काशकृत्स्न-धातुपाठः/स्वादिगणः (४)

विकिस्रोतः तः
← दिवादिगणः(३) काशकृत्स्न----धातुपाठः
स्वादिगणः(४)
[[लेखकः :|]]
तुदादिगणः(५) →

152
अथ स्वादि--गणः
[नु--विकरणः]
१. षुञ् अभिषवे--मथने । स्वादेर्नुविकरणः--षुञ् प्रभृतिभ्यो धातुभ्यः नुविकरणो भवति सार्वधातुके परतः1 । सुनोति सुनुते--मन्थति । सवन्2 सवानः सोता, सुतः, सुतवान् , सवकः--षट् मन्थनकर्तरि । सवनम् , सवनीयम् , सोतव्यम् , सुतिः, सुतम्--पञ्च मन्थने । सौता--तारकाविशेषे ।
२. षिञ् बन्धने--सिनोति सिनुते--बध्नाति । सयन् , सयानः, सितः, सितवान् , सेता, सयकः--षट् बन्धके । सेतुः--पुलिनम् ('बाँध' इति भाषायाम्)। सितम् , सितिः, सयनम् , सयनीयम् , सेतव्यम्--पञ्च सेतौ, बन्धे ('मेंड' भाषायाम् )। सायम्--दिवावसानम् ।
३. धुञ् कम्पने--चलने । धुनोति, धुनुते--कम्पते । धवन् , धवानः, धोता, धुतः, धुतवान् , धवकः--षट् कम्पके । धुतिः, धुतम् , धोतव्यम् , धवनम् , धवनीयम्--पञ्च कम्पने । धवः--आशंका ('खतरा') इति भाषायाम् ।
४. दुञ् परितापे--ज्वलने । दुनोति, दुनुते--ज्वलति । दवन् , दवानः, दोता, दवकः, दुतः, दुतवान्--षट् ज्वलितरि। दवः, दावः,--वनाग्निः । दवनम् दवनीयम् , दोतव्यम् , दुतम् , दुतिः--पञ्च जलने । ।
५. हिञ् गतौ वृद्धौ च--हिनोति हिनुते--गच्छति वर्धते । हेतुः--कारणम् । हयन् , हयानः, हयकः, हितः, हितवान् , हेता--[षट्] गन्तरि । हयः--अश्वः । हायः--तरणिवस्त्रम् ('नौका का पाल' इति भाषायाम् )। हितम् , हितिः, हेतव्यम् , हयनम् , हयनीयम्--पञ्च गमने वृद्धौ च । ।
६. शिञ् निशाने--श्रवणे (?)। शिनोति शिनुते--शृणोति । शयन् , शयानः, शेता, शितिः, शितवान्--पञ्च श्रावके । शयः--हस्तम् । शेतुः--(?) । शितः--कर्पूरम् । शिता--('चीनी' 'खांड' इति प्रसिद्धं द्रव्यम् )। शितिः--कण्ठरेखा।

टिप्पणी


१. कन्नडटीकायामिह 'सार्वधातुके आर्धधातुके च परे' इत्यभिप्रायो व्याख्यातः, स चिन्त्यः। यतो अन् ( शब् ) आदयो विकरणाः सार्वधातुक एव भवन्ति, नार्धधातुके परतः ।
२. दिवादिवदिहापि सर्वत्र शतरि अन्--विकरणो निर्दिश्यते ।

