काशकृत्स्न-धातुपाठः/तुदादिगणः (५)

विकिस्रोतः तः
Jump to navigation Jump to search
← स्वादिगणः(४) काशकृत्स्न----धातुपाठः
तुदादिगणः(५)
[[लेखकः :|]]
रुधादिगणः (६) →

156
अथ तुदादि--गणः
[अग्--विकरणः]
१. तुद व्यथने--दुःखे । तुदादेरग्विकरणः--तुद--प्रभृतिभ्यो धातुभ्योऽग् विकरणो भवति (ककारो गुणनिषेधार्थः1)। तुदति2--दुःखितो भवति । सकृद् बाधितो विधिर्बाधित एव--एक वारं बाधितो निषिद्धो विधिर्बाधित एव तिष्ठति [न पुनः प्रवर्तत इत्यर्थः । तेन कित्त्वेन गुणे बाधिते न स पुनः प्रवर्तते । तुदन् , तुत्तः, तत्तवान्--त्रयो दुःखिनि । तुत्तम् (?, तुत्थम् )--पाषाणभेदः ( 'नीला थोथा' इति भाषायाम् ) । तोदनम् , तोदनीयम् , तोत्तव्यम् , तोदः, तोद्यम्--पञ्च दुःखे ।
२. नुद प्रेरणे--कथने । नुदति--कथयति । नुदन् , नुत्तः, नुत्तवान् , नोदकः--चत्वारः कथयितरि । नुत्तिः, नुत्तम् , नोदः, नोदनम् , नोदनीयम्--पञ्च कथने ।
३. दिश अतिसर्जने--निरूपणे । दिशति--निरूपयति । देशिकः, देष्टा, दिशन् , दिष्टः, दिष्टवान्–पञ्च निरूपके । दिक् , दिशा3--द्वौ दिशायाम् । दिश्यम्--दिशि भवं वस्तु । देशः--नगरम् , राज्यम् । देशनम् , देशनीयम् , देश्यम्--त्रयो निरूपणे।
४. भ्रस्जो पाके--पचनकर्मणि । अनुषङ्गस्य लोपः4--अनुषङ्गस्य लोपो भवति । भ्रजति--पाकं करोति । भ्रजन् , भ्रष्टः, भ्रष्टवान्--त्रयः पक्तरि । भ्रष्टिः, भ्रष्टम् , भ्रजनम् , भ्रजनीयम्--चत्वारः पाके ।

टिप्पणी


१. कन्नडटीकायाम् ‘ककारं वृद्धिनिषेधार्थम्' इति पठ्यते सोऽपपाठः, वृद्धेरप्रसङ्गात् ।
२ इह कातन्त्रा अन्ये च वैयाकरणाः तुदप्रभृतीन् उभयतोभाषानाहुः । कन्नडटीकायां तु 'तुद णुद दिश भ्रस्जः क्षिप लिख' इति षण्णां परस्मैपदरूपाण्यैव निर्दिश्यन्ते, तत्कारणं चित्यम् ।
३. भागुरिरपि हलन्तेभ्यः स्त्रियामाप् आह------'आपं चैव हलान्तानां यथा वाचा निशा दिशा' इति । द्रष्टव्यम्--पृष्ठ० १२३ टि० ५ ।
४. पूर्वनिर्दिष्टेन ( पृष्ठ ५) 'अनुनासिकोऽनुषङ्गः' इत्यनेन सूत्रेण अनुनासिकानां पञ्चमवर्णानाम् अनुषङ्गसंज्ञा कियते । भ्रस्ज--धातौ च न तादृशः कश्चित् पञ्चमो वर्णः । इह तु वृत्तिकारः सकारस्य लोपमिच्छतीति प्रतीयते, तथा रूपोदाहरणात् । अन्ये धातुवृत्तिकाराः संप्रसारणं विधाय 'भृज्जति भृज्जन्' इत्यादीनि रूपाणि प्रदर्शयन्ति । तस्माद् इहस्था वृत्तिश्चिन्त्या प्रतीयते।

