र्वाऽऽज्याहुतिभिर्यक्ष्य इत्युक्त्वाऽन्वाधानसमिधोऽभ्याधायाग्निं परिस्तीर्य यावदुपयुक्तानि पात्राण्यासाद्य पवित्रकरणादि पवित्रे अग्नावाधायेत्यन्तं कृत्वाऽदितेऽनुमन्यस्वेत्यादिभिरग्निं परिषिच्य तूष्णीमेकां समिधमभ्याधायान्वाधानोत्कीर्तितसंख्यया गायत्र्याऽऽहुतीर्हुत्वा प्रतिकाण्डव्रतं कृच्छ्रात्मकं प्रायश्चित्तं कृत्वा परिस्तरणानि विसृज्यादितेऽन्वम स्था इत्यादिभिः परिषिच्य ब्राह्मणान्संभोज्य विष्णुं संस्मरेत् ।
ततः शुभे दिने काण्डव्रतोपाकरणं कृत्वा काण्डाध्ययने जाते काण्डव्रतोत्सर्जनं कृत्वा समावर्तनं कुर्यात् ।
इति काण्डव्रतलोपप्रायश्चित्तम् ।
अथ यज्ञोपवीतनाशप्रायश्चित्तम् ।
यज्ञोपवीते त्रुटिते कटेरधस्ताद्गतेऽभ्यङ्गोदधिस्नानपितृमातृक्षयाहान्विना क्षालनार्थमपि कण्ठादुत्तारिते मूत्रपुरीषोत्सर्गकाले कर्णे यज्ञोपवीताधारणे रक्तश्लेष्मसुरामांसविण्मूत्रादिभिरुपहते तस्य त्यागं कृत्वा प्रायश्चित्तहोमं कृत्वा नूतनं यज्ञोपवीतं धारयेत् । स च यथा--प्रायश्चित्तहोमकर्ता त्रिवृत्सूत्रं वासो वा यज्ञोपवीतार्थे धृत्वा स्नात्वाऽहतवस्त्रपरिधानादि कृत्वा प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य यज्ञोपवीतनाशजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रायश्चित्तहोमं करिष्य इति संकल्प्य स्थण्डिलं गोमयेनोपलिप्योल्लेखनादिविधिना संस्कारं विधाय लौकिकमग्निं विण्नामानमग्निं प्रतिष्ठापयामीति प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा यज्ञोपवीतनाशप्रायश्चित्तहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तं प्रसाधनीदेव्यन्तं वोक्त्वा प्रधानहोमे गायत्र्या सवितारमष्टोत्तरसहस्रसंख्याभिरष्टोत्तरशतसंख्याभिर्वा घृताक्ततिलाहुतिभिर्यक्ष्य इत्युक्त्वाऽङ्गहोमे वरुणं द्वाभ्यामित्याद्यग्निं स्विष्टकृतं हुतशेषाहुत्या यक्ष्य इत्यादि वोक्त्वाऽन्वाधानोत्कीर्तनानुसारेण व्याहृतिहोमान्तं प्रसाधनीदेवीहोमान्तं वा कृत्वाऽऽज्यपर्यग्निकरणकाले तिलानामपि पर्यग्निकरणम् ।
ततो गायत्र्याः पूर्ववदृष्यादि स्मृत्वा यज्ञोपवीतनाशप्रायश्चित्ततिलहोमे विनियोग इति विनियोगं च स्मृत्वा विकनिष्ठा तु हंसी स्यादित्येवंरूपया हंसीमुद्रया, ऋज्व्यौ कनिष्ठातर्जन्यावितरे साङ्गुष्ठे मीलिते मृगीतिमृगीमुद्रया वा