अथर्ववेदः/काण्डं ४/सूक्तम् १८
← सूक्तं ४.१७ | अथर्ववेदः - काण्डं ४ सूक्तं ४.१८ शुक्रः। |
सूक्तं ४.१९ → |
अपामार्गो वनस्पतिः। अनुष्टुप्, ६ बृहतीगर्भा। |
समं ज्योतिः सूर्येणाह्ना रात्री समावती ।
कृणोमि सत्यमूतयेऽरसाः सन्तु कृत्वरीः ॥१॥
यो देवाः कृत्यां कृत्वा हरादविदुषो गृहम् ।
वत्सो धारुरिव मातरं तं प्रत्यगुप पद्यताम् ॥२॥
अमा कृत्वा पाप्मानं यस्तेनान्यं जिघांसति ।
अश्मानस्तस्यां दग्धायां बहुलाः फट्करिक्रति ॥३॥
सहस्रधामन् विशिखान् विग्रीवां छायया त्वम् ।
प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर ॥४॥
अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।
यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥५॥
यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।
चकार भद्रमस्मभ्यमात्मने तपनं तु सः ॥६॥
अपामार्गोऽप मार्ष्टु क्षेत्रियं शपथश्च यः ।
अपाह यातुधानीरप सर्वा अराय्यः ॥७॥
अपमृज्य यातुधानान् अप सर्वा अराय्यः ।
अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥८॥
सायणभाष्यम्
'समं ज्योति:' इति सूक्तस्य पूर्वसूक्तेन सह उक्तो विनियोगः । सूत्रं तु तत्रैव उदाहृतम् ।
स॒मं ज्योतिः॒ सूर्ये॒णाह्ना॒ रात्री॑ स॒माव॑ती।
कृ॑णोमि स॒त्यमू॒तये॑ ऽर॒साः स॑न्तु॒ कृत्व॑रीः ।।१।।
स॒मम् । ज्योति॑ः । सूर्ये॑ण । अह्ना । रात्री । स॒मऽव॑ती ।
कृ॒णोमि । स॒त्यम् । ऊ॒तये॑ । अ॒र॒साः । स॒न्तु । कृ॒त्व॑रीः ॥ १ ॥
सूर्येण आदित्येन तदीयं ज्योतिः प्रभामण्डलं समम् समानमेव भवति न कदाचित् तेन वियुज्यते । रात्री । 'रात्रेश्चाजसौ' ( पा ४,१,३१ ) इति ङीप् । रात्रिश्च अह्ना समावती समानायामा । समशब्दात् आवतुप्रत्ययः स्वार्थिकः । यथैवं प्रभाप्रभावतोर्दिवा रात्रयोश्च समानत्वं यथार्थम् तथा सत्यम् यथार्थं कर्म कृणोमि करोमि । किमर्थम् । ऊतये अभिचर्यमाणस्य पुरुषस्य रक्षणार्थम् । तस्मात् कृत्वरीः कर्तनशीलाः कृत्याः अरसाः शुष्काः कार्यासमर्थाः सन्तु भवन्तु ।
यो दे॑वाः कृ॒त्यां कृ॒त्वा हरा॒दवि॑दुषो गृ॒हम्।
व॒त्सो धा॒रुरि॑व मा॒तरं॒ तं प्र॒त्यगुप॑ पद्यताम् ।।२।।
यः । दे॒वाः । कृ॒त्याम् । कृ॒त्वा । हरा॑त् । अवि॑दु॒षः । गृ॒हम् ।
व॒त्सः । धा॒रुःऽइ॑व । मा॒तर॑म् । तम् । प्र॒त्यक् । उप॑ । प॒द्य॒ता॒म् ॥ २ ॥
हे देवाः यः शत्रुः कृत्याम् मन्त्रौषधादिभिः शत्रोः पीडाकरीं कृत्यां कृत्वा अविदुषः अजानानस्य तस्य गृहम् अरात् ऋच्छेत् कृत्यानिखननार्थं गच्छेत् । ऋ गतौ इत्यस्मात् लेटि आडागमः । छान्दसः शपो लुक् । तम् अभिचरन्तं सा कृत्या प्रत्यक् अभिमुखं प्रतिनिवृत्य उप पद्यताम् उपगच्छतु । तत्र दृष्टान्तः - वत्स इति । धारुः । धेट् पाने । । ‘दाधेट्” ( पा ३,२,१५९ ) इति रुप्रत्ययः । यथा धारुः स्तनपानं कुर्वन् वत्सः मातरम् स्वमातरमेव अनुधावति एवं कृत्यापि स्वोत्पादकमेव प्रतिनिवृत्य गच्छतु इत्यर्थः ।