157
५. क्षिप प्रेरणे--नियमे । क्षिपति--नियमयति । क्षिप्रम्--शीघ्रम् । क्षिप्तः, क्षिप्तवान् , क्षेपकः, क्षिपन्--चत्वारो नियन्तरि । क्षेपणम् , क्षेपणीयम् , क्षिप्तम् , क्षिप्तिः--चत्वारो नियमने ।
६. कृष विलेखने--हलेन रेखाकरणे (खेत जोतने में)। कृषति--विलिखति , कृषन् , कष्टः, कृष्टवान् , कृषिकः, कृषीवलः--पञ्च कर्षके । कृषिः, कृष्टम् , कृष्टिः--त्रयो विलेखने।
७. मुच्लृ मोक्षणे--त्यागे । मुञ्चते, मुञ्चति--त्यजति । लृदनुबन्धान्नुः1--लृदनुबन्धानां धातूना 'नु: 2 आगमो भवति । मुञ्चन् , मुक्तः, मुक्तवान्--त्रयः त्यक्तरि । मोचकः--वृक्षविशेषः, त्यागी । मुक्तम् , मुक्तिः, मोचनम् , मोचनीयम्--चत्वारस्त्यागे।
८. लुप्लृ छेदने--छिद्रकरणे । लुम्पति, लुम्पते--छिद्रयति । लुम्पन् , लुप्तः, लुप्तवान् , लोपकः--चत्वारश्छेदकर्तरि । लुप् लोपः, लोपनम् , लोपनीयम् , लोप्तव्यम् , लुप्तम् , लुप्तिः, लोप्यम्--अष्टौ छिद्रकरणे ।
९. विद्लृ लाभे--विन्दति, विन्दते--प्राप्नोति । विन्दन् , वित्तः, वित्तवान् --त्रयः प्रापके । वित्तम्--धनम् । वित्तिः, वेदनम् , वेदनीयम् , वेद्यम्--चत्वारः प्रापणे।
१०. लिप उपदेहे--लेपने । लिम्पति, लिम्पते--लेपयति । लिप्तः, लिप्तवान् लेपकः--त्रय लेपके । लेपनम् , लेपनीयम् , लेप्तव्यम् , लिप्तम् , लिप्तिः--पञ्च लेपने।
११. षिचिर् क्षरणे--सिञ्चने (छिड़कने में )। इरनुबन्धान्नुः3--इर्--अनुबन्धानां धातूनां 'नु'4 आगमो भवति । सिञ्चति, सिञ्चते--क्षरति ( छिड़कता

टिप्पणी


१. कन्नडटीकायाम् 'लृदनुबन्धा नुः' इत्यपपाठः ( एवमुत्तरत्रापि द्रष्टव्यः)। पूर्वत्र (पृष्ठे ५) 'इदनुबन्धान्नुः' इत्येव पठ्यते । तदनुसारमिहापि पञ्चम्यन्तः पाठोऽस्माभिः स्वीकृतः ।
२. नुम्' इति कन्नडटीकायां पाठः (उत्तरत्र 'इरनुबन्धान्नुः' इत्यादिसूत्रवृत्तावपि 'नुम्' इत्येव निर्दिश्यते )। पूर्वत्र ( पृष्ठ ५) इदनुबन्धान्नुः सूत्रव्याख्याने 'नु' इत्येव निर्दिश्यते। पाणिनीयास्तु 'शे मुचादीनाम्' (अष्टा० ७।१।५९) इत्यनेन नुमागमं शासति ।
३. द्रष्टव्या एतत्पृष्ठस्था टि० १।
४. द्रष्टव्या एतत्पृष्ठस्था टि० २।।