153
७. डुमिञ् प्रक्षेपणे--रक्षणे स्थापने। मिनोति, मिनुते--रक्षति । मितः, मितवान् , मेता, मयन् , मयानः--स्थापकः रक्षकः । मितिः, मितम् , मेतव्यम् , मयनम् , मयनीयम् , मित्--षट माने (?) ।
८. चिञ् चयने--सहभावे1 (?)। चिनोति चिनुते--सह भवति । चेता, चितः, चितवान् , चयन् , चयानः, चयकः--षट् सह भवितरि । चित् , चयनम् , चयनीयम् , चेतव्यम् , चयः--पञ्च सहभावे । च--समुच्चयेऽव्ययः । सञ्चितम्--पूर्वजन्मफलम् । चितिः--चयनम् । चैत्यवृक्षः--वृक्षविशेषः। चैत्यालयः--श्मशानगृहम् ।
९. स्तृञ् आच्छादने--स्तृणोति, स्तृणुते--आच्छादयति । ऋननुबन्धाद्2 ईः (?)--ऋकारनकारानुबन्धात् (?, ऋकारान्तान्नकारान्ताच्च ) ई प्रत्ययो भवति--स्त्री। स्तर्ता, स्तृतः, स्तृतवान् , स्तरन् , स्तराणः--पञ्च आच्छादके । स्तरणम् , स्तरणीयम् , स्तर्तव्यम् , स्तृतिः, स्तृतम्--पञ्च विष्टरे ।
१०. कृञ् हिंसायाम्--घातने । कृणोति, कृणुते--घातयति । कृतः, कृतवान्--द्वौ घातके । कृत् , कृतम् , कृतिः, कृत्यम् , कृतकम्--पञ्च हिंसायाम् ।
११. वृञ् वरणे--आवरणे--वृणोति, वृणुते--आवृतो भवति । वृतः, वृतवान्--द्वौ आच्छाद्यमाने । वृतिः, वृतम् , वर्तिः, वरणम् , वरणीयम् , वरेण्यम् , वर्यम् , वार्यम्--अष्टौ आवरणे । वरणः--दुर्गः । वारणः--हस्ती। वरणा--एतन्नाम्नी नदी । वरुणः--एतन्नामा देवः । वारुणी--जलपाशः, मद्यम् । वारम्--दिवसः ।
१२. पृञ् प्रीती--प्रेमणि । पृणोति, पृणुते--प्रीतिं करोति । परन् , पराणः, पर्ता, परः, पृतः, पृतवान्--षट् प्रीतिकर्तरि । पृतिः, पृतम् , पृत् , परणम् , परणीयम् , पर्यम् , पार्यम् , पर्तव्यम्--अष्टौ प्रीतौ । परम्परा, परम्परिका--क्रमानुसरणम् । परा--परा शक्तिः ।
१३. स्मृञ् पालने च--रक्षणे प्रीतौ च । स्मृणोति, स्मृणुते--पालयति । स्मर्ता, स्मरन् , स्मराणः, स्मृतः, स्मृतवान्--पञ्च रक्षके । स्मृत् , स्मृतिः, स्मृतम् ,

टिप्पणी


१. 'समुच्चय' पदस्यार्थमनुसृत्यार्थोऽयं प्रतिपादितः स्यात् कन्नडवृत्तिकृता।
२. सूत्रपाठे कन्नडभाषान्तरे च पाठाशुद्धिः प्रतीयते। अभिप्रायस्त्वस्य ऋकारान्तान्नकारान्ताच्च प्रातिपदिपदिकात् स्त्रियाम् 'ई' प्रत्ययविधाने वर्तते । यथा स्तृ + ई --स्त्री, कर्तृ + ई -- कर्त्री, दण्डिन् + ई --दण्डिनी । उणादौ तु स्त्रीपदं स्त्यायतेर्ड्रट्--प्रत्ययेन साध्यते । तत्र टित्त्वान्ङीब् भवति ।

