पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
उत्तररामचरिते

  सुखे वा दुःखे वा क नु खलु तदैक्यं हृदययो-
  स्तथाप्येष प्राण; स्फुरति न तु पापो विरमति ॥३३॥

भोः, कष्टम् ।

  प्रियागुणसहस्राणां क्रमोन्मीलनतत्परः ।
  य एव दुःसहः कालस्तमेव मारिता वयम् ॥ ३४ ॥

  यदा किंचित्किंचित्कृतपदमहोमिः कतिपयै-
   यदेतद्विस्तारि स्तनमुकुलमासीन्मृगदृशः।
  वयःस्नेहाकूतव्यतिकरघनो यत्र मदनः
   प्रगल्भव्यापारः स्फुरति हृदि मुग्धश्व वपुषि ॥ ३५ ॥

 लव:--अयं तु चित्रकूटवर्मनि मन्दाकिनीविहारे सीतादेवीमुद्दिश्य रघुपतेः श्लोकः।

  त्वदर्थमिव विन्यस्तः शिलापट्टोऽयमायतः।
  यस्यायमभितः पुष्पैः प्रवृष्ट इव केसरः ॥ ३६॥


निरतिशयेनानपकृष्टेन विनम्मेण भोगदशायां खैरस्थित्युपपादकलज्जाविरोधिज्ञानविशेपेण बहुलः स्फारः सः ताबानपरिमेयः आनन्दः । गत इति शेषः । अन्योन्यस्य प्रेम परस्परविषयक परस्पराधिकरणकं च प्रेम प्रणयः क्व । गहनाः अगाधाः कौतुकरसाः भोगाभिलाषाः क । हृदययोः मम तस्याश्च मनसोः सुखे वा दुःखे चा सुखदुःखानुभवकाले तदैक्यमभिन्नत्वं क । तच्छब्देन हृदयैश्यस्य दौर्लभ्यं घोलते। तथापि एतेषु सर्वेषु गतेष्वपि पापः मरणप्रतिवन्धकपापवान् ।पापगुणसारलात्पापलव्यपदेशः । एपः प्राणः आत्मा स्फुरति न बिरमति न नश्यति ॥ ३३ ॥ प्रियेति । प्रियागुणसहस्राणा सौन्दर्यशौजन्यायनन्तगुणानाम् । 'संख्यायां द्विबहुत्वे स्तः' इत्युक्तेः बहुवचनम् । क्रमेण उन्मीलनतत्परः प्रकाशनासक्तः यः काल: दुस-हस्तमेव कालं बय समारितास्तद्विषयकस्मरणवन्तः कृताः ॥ ३४ ॥ यदेति । कृतपदं सूचितरेखाकारसंनिवेश तत् मृगद्दशः सीतायाः स्तनमुकुलं कतिपयैरहोभिर्दिवसैरीषद्विस्तारि यस्मिन् काले अभवत् । यतः स्नेह-' इति पाठे स्नेहाकूतयोः अनुरागाभिलाषयोयतिकरस्य संपर्कस्य पतः नेडुरता यतः । यादृशकालहेतुक इत्यर्थः । 'वयःस्नेहाकूत-' इति पाठे तु-यत्र काले वयसस्तारुण्वस्त्र स्नेहस्यानुरागस्य आकूतस्याभिप्रायस्य च व्यतिकरण घनः सान्द्रः। धर्मपरो थर्मिपरश्चार्य शब्द: मदनविशेषणम् । मदनः मन्मयः कर्ता हदि प्रगल्भन्यापारःसन् मनस्यतिशयितशरपातनादिचेष्टायुकः सन्वपुषि मुग्धश्च सनप्रकटः सन् स्फुरति वर्तते । तमेव कालं स्मारिता वयमिखन्वयः । अनेन श्लोकेन मुग्धालक्षणं स्फोरितम् । पादत्रयेण 'उदयद्यौवना मुग्धा' इति दलमुक्तम् । तुरीयपादेनच 'लज्जाविजितमन्मथा' इति दलमुक्तम् ॥३५॥ त्रकूटवर्मनि चित्रकूटपर्वतमार्गे मन्दाकिनीविहारे गङ्गातीरनीरक्रीडायो सीतामुद्दिश्य सीताबोधेच्छया । त्वदर्थमिति । अयं