158
है)। सिक्तः, सिक्तवान् , सेचकः--त्रयः सेचनकर्तरि । सिक्तम् , सिक्तिः, सेचनम्, सेचनीयम्--सेचनकर्मणि ।
१२. कृती छेदने--विकर्तने। ईदनुबन्धान्नुः1--ईकारानुबधानां धातूनां 'नु'2 आगमो भवति । कृन्तति, कृन्तते--छेदयति । कृन्तन् , कृत्तः, कृत्तवान् , कृतिकः (?, कृतकः )--चत्वारो विकर्तरि । कृन्तनम् (?), कृन्तनीयम् (?), कृत्तम् , कृत्तिः--चत्वारो विकर्तने ।
१३. खिद परिघाते--दुःखे । स्वरितानुबन्धान्नानुः --स्वरितानुबन्धानां 'नु.2 आगमो भवति । खिन्दति, खिन्दते--दुःखितो भवति । खिन्दन् , खिन्दानः, खेदकः, खेता, खित्तः, खित्तवान्--षट् दुःखिनि । खित्तः, खित्तम् , खेदनम् , खेदनीयम् , खेद्यम्--पञ्च दुःखे ।
१४. पिश अवयवे--अङ्गे (?)। पिंशति, पिंशते--अङ्गं निर्माति (?, चूर्णयति)। पिंशन्, पिंशानः, पिष्टः, पिष्टवान् , पेशकः--त्रयोऽङ्गनिर्मातरि (?, पञ्च चूर्णकर्तरि)। पिशितम्--म्लानम् (?, मांसम् )। पेशी--मांसम् । पिशाचः--राक्षसः । पिशाची, पिशाचिका--राक्षसी । पिशुनः--अपकारप्रयुक्तः सूचनकर्ता (चुगली खानेवाला)। पैशुन्यम्--अपकारप्रयुक्तं सूचनम् । पिष्टिः, पिष्टम्--यवादिचूर्णम् ('आटा' इति भाषायाम् )। पेशलम्--शोभनम् ।
१५. रिपि (?, रिपी) ऋजी गतौ--रिपति--गच्छति । रिप्तिः । (?, रिप्तः) रिप्तवान् , रेप्ता, रेपकः--गन्ता। रेप्तव्यम् , रेप्यम् , रिप्तम् रिप्तिः, रेपणम् , रेपणीयम्--षट् गमने। ऋषति--गच्छति ऋषिः--ऋषिः (मन्त्रद्रष्टा)। ऋष्टः, ऋष्टवान्--गमकः । अर्षणम्, अर्षणीयम्--ज्ञानम् । आर्षम् , आर्षेयम् , ऋषित्वम्--त्रयस्तपस्यायाम् ।
१६.धि धारणे----धियन् , धीयितः3, धीयितवान् , धेयिता, धियः, धियकः--[षट् ] सोढरि । धीयितिः, धीयितम् , धेयितव्यम् , धीयनम् , धीयनीयम्--पञ्च सहने ।
१७. क्षि निवासगत्योः--वासे गमने च । क्षियति--निवसति । क्षितिः--भूमिः । क्षयः--गृहम्4 , नाशः । क्षितः, क्षितवान् , क्षेता, क्षयकः--चत्वारो निवसितरि । क्षयणम् , क्षयणीयम् , क्षेतव्यम् , क्षेयम् , क्षय्यम्--पञ्च निवासे ।

टिप्पणी


१. द्रष्टव्या पूर्वपृष्ठस्था टि०१। ।
२. द्रष्टव्या पूर्व पृष्ठस्था टि० २ ।
३. 'धीयितः' इत्यादिरूपाणि चिन्त्यानि ।
४. गृहार्थकः क्षयशब्द आद्युदात्तः। तदुक्तम् 'क्षयो निवासे' ( अष्टा० ६।१।२०१)। अन्तोदात्तस्तु नाशार्थकः । गृहवाची प्रायेण वेद एव प्रयुज्यते।

