
अथर्वा
सूक्तं १५.१४ →
दे. अध्यात्मम्, व्रात्यः। १ साम्नी उष्णिक्, - - - - -- -

तद्यस्यैवं विद्वान् व्रात्य एकां रात्रिमतिथिर्गृहे वसति । [१]
ये पृथिव्यां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥१॥ [२]
तद्यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिमतिथिर्गृहे वसति । [३]
येऽन्तरिक्षे पुण्या लोकास्तान् एव तेनाव रुन्धे ॥२॥ [४]
तद्यस्यैवं विद्वान् व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति । [५]
ये दिवि पुण्या लोकास्तान् एव तेनाव रुन्धे ॥३॥ [६]
तद्यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति । [७]
ये पुण्यानां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥४॥ [८]
तद्यस्यैवं विद्वान् व्रात्योऽपरिमिता रात्रीरतिथिर्गृहे वसति । [९]
य एवापरिमिताः पुण्या लोकास्तान् एव तेनाव रुन्धे ॥५॥ [१०]
अथ यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहान् आगछेत्॥६॥ [११]
कर्षेदेनं न चैनं कर्षेत्॥७॥ [१२]
अस्यै देवताया उदकं याचामीमां देवतां वासय इमामिमां देवतां परि वेवेष्मी परि वेविष्यात्॥८॥
तस्यामेवास्य तद्देवतायां हुतं भवति य एवं वेद ॥९॥ [१४]