ततोऽपरेणाग्निं प्राङ्मुख उपविश्य 'ॐ क्षुरो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हि सीः' [इति ] क्षुरं संमृशति । तं तूष्णीं वप्त्रे प्रदायाऽऽसादितासु शीतास्वप्स्वासादिता उष्णा अप आनीय 'ॐ शिवा नो भवथ स स्पृशे' इति ता अपोऽभिमृशति । अभिमर्शन एवायं मन्त्रः । न तु मिश्रणे । स स्पृश इति मन्त्रलिङ्गात् । आप उन्दन्त्वित्यस्य सोम आपो द्विपदा गायत्री । दक्षिणगोदानोन्दने विनियोगः । 'ॐ आप उन्दन्तु० वर्चसे' इति दक्षिणं गोदानमुनत्ति । ओषध इत्यस्य सोम ओषधीरेकपदा गायत्री । दक्षिणगोदान ऊर्ध्वाग्रकुशनिधाने विनियोगः । ॐ ओषधे त्रायस्वैनम्' [ इति ] दक्षिणगोदानप्रदेश आसादितं कुशमूर्ध्वाग्रं निदधाति । स्वधित इत्यस्य सोमः स्वधितिरेकपदा गायत्री । क्षुरनिधाने विनियोगः । ॐ स्वधिते मैन हि सीः' [ इति] तदुपर्यासादितं क्षुरं निदधाति । देवश्रूरित्यस्य सोमो देवश्रूरेकपदा गायत्री । सकुशकेशवपने विनियोगः । 'ॐ देवश्रूरेतानि प्रवपे' [ इति ] सकुशान्केशान्वपति । उन्दनादिवपनान्तं कर्म नापितस्य सामर्थ्यात् । यस्य कस्यचिन्मन्त्रविदो ब्राह्मणस्याऽऽचार्यस्य वा तथात्वे । नापितस्य मन्त्रपठनाधिकारस्तु दोग्धुः सांनाय्यदोहनादिष्विव वचनसामर्थ्यात् ।
ततो 'ॐ यत्क्षुरेण मर्चयता सुपेशसा वप्तर्वपसि केशश्मश्रुवर्चया मुखं मा न आयुः प्रमोषीः' इति वप्तारं समीक्षते । ततो वप्ता श्मश्रूपपक्षकेशलोमनखानि क्रमेण शिखां विहाय वपति । वपनकर्ताऽत्र स्नानं कुर्यात् ।
ततः स्नातकस्य मित्रजनः कश्चिदासादितमानडुहं शकृदादाय तत्रोप्तानि श्मश्र्वादीनि निधाय, 'ॐ इदमहममुष्यामुष्यायणस्य पाप्मानमवगूहामि' [ इति ] गोष्ठ उदुम्बरे दर्भस्तम्बे वा गर्तं कृत्वा तत्राऽऽनडुहेन शकृत्पिंडेन सह तानि प्रक्षिप्य मृदा गर्तं प्रपूरयति । अमुष्येत्यस्य स्थाने षष्ठीविभक्त्येकवचनोत्तरशर्मशब्दान्तं व्यावहारिकं नाम ग्राह्यम् । आमुष्यायणस्येत्यस्य स्थाने तु षष्ठ्येकवचनान्तं गोत्रनाम । यथा-- इदमहं देवदत्तशर्मणो वासिष्ठस्य पाप्मानमवगूहामीति ।
अथ स्नातकः करञ्जकल्काद्युद्वर्तनेन शरीरमलं दूरीकृत्य 'ॐ अन्नाद्याय व्यूहध्वं दीर्घायुत्वाय व्यूहध्वं ब्रह्मवर्चसाय व्यूहध्वं दीर्घायुरहमन्नादो ब्रह्मवर्चसी भूयासम्' [ इति ] आसादितेनौदुम्बरेण काष्ठेन दन्ताञ्शोधयेत् । ततो द्वादश गण्डूषांस्तूष्णीं कुर्यात् । तत आचार्योऽन्यो वा, आपो हि ष्ठेति मन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । हिरण्यवर्णा इति मन्त्रचतुष्टयस्याग्निरापस्त्रिष्टुप् । पवमा