159
१८. षू प्रेरणे--नियमने । सूवति1 --नियमयति । सूत:--रुद्रवीर्यः, मत्स्यहा, ऋषिः। सूवन्2 सूतवान् सूवकः2--त्रयः प्रेरके। सूवनम्3, सूवनीयम्3 , सूतव्यम् , सूतिः--चत्वारः प्रेरणायाम् ।
१९. व्रश्चू छेदने--कर्त्तने । यजां यवराणां य्वृतः सम्प्रसारणं कानुबन्धे च--यजादीनां धातूनां यवराणाम् [ यथासंख्यम् ] इ उ ऋ सम्प्रसारणं भवति कानुबन्धे प्रत्यये परतः4 । वृश्चति--कृन्तति । वृश्चिकः--कीटः ('बिच्छुः' इति भाषायाम् ), राशिविशेषः, दुष्टः पुरुषः । ऊदनुबन्धाद् इड् वा--ऊकारानुबन्धानां धातूनाम् इड् आगमो [वा भवति5 । वृश्चितः, वृश्चितवान्6 --द्वौ दुष्टे। व्रश्चनम् , व्रश्चनीयम्, व्रश्चितव्यम्--त्रयो दुष्टतायाम् ।
२०. ऋछ गतीन्द्रियप्रलयमूर्तिभावेषु----गत्याम् , इन्द्रिये, प्रलये, मूर्तौ, भावे च । ऋच्छति--याति । ऋच्छन् , ऋच्छितः, ऋच्छितवान्--त्रयो गन्तरि । ऋच्छनम् , ऋच्छनीयम् , ऋच्छितव्यम्--त्रयो गत्याम् ।
२१ कॄ7 विक्षेपे----स्थापने (?)। ऋ इर--धातूनाम् ऋकारस्य इर् भवति । किरति--स्थापयति ( ? ) । किरः--स्थापकः । किरः--वराहः । किरणम्--रश्मिः । इरुरोरीरूरौ--इर् उर् इत्येतयोर् ईर् ऊर् इत्येतौ भवतः। कीर्तः, कीर्तवान्--वर्णयिता । कीर्तिः, कीर्तनम्--वर्णनम् ।
२२. गॄ8निगरणे--बहिर्गमने ( ? )। गिरति--गच्छति (?) निगिलति । गिरिः--पर्वतः । गर्तम्--गुहा । उद्गारः, उद्गरणम् , उद्गिरणम् , उद्गीर्णम्--बहिरागमने ( 'डकार' तथा वमन में)।
२३. उछी विपाशे9--त्यागे। उच्छति--परित्यजति । उच्छन् , उच्छितः,

टिप्पणी


१. पाणिनीयास्तु उवङादेशं कृत्वा 'सुवति' रूपमाहुः ।
२. अत्रापि वकारागमः कथमिति न ज्ञायते । पूर्वाचार्याणां यण--व्यवधानसन्धिना कथंचित् संभवति । एतत्सन्धिविषयेऽस्मदीये 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नि ग्रन्थे ( भाग १, पृष्ठ २६--३० द्वि० सं० ) विस्तेरण द्रष्टव्यम् ।
३. गुणाभाव इह कथमिति नोक्तम् ।
४. कन्नडवृत्तौ सूत्रव्याख्याऽस्पष्टा वर्तते ।।
५. अनेन क्व विभाषा इड् विधीयत इति न ज्ञायते, तादृशोदाहरणानामभावात् ।
६. पाणिनीयास्तु निष्ठायां 'यस्य विभाषा' (७।२।१५) इति नियमेन नित्यमिडभावमिच्छन्ति, तथा सति 'वृक्णः वृक्णवान्' इत्येव भवति ।
७. कन्नडवृत्तौ 'कृ' इत्यपपाठः ।
८. कन्नडवृत्तौ 'गृ' इत्यपपाठः ।
९. विवासे इति कातन्त्रा अन्ये च।

