अथर्ववेदः/काण्डं २०/सूक्तम् १३५

विकिस्रोतः तः
← सूक्तं २०.१३४ अथर्ववेदः - काण्डं २०
सूक्तं २०.१३५
कुन्तापसूक्तानि
सूक्तं २०.१३६ →

भुगित्यभिगतः शलित्यपक्रान्तः फलित्यभिष्ठितः ।
दुन्दुभिमाहननाभ्यां जरितरोथामो दैव ॥१॥
कोशबिले रजनि ग्रन्थेर्धानमुपानहि पादम् ।
उत्तमां जनिमां जन्यानुत्तमां जनीन् वर्त्मन्यात्॥२॥
अलाबूनि पृषातकान्यश्वत्थपलाशम् ।
पिपीलिकावतश्वसो विद्युत्स्वापर्णशफो गोशफो जरितरोथामो दैव ॥३॥
वीमे देवा अक्रंसताध्वर्यो क्षिप्रं प्रचर ।
सुसत्यमिद्गवामस्यसि प्रखुदसि ॥४॥
पत्नी यदृश्यते पत्नी यक्ष्यमाणा जरितरोथामो दैव ।
होता विष्टीमेन जरितरोथामो दैव ॥५॥
आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन् ।
तां ह जरितः प्रत्यायंस्तामु ह जरितः प्रत्यायन् ॥६॥
तां ह जरितर्नः प्रत्यगृभ्णंस्तामु ह जरितर्नः प्रत्यगृभ्णः ।
अहानेतरसं न वि चेतनानि यज्ञान् एतरसं न पुरोगवामः ॥७॥
उत श्वेत आशुपत्वा उतो पद्याभिर्यविष्ठः ।
उतेमाशु मानं पिपर्ति ॥८॥
आदित्या रुद्रा वसवस्त्वेनु त इदं राधः प्रति गृभ्णीह्यङ्गिरः ।
इदं राधो विभु प्रभु इदं राधो बृहत्पृथु ॥९॥
० देवा ददत्वासुरं तद्वो अस्तु सुचेतनम् ।
युष्मामस्तु दिवेदिवे प्रत्येव गृभायत्॥१०॥
त्वमिन्द्र शर्मरिणा हव्यं पारावतेभ्यः ।
विप्राय स्तुवते वसुवनिं दुरश्रवसे वह ॥११॥
त्वमिन्द्र कपोताय छिन्नपक्षाय वञ्चते ।
श्यामाकं पक्वं पीलु च वारस्मा अकृणोर्बहुः ॥१२॥
अरंगरो वावदीति त्रेधा बद्धो वरत्रया ।
इरामह प्रशंसत्यनिरामप सेधति ॥१३॥