154
स्मर्तव्यम् , स्मरणम् , स्मरणीयम् , स्मर्यम् , स्मार्यम्--अष्टौ रक्षणे । स्मरः--प्रेमकर्ता, पालयिता, मन्मथः।
१४. आप्लृञ् व्याप्तौ------आप्नोति, आप्नुते--व्याप्तो भवति । आपन्, आपानः, आपकः, आप्तः, आप्तवान्--आप्तः ( सत्यवाक् ) पुरुषः, हिताकाङक्षी । आपनम् , आपनीयम् , आप्तिः, आप्तव्यम्--हितम् ।
१५. शक्लृञ् शक्तौ----बले। शक्नोति, शक्नुते--बलं दर्शयति । शकन् , शकानः, शक्तः, शक्तवान्-- चत्वारो बलवति । शकनम् , शकनीयम् , शक्तव्यम् , शक्यम. शाक्यम्, शक्तिः--बलम्। शकः--देशः, कालः1 । शाकम्--व्यञ्जनम् ( 'सब्जी' इति भाषायाम् ) । शाकिनी--भूतः (?, राक्षसी)1 ।
१६. राध साध संसिद्धौ--निर्णये। राध्नोति, राध्नुते--निर्णयति । राधन् , राधानः, साधन् , साधानः--चत्वारो निर्णायके ।
१७. तिक, तिग, षिघ, तिक्षु, तीक्षु, चिरि, जिरि, दास, द्रुहि2 जिघांसायाम्--तिक्नोति--मारयति । तिक्तः, तिक्तवान् , तेकन् , तेक्ता, तेककः, तिक--घातकः। तिक्मम्--घर्मः। तेकनम् , तेकनीयम् , तिक्तिः, तेक्यम् , तैक्यम् , तेक्तव्यम्--षट् हिंसने । तेकरम्--दमः। तेकुः--प्राणवायोरूर्ध्वगमनम् । तिक्तम्--कटुरसः, शाकविशेषः । तिक्तातकी--शाकविशेषः। तिग्नोति--स्विद्यति । तिग् , तेगन् , तेगकः, तेगः, तेग्यः--स्वेदवान् । तेगुः--प्राणवायोरूर्ध्वगमनम् , वृक्षविशेषः । सिघ्नोति--छिद्रं करोति3 । सिघ् , सेघन् , सेघः, सेघकः--चत्वारश्छिद्र कर्तरि । सिग्धिः, सिग्धम् , सेग्धव्यम् , सेघ्यम् , सैघ्यम् , सेघनम् , सेघनीयम्--सप्त छिद्रकरणे । तिक्ष्णोति--( दम लेता वा छोड़ता है)4। तिक्, तेक्षः,५ तेक्षन् , तेक्षकः--( दम लगाने वाला)। तिक्ष्णम् , तेक्ष्णम् , तेक्षणीयम् , तेक्ष्यम् , तैक्षम् (?, तैक्ष्यम् )--पञ्च दमे । तीक्ष्णोति--उपविशति । तीक्षन् , तीक्षकः, तीक्ष्णः--उपवेशकः, तीक्ष्णश्च । तीक्ष्णम् , तीक्षणम् , तीक्षणीयम्--त्रय उपवेशने । चिरिणोति--चिन्तयति । चेरन् , चेरकः, चेरः--दुःखी, चिन्तकः ।

टिप्पणी


१. द्र० शक धातौ ( ३।११६ पृष्ठ १५० )।
२. वृत्त्युदाहरणानुसारं 'द्रुह' इत्येव पाठो युक्तः स्यात् । 'द्रुह' इति कातन्त्रस्य एकस्मिन् कोशे, पाठः, अपरस्मिन् 'द्रु' इत्येव । क्षीरस्वाम्यपि तथैव दुर्गपाठं ( कातन्त्रवृत्तिकारपाठं) स्मरति (क्षीर० ५।३३ )। सायणस्तु 'द्रुङ्' पाठं दुर्गमते स्मृत्वा 'दुनुते' इत्युदाजहार ।
३. 'सेंध लगाना' इति भाषायाम् । सेधनं सेधः, तस्यैव 'सेंध' इत्यपभ्रंशः ।
४. सन्दिग्धोऽयमर्थः, एवमुत्तरत्रापि ।
५. तेक्षादिषु अनुपधाया इकारस्य कथं गुण इति न ज्ञायते ।