160
उच्छितवान्--त्यागी। उच्छनम् , उच्छनीयम् , उच्छितव्यम् , उच्छितिः, उच्छितम्--त्यजनन् ।
२४. जर्ज्ज चर्च्च झर्झ, छर्छ परिभाषणतर्जनयोः--अतिवदने झंकारशब्दे (?) च । जर्जति--अतिवदति । जर्जः, जर्जम् , जर्जकः--त्रयोऽतिभाषिणि । जर्जरः, जर्जरी--द्वौ वाद्यभेदे । जर्ज्जनम् , जर्ज्जनीयम्--अतिभाषणे । चर्च्चति--शङ्कते । चर्च्चन् , चर्च्चकः, चर्च्चितः, चर्च्चितवान्--चत्वारः शङ्कितरि । चर्च्चा--गौरी, शङ्का । चर्च्चनम् , चर्च्चनीयम् , चर्च्चितव्यम् , चर्च्चितम्--रवणम् (चिल्लाना)। झर्झ्चरति--भयं दर्शयति । झर्झन् , झर्झकः--भयदर्शकः । झर्झनम् , झर्झनीयम्--भयम् । झर्झरः, झर्झरी--द्वौ ( गड़बड़ी इति भाषायाम् । छर्छति--झङ्कारं करोति । छर्च्छुः, छर्च्छकः, छर्च्छन् , छर्च्छितः, छर्च्छितवान्--पञ्च झंकारकर्तरि । छर्च्छनम् , छर्च्छनीयम् , छर्च्छितव्यम्--त्रयो झंकारे ।
२५. त्वच संवरणे--त्वचनकर्मणि (आच्छादने )। त्वचति--चर्म भवति ( संवृणोति )। त्वक्--चर्म । त्वच्--उपर्यवयवः ('छिलका' इति भाषायाम् ) त्वक्तिः, त्वक्तम् , त्वचनम् , त्वचनीयम् , त्वक्तव्यम्--पञ्च त्वचनकर्मणि । त्वचन् , त्वचकः, त्वक्तः, त्वक्तवान्--चत्वारस्त्वचयितरि ।
२६. ऋच स्तुतौ--ऋचति--स्तौति । ऋक्--वेदः । अर्चन् , अर्चकः, ऋक्तः, ऋक्तवान्--चत्वारः स्तोतरि । अर्चनम् , अर्चनीयम्--द्वौ स्तुतौ ।
२७. उब्ज आर्जवे--उब्जति--ऋजु भवति । उब्जः--ऋजुः । उब्जम् , उब्जनीयम्--आर्जवे।
२८. उज्झ उत्सर्गे--सामान्ये (? परित्यागे ) उज्झति--सामान्यं भवति (?, परित्यजति) । उज्झकः--सामान्यपुरुषः (?, त्याजकः) । उज्झनम् , उज्झनीयम्--द्वौ सामान्ये (?, परित्यागे ) । उज्झनी, उज्झैनी--द्वौ भोजराण्णगरे ।
२९. लुभ विमोहने------दीनतायाम् । लुभति--दीनो भवति । लोभन् , लोभकः, लुब्धः, लुब्धवान्--चत्वारो दीने (लोभयुक्ते) । लुब्धिः, लुब्धम् , लोभनम् , लोभनीयम्--चत्वारो दीनतायाम् (विमोहने)।
३०. रिफ कत्थनयुद्धनिन्दाहिंसादानेषु--कथने, युद्धे, निन्दायां, हिंसायां, ग्रहणे च । रिफति--कथयति । रेफन् , रेफकः द्वौ कथके । द्विरेफः--भ्रमरः ।
३१. तृप तृम्प तृप्तौ--शीतीभावे । तृपति--तृप्तो भवति । तृपन् , तृप्तवान् ,

