सामग्री पर जाएँ

अथर्ववेदः/काण्डं २०/सूक्तम् १३६

विकिस्रोतः तः
← सूक्तं २०.१३५ अथर्ववेदः - काण्डं २०
सूक्तं २०.१३६
कुन्तापसूक्तानि
सूक्तं २०.१३७ →

यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत्।
मुष्काविदस्या एजतो गोशफे शकुलाविव ॥१॥
यदा स्थूलेन पससाणौ मुष्का उपावधीत्।
विष्वञ्चा वस्या वर्धतः सिकतास्वेव गर्दभौ ॥२॥
यदल्पिकास्वल्पिका कर्कधूकेवषद्यते ।
वासन्तिकमिव तेजनं यन्त्यवाताय वित्पति ॥३॥
यद्देवासो ललामगुं प्रविष्टीमिनमाविषुः ।
सकुला देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥४॥
महानग्न्यतृप्नद्वि मोक्रददस्थानासरन् ।
शक्तिकानना स्वचमशकं सक्तु पद्यम ॥५॥
महानग्न्युलूखलमतिक्रामन्त्यब्रवीत्।
यथा तव वनस्पते निरघ्नन्ति तथैवेति ॥६॥
महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः ।
यथैव ते वनस्पते पिप्पति तथैवेति ॥७॥
महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः ।
यथा वयो विदाह्य स्वर्गे नमवदह्यते ॥८॥
महानग्न्युप ब्रूते स्वसावेशितं पसः ।
इत्थं फलस्य वृक्षस्य शूर्पे शूर्पं भजेमहि ॥९॥
महानग्नी कृकवाकं शम्यया परि धावति ।
अयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम् ॥१०॥
महानग्नी महानग्नं धावन्तमनु धावति ।
इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम् ॥११॥
सुदेवस्त्वा महानग्नीर्बबाधते महतः साधु खोदनम् ।
कुसं पीवरो नवत्॥१२॥
वशा दग्धामिमाङ्गुरिं प्रसृजतोग्रतं परे ।
महान् वै भद्रो यभ मामद्ध्यौदनम् ॥१३॥
विदेवस्त्वा महानग्नीर्विबाधते महतः साधु खोदनम् ।
कुमारिका पिङ्गलिका कार्द भस्मा कु धावति ॥१४॥
महान् वै भद्रो बिल्वो महान् भद्र उदुम्बरः ।
महामभिक्त बाधते महतः साधु खोदनम् ॥१५॥
यः कुमारी पिङ्गलिका वसन्तं पीवरी लभेत्।
तैलकुण्डमिमाङ्गुष्ठं रोदन्तं शुदमुद्धरेत्॥१६॥