155
चेरमः--शिवशरणः । चेरुः--धमनम् (फूंकना)। चिरम्--स्थिरम् । चेरणम् , चेरितव्यम्--त्रयः पीडायाम् । चिरिः--कीट: । चिरन्तनम्--पुरातनम् । जिरिणोति--विकर्तयति । जेरन् , जेरकः, जेरः--त्रयो विकर्तके । जिरिः--क्रिमिः । जेरुः--दुर्गस्य रन्ध्रम् , यतः शस्त्रं ( गोला--गोली वा ) प्रक्षिप्यते । जेरणम् , जेरणीयम् , जेर्यम् , जैर्यम् , चत्वारो विकर्त्तने । दास्नोति--कृन्तति । दासः, दासन् , दासकः--त्रयो विकर्तके । दासनम् , दासनीयम्--द्वौ विकर्तने । द्रुह्णोति--ताडयति । द्रोहन् , द्रोहकः, द्रोही--त्रयः ताडयितरि । द्रुहिणः--ब्रह्मा । द्रोहः, द्रोहणम् , द्रोहणीयम् -- त्रयस्ताडने ।
१८. ञिधृषा प्रागल्भ्ये--चातुर्ये । धृष्णोति--चतुरो भवति । धर्षन् , धर्षकः, धृष्टः, धृष्टवान्--चतुरः । धर्षणम् , धर्षणीयम् , धृष्टम् , धृष्टिः--चातुर्येणाकर्षणे (?) ।
१९. दम्भ दम्भने--अहंकारे । दभ्नोति--अहंकारं दर्शयति । दम्भन् , दम्भकः--दम्भकर्ता । दम्भोळिः--गर्जनम् , स्तनयित्नुः । दम्भः, दम्भनम् , दम्भनीयम्--त्रयोऽहंकारे।
२०. रुध वृद्धौ--रुध्नोति--वर्धते । रुद्धः, रुद्धवान् , रोधन् , रोधकः, रोद्धा--पञ्च वर्धके । रोधनम् , रोधनीयम् , रुद्धिः, रुद्धम् , पञ्च गर्वे । रोधस्--अवरोधः ।
२१. धिवि तृप् प्रीणने--प्रेमणि । धिन्नोति1 --प्रीतिं करोति । धेवः, धेवन् , धेवकः--त्रयः प्रेमिणि । धेवनम् , धेवनीयम् , घेव्यम् , धैव्यम्--चत्वारः प्रीतिकर्मणि । तृप्नोति--शान्तो भवति । तर्पन् , तर्पकः, तृप्तः, तृप्तवान्--शमी । तर्पणम् , तर्पणीयम् , तृप्तिः, तृप्तम् , तर्प्तव्यम्--शीतीभावे ।
२२. अशूङ् व्याप्तौ--अश्नुते--व्याप्नोति आवृणोति । अशानः अश्या, अष्टः, अष्टवान् , अशकः--व्यापकः, आवरकः। अष्टन्--संख्याविशेषः । अशनिः--मेघगर्जनम् (विद्यत् )। अशुः--प्राणः । आशुः--व्यापकः। अशनम् , अशनीयम , अष्टिः, अष्टम्--व्याप्तिः।
२३. षिघ आस्कन्दने--शनैर्गमने, अल्पशोषणे । सिघ्नुते--चलति, शुष्यति । सिघ्रुः--वृक्षविशेषः । सेघानः, सिग्धः, सिग्धवान् , सेघक:--चत्वारः -- शुष्कभावुके । सिग्धिः, सिग्धम् , सेग्धव्यम् , सेघनम् , सेघनीयम्--चत्वारः शुष्कीभावे।
[इति नु--विकरणः स्वादिगणः समाप्तः]

टिप्पणी


१. इदित्त्वात् सन्दिग्धमिद रूपम् । एवमुत्तरत्रापि कृदन्तेषु। पाणिनीयास्तु 'धिनोति' इत्याहुः, एवम् धेन्वः धेन्वन् इत्यादयोऽपि द्रष्टव्याः ।