अ॒मा कृ॒त्वा पा॒प्मानं॒ यस्तेना॒न्यं जिघां॑सति।
अश्मा॑न॒स्तस्यां॑ द॒ग्धायां॑ बहु॒लाः पट्क॑रिक्रति ।।३।।
अ॒मा । कृ॒त्वा । पा॒प्मान॑म् । यः । तेन॑ । अ॒न्यम् । जिघां॑स॒ति ।
अश्मा॑नः । तस्या॑म् । द॒ग्धाया॑म् । ब॒हुलाः । फट् । क॒रि॒क्रति॒ ॥ ३ ॥
यः शत्रुः अनुकूल इव अमा सह स्थितः सन् पाप्मानम् कृत्यानिखननलक्षणं कृत्वा तेन पाप्मना अन्यम् द्वेष्यं जिघांसति हन्तुम् इच्छति । 'अज्झनगमां सनि' ( पा ६,४,१६ ) इति दीर्घः । तस्याम् तेन शत्रुणा कृतायां कृत्यायां दुग्धायाम् प्रतीकारेण रिक्तीकृतायां स्वकार्यकरणासमर्थायां सत्याम् अश्मानः पाषाणाः मन्त्रसामर्थ्योत्पादिता बहुलाः सन्तः फट् हिंसनं करिक्रति पुनः पुनः कुर्वन्तु । कृत्याकृतं शत्रुं हिंसन्तु इत्यर्थः । करोतेर्यङ्लुगन्तात् पञ्चमलकारे 'रुग्रिकौ च लुकि' ( पा ७,४,९१ ) इति अभ्यासस्य रिगागमः ।
'सह॑स्रधाम॒न् 'विशि॑खिान् विग्रीवां "छायय॒ त्वम् ।
प्रति॑ स्मा॑ च॒क्रुषे॑ कृ॒त्या॑ प्रि॒या॑ प्रि॒याव॑ते हर ॥ ४ ॥
सह॑स्रधाम॒न्विशि॑खा॒न्विग्री॑वां छायया॒ त्वम्।
प्रति॑ स्म च॒क्रुषे॑ कृ॒त्यां प्रि॒यां प्रि॒याव॑ते हर ।।४।।
हे सहस्रधामन् । ‘धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति' ( नि ९,२८ ) इति यास्कवचनाद् धामशब्देन स्थानादिकम् उच्यते । सहस्रं धामानि स्थानादीनि यस्याः सा सहस्रधामा ओषधिः । 'मनः' ( पा ४,१,११ ) इति ङीपः प्रतिषेधः । हे सहस्रधामन् सहदेव्याख्ये ओषधे त्वम् अस्मदीयान् शत्रून् विशिखान् विच्छिन्नकेशान् विग्रीवान् विच्छिन्नग्रीवान् छिन्नशिरसः कृत्वा क्षायय क्षयं प्रापय । क्षै जै षै क्षये इति धातुः । प्रियाम् शत्रूणां हितकारित्वेन अनुकूलां कृत्याम् पिशाचीं चक्रुषे कृतवते उत्पादितवते प्रियावते प्रियया कृत्यया तद्वते प्रति हर स्म तां कृत्यां प्रतिनिवृत्य प्रापय । चक्रुषे । करोतेर्लिटः क्वसुः । चतुर्थ्येकवचने भसंज्ञायां 'वसोः संप्रसारणम्' (पा ६, ४, १३१) ।
अ॒नया॒हमोष॑ध्या॒ सर्वाः॑ कृ॒त्या अ॑दूदुषम्।
यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ।।५।।
अनया॑ । अ॒हम् । ओष॑ध्या । सर्वा॑ः । कृ॒त्याः । अदू॒दु॒ष॒म् ।
याम् । क्षेत्रे॑ । च॒क्रुः । याम् । गोषु॑ । याम् । वा । ते । पुरु॑षेषु ॥ ५ ॥
अनया सहदेव्याख्यया ओषध्या अहं सर्वाः कृत्याः वक्ष्यमाणप्रदेशेषु खाताः अदूदुषम् दूषितवान् अस्मि । कार्यासमर्थाः करोमीत्यर्थः । दुषेर्ण्यन्तात् लुङि चङि रूपम् । ताः कृत्या दर्शयति -- यां कृत्यां क्षेत्रे बीजावापार्हे भूप्रदेशे चक्रुः कृतवन्तः निखातवन्तः यां कृत्यां गोषु मध्ये निखातवन्तः 'वाते वातसंचारप्रदेशे यां कृत्यां कृतवन्तः । कृत्यासंस्पृष्टवाय्वभिघातेनापि अभिचारदोषो जायत इत्येवम् उक्तम् । तथा पुरुषेषु मनुष्येषु तत्संचारदेशे यां कृत्यां निखातवन्तः ताः सर्वाः कृत्या अदूदुषम् इत्यन्वयः ।
यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म्।
च॒कार॑ भ॒द्रम॒स्मभ्य॑मा॒त्मने॒ तप॑न॒म्तु सः ।।६।।
यः । च॒कार॑ । न । श॒शाक॑ । कर्तुम् । श॒श्रे । पाद॑म् । अ॒ङ्गुरि॑म् ।
च॒कार॑ । भ॒द्रम् । अ॒स्मभ्य॑म् । आ॒त्मने॑ । तप॑नम् । तु । सः ॥ ६ ॥
यः शत्रुः चकार कृत्यां प्रयुङ्क्ते तया कृत्यया एकं पादम् एकाम् अङ्गुलिं वा शश्रे हिनस्ति । शॄ हिंसायाम् इत्यस्मात् छान्दसो लिट् । स शत्रुः कर्तुं तथा हिंसितुं न शशाक न शक्नोतु । छान्दसो लिट् । कृत्याप्रयोगेण मारणम् अवयवहानिं वा कर्तुम् असमर्थो भवतु इत्यर्थः । तत्कृतम् अभिचारकर्म अस्मभ्यं भद्रम् मङ्गलं चकार । प्रतीकारमन्त्रौषधिप्रभावेन श्रेयः करोतु इत्यर्थः । अपि तु आत्मने स्वस्मै कृत्याप्रयोक्त्रे सः तत्कृतोभिचारः तपनम् दहनं करोतु ।
अ॑पामा॒र्गो ऽप॑ मार्ष्टु क्षेत्रि॒यं श॒पथ॑श्च॒ यः।
अपाह॑ यातुधा॒नीरप॒ सर्वा॑ अरा॒य्यः॑ ।।७।।
अपामार्गः । अप॑ । मा॒र्ष्टु । क्षे॒त्रि॒यम् । श॒पथ॑ः । च॒ । यः ।
अप॑ । अह॑ । यातु॒ऽधा॒नीः । अप॑ । सर्वा॑ः । अरा॒य्यः ॥ ७ ॥
अपामार्गः अपामार्गाख्या ओषधिः क्षेत्रियम् क्षेत्रं मातापितृशरीरम् तत्सकाशाद् आगतं सांक्रामिकं क्षयकुष्ठापस्मारादिकं रोगम् अप मार्ष्टु अस्मत्तोऽपगमयतु । मृजूष् शुद्धौ । अपमृज्यते रोगादिनिराकरणेन पुरुषः शोध्यते अनेनेति अपामार्गः । करणे घञ् । 'चजोः कु घिण्ण्यतो:' ( पा ७, ३,५२ ) इति कुत्वम् । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' (पा ६,३,१२२ ) इति दीर्घः । अप मार्ष्टु । अदादित्वात् शपो लुक् । ‘मृजेर्वृद्धि:' ( पा ७,२,११४ ) इति वृद्धिः । क्षेत्रियम् इति । 'क्षेत्रियच् परक्षेत्रे चिकित्स्यः' ( पा ५,२,९२ ) इति निपात्यते । यश्च शत्रुकृतः शपथः शापः तमपि अप मार्टुःे । तथा यातुधानीः पिशाचीः अप मार्ष्टु । अह इति विनिग्रहे । तथा अराय्यः अरायीः अलक्ष्मीः सर्वाः अपामार्गः अप मार्ष्टु । अरायीशब्दात् शसि छान्दसः पूर्वसवर्णदीर्घाभावः ।
अ॑प॒मृज्य॑ यातु॒धाना॒नप॒ सर्वा॑ अरा॒य्यः॑।
अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ।।८।।
अ॒प॒ऽमृज्य॑ । या॒तु॒ऽधाना॑न् । अप॑ । सर्वा॑ः । अरा॒य्यः ।
अपा॑मार्ग । त्वया॑ । व॒यम् । सर्व॑म् । तत् । अप॑ । मृ॒ज्म॒हे॒ ॥ ८ ॥
हे अपामार्ग त्वं यातुधानान् यक्षरक्षःप्रभृतीन् अपमृज्य अपमृड्ढि । व्यत्ययेन श्यन् । तथा सर्वा अराय्यः अलक्ष्मीकरीः पापदेवताः अप गमय । यद्वा अपमृज्येति ल्यबन्तः । हे अपामार्ग त्वया प्रथमं यातुधानादीन् अपमृज्य तैः कृतं सर्वं तद् दुःखजातं त्वयैव साधनेन वयम् अप मृज्महे निराकुर्मः ।
इति तृतीयं सूक्तम् ।