<poem>161
तृप्तः, तृपकः--चत्वारस्तृप्ते । तृम्पति--शान्तो भवति । तृम्पन् , तृम्पकः--शान्तः । तृम्पणम् , तृम्पणीयम्--शान्तभावे ।
३२. तुप तुम्प तुफ तुम्फ ऋफ ऋम्फ हिंसायाम्--मारणे । तुपति--हिनस्ति । तोपन् , तोपकः, तुप्तः, तुप्तवान्--चत्वारो घातके । तोपुः--वनम् , रक्तवस्त्रम् । तोपनम् , तोपनीयम् , तुप्तिः, तुप्तम्--चत्वारो हनने । तुम्पति--ताडयति । तुम्पन् , तुम्पकः--कशा। तुम्पनम् , तुम्पनीयम्--ताडनम् । तुफति--विकृन्तति । तोफन् , तोफकः--कर्तकः। तोफनम् , तोफनीयम्--द्वौ कर्तने । तुम्फति--भषति । तुम्फन् , तुम्फकः द्वौ भषके । तुम्फनम् , तुम्फनीयम्--द्वौ भषणे । ऋफति--प्रवेशति1 । अर्फन् , अर्फकः--द्वौ प्रवेशके । अर्फणम् , अर्फणीयम्--द्वौ प्रवेशने । ऋम्फति--खटखटा करोति । ऋम्फन् , ऋम्फकः--द्वौ खटखटाकारके । ऋम्फा--पङ्कः ( 'दलदल' इति भाषायाम् ) । ऋम्फणम् , ऋम्फणीयम्--द्वौ खटखटाकरणे।
३३. दृफ दृम्फ मिछ उत्क्लेशे--कष्टे, श्रमे। दृफति--कष्टायते । दृफन् , दृफकः द्वौ कष्टभोक्तरि । दृफणम् , दृफणीयम्--द्वौ कष्टे । दृम्फति--कष्टं भुङ्क्ते । इम्फन् , दृम्फकः द्वौ कष्टभोक्तरि । दृम्फणम् , दृम्फणीयम्--कष्टे । मिच्छति-- । मिच्छन् , मिच्छकः-- । मिच्छनम् , मिच्छनीयम् ।
३४. गुफ गुम्फ दृभी ग्रन्थे--सन्दर्भे । गुफति--ग्रथ्नाति । गोफन् , गोफकः द्वौ ग्रन्थके । गोफनम् , गोफनीयम्--द्वौ ग्रन्थने.। गुम्फति--संयोजयति ('गूंथता है' भाषायाम् )। गुम्फः, गुम्फन् , गुम्फकः--संयोजकः । गुम्फनम् , गुम्फनीयम्--द्वौ संमिश्रणे, संयोजने । दृभति--अतिशयेन हसति । दर्भः--कुशः । दर्भलः--तृणविशेषः। दर्भा--वस्तु विशेषः। दर्भन् , दर्भकः द्वौ हस्रे। दर्भणम् , दर्भणीयम्--द्वौ अतिहसने। ३५. वृती2 हिंसायां च--हिंसने ग्रन्थने च । वृतति--हिनस्ति । वृत्रः--एतन्नामाऽसुरः, विरोधी । वार्ताकः--शाकविशेषः ('बैंगन--भण्टा' इत्येवं प्रसिद्धः)। वृत्रः--प्राणिविशेषः ( 'गिलहरी' इति प्रसिद्धः)।
३६. उभ उम्भ पूरणे--भरणे । उभति--पूरयति । उभौ--द्वौ । उभे--द्वे । उभयम्--द्वयम् । उम्भति--पूरयति भरति । उम्भन् , उम्भः, उम्भकः--त्रयः पूरके । उम्भनम् , उम्भनीयम्--द्वौ भरणे ।

टिप्पणी


१. काये छुरिकादिप्रवेशनमिह ज्ञेयम् ।
२. 'चृती' इति कातन्त्रा अन्ये च वैयाकरणाः। कन्नडवृत्तिकारस्तु वृती पाठमेव स्वीकृत्य व्याचख्यौ इति 'वार्ताकः वृत्रः' इत्याद्युदाहरणनिर्देशात् स्पष्टमवगम्यते ।

162
३७. शुभ शुम्भ शोभार्थॆ--शुभति--शोभते । शुभन् , शुभकः द्वौ शोभके । शुभम् , शोभनम् , शोभनीयम्--त्रयः शोभायाम् । शुम्भति--दीप्यते । शुम्भकः -- द्वौ द्योतके । शुम्भः--एतन्नामाऽसुरः । निशुम्भः--एतन्नामाऽसुरः । शुम्भनम् , शुम्भनीयम्--द्वौ द्योतने ।
३८. विध विधाने----विधति--विदधाति । विधन्, विधः, विधकः--त्रयो विधायके । विधिः, विधनम् , विधनीयम्, विधानम्--चत्वारो विधाने ।
३९. जुड शुन गतौ--जुडति--गच्छति । जोडः, जोडा--(युग्मः--'जोड़ा' इति भाषायां प्रसिद्धः) । जोडुः द्वौ । जोडनम्--संयोजनम् ( जोड़ना), प्रबन्धः । शुनति--कृन्तति । शुनः, शुनकः1--द्वौ कुक्कुरे । शुनी--कुक्कुरी ।
४०. पृड मृड सुखने--सुखे । पृडति--सुखयति । पृडः--सुखी । पृडनम्--सुखम् । मृडति--सुखयति । मृडः--सुखी । मृडनम्--सुखम् ।
४१. तृण प्रीणने--चरणे ( भक्षणे ) । तृणति--चरति । तृणम्--घासः ।
४२. मृण हिंसायाम् ----मृणति--छिद्रयति । मृणालम्--कमलमूलम् , बिसम् ।
४३. द्रुण गतौ--द्रुणति--गच्छति । द्रोणः--मुनिः, पञ्चकोलगः (?), भ्रमरः । द्रोणी--नौः। ४४. तुण गतौ2 ------तुणति--अङ्कुरितो भवति (उगता है)। तुण्णा--अङ्कुरितभवनम् ( उगना )। तुणम्--घासः।
४५. तूण3 पूरणे कौटिल्ये च--भरणे कुटिलत्वे च । तूणति--पूरयति । तूणम् , तूणीरम्--इषुधिः।
४६. पुण शोभे--शोभायमाने । पुणति--शोभते । पुणः--शोभितात्मा । पुण्यम्--सुकृतम् ।
४७. मुण प्रतिज्ञाने--प्रतिज्ञायाम् । मुणति--प्रतिजानाति । मोणन् , (?, मुणन् ), मोणः, मोणकः--प्रतिज्ञाता । मुणिः, मोणनम् , मोणनीयम्--प्रतिज्ञा ।
८. घुण घूर्ण भ्रमणे--------घुणति--भ्राम्यति । घोणन् (?, घुणन् ), घोणकः--

