अथर्ववेदः/काण्डं ४/सूक्तम् १९

विकिस्रोतः तः
← सूक्तं ४.१८ अथर्ववेदः - काण्डं ४
सूक्तं ४.१९
शुक्रः।
सूक्तं ४.२० →
अपामार्गो वनस्पतिः। अनुष्टुप्, २ पथ्यापङ्क्तिः।

उतो अस्यबन्धुकृदुतो असि नु जामिकृत्।
उतो कृत्याकृतः प्रजां नदमिवा छिन्धि वार्षिकम् ॥१॥
ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन ।
सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोष्योषधे ॥२॥
अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन् ।
उत त्रातासि पाकस्याथो हन्तासि रक्षसः ॥३॥
यददो देवा असुरांस्त्वयाग्रे निरकुर्वत ।
ततस्त्वमध्योषधेऽपामार्गो अजायथाः ॥४॥
विभिन्दती शतशाखा विभिन्दन् नाम ते पिता ।
प्रत्यग्वि भिन्धि त्वं तं यो अस्मामभिदासति ॥५॥
असद्भूम्याः समभवत्तद्यामेति महद्व्यचः ।
तद्वै ततो विधूपायत्प्रत्यक्कर्तारमृच्छतु ॥६॥
प्रत्यङ्हि संबभूविथ प्रतीचीनफलस्त्वम् ।
सर्वान् मच्छपथामधि वरीयो यावया वधम् ॥७॥
शतेन मा परि पाहि सहस्रेणाभि रक्षा मा ।
इन्द्रस्ते वीरुधां पत उग्र ओज्मानमा दधत्॥८॥