घृताक्ततिलान्गायत्र्याऽष्टोत्तरसहस्रमष्टोत्तरशतं वा हुत्वाऽङ्गहोमादि स्विष्टकृदादि वा सर्वं होमशेषं समापयेत् । नात्र त्रिवृदन्नहोमः । कर्मणः संपूर्णतासिद्धये गुरवे गां दत्त्वा ब्राह्मणभोजनं कृत्वा विष्णुं संस्मरेत् । अथवाऽऽपूर्विकतन्त्रेण होमः ।
शाखाविशेषेणोपवीतस्य क्षालनार्थं कण्ठादुत्तारणनिषेधापवादमाह देवलः--
"मन्त्रपूतं स्थितं काये यस्य यज्ञोपवीतकम् । |
आथर्वणानां तूत्तारणंं कृताकृतमर्थात् । संस्क्रियां मन्त्रेणोपवीतान्तरधारणम् ।
अभ्यङ्ग इत्येतद्वाक्यचोदितविषयेष्वेवैषा व्यवस्था ज्ञेया ।
ततो नूतनयज्ञोपवीतधारणं कृत्वा द्विराचम्य संध्योपासनादि नित्यं कर्म कुर्यात् । गृहस्थाश्रमिभिर्वानप्रस्थैश्चेदमेव प्रायश्चित्तं कार्यम् ।
अत्र मूलं स्मृतिरत्नावल्याम्--
"उपवीतविनाशे तु गायत्र्या जुहुयात्तिलान् । |
हारीतस्तु मनोव्रातपतीभिश्चतस्र आज्याहुतीर्हुत्वा पुनः प्रतीयादित्याह । 'ॐ मनोज्योति० या इष्टा उप० घृतेन स्वाहा' इत्यनयैकाऽऽहुतिः । ॐ त्वमग्ने व्रत० यद्वो वयं प्र० व्रतानुबिभ्रद्व्रतपा अदाभ्यः०'इत्येताभिस्तिसृभिर्व्रातपतीभिस्तिस्र आहुतयः । इत्येता आहुतीर्हुत्वा पुनर्नूतनं यज्ञोपवीतं समन्त्रं धारयेदित्यर्थः । एतच्चाशक्तस्य ज्ञेयम् । यज्ञोपवीते वामस्कन्धावरोहिते कूर्परस्थानं गते मणिबन्धस्थानं गते वा तद्यज्ञोपवीतं पूर्वस्थाने निवेश्य यथाक्रमं त्रिवारं षड्वारं द्वादशवारं वा प्राणायामं कुर्यात् । वामहस्तव्यतीते तु तद्यज्ञोपवीतं पूर्ववद्विसृज्यान्यानि पूर्ववद्धारयेत् । ([१]कण्ठे यज्ञोपवीतान्तरसत्त्व एतत्प्रायश्चित्तं नेति
- ↑ धनुश्चिह्नान्तर्गतं क. पुस्तक एव ।