टिप्पणी


१. 'शुनकम्' इति कन्नडटीकापाठश्चिन्त्यः ।
२. अत्र पाठभ्रंशः। गतिसामान्येऽर्थे सति पूर्वधातुसूत्र एव पठ्येत । कातन्त्रास्तु 'कौटिल्यै' इति पठन्ति । तथैवान्ये वैयाकरणा अपि ।
३. धातुरयं कातन्त्रेऽन्यत्र च न पठ्यते।

163
भ्रमणकर्ता । घुणः--जलोपरि भ्रमणशीलः क्रिमिः1 । घुणिः, घोणनम् , घोणनीयम्--भ्रमणकर्तृ वस्तु । घूर्णति--भ्रमति । घूर्णन् , घूर्णः, घूर्णितः, घूर्णितवान्--चत्वारः चक्रवद् भ्रमके । घूर्णनम् , घूर्णनीयम्--चक्रवद् भ्रमणम् ।
४९. कुण शब्दोपकरणयोः--शब्दे स्पर्शे च । कुणति--शब्दं करोति । कोणः--महिषः, बाधकसाधनम् ।
५० प्रछ ईप्सायाम्2 ----कथने (?, प्रश्ने )। पृच्छति--प्रश्नं करोति, कथयति । पृच्छन् , पृच्छकः, पृष्टः, पृष्टवान्--चत्वारः प्रश्नकर्तरि, कथयितरि । पृच्छम् , पृष्टम् , पृष्टिः--त्रयः कथने ।
५१. सृज विसर्गे--उत्पादने । सृजति--उत्पादयति । य्वृणां यवरास्तृचि--इ उ ऋ इत्येतेषां यथासंख्यं, य--व--रा भवन्ति तृचि परतः । स्रष्टा--ब्रह्म । सर्जनम् , सृष्टिः, सर्जनीयम्--सृष्टिनिर्माणम् ।
५२. टुमस्जो शुद्धौ--निर्मलीकरणे । मजजति--निर्मलो भवति । मज्जः, मज्जकः द्वौ निर्मलभवितरि । मज्जनम् , मज्जनीयम्--द्वौ शुद्धौ । मज्जा--एतन्नामा शारीरो धातुः।
५३. रुजो भङ्गे--कष्टे । रुजति--कष्टं भुङ्क्ते । रोजन् , रोजकः, रुष्टः, रुष्टवान् , रोगी--पञ्च कष्टभोक्तरि । रुक् , रोगः, रुजा, रुष्टम् , रुष्टिः, रोजनम् रोजनीयम्--सप्त कष्टेऽर्थे ।
५४. भुजो कौटिल्ये--वक्रतायाम् । भुजति--वक्रो भवति । भुक् , भुष्टः, भुष्टवान् , भोक्ता--चत्वारो वक्रे । भुजम्--स्कन्धः (?)। भुजः, काम्भोजः--द्वौ एतन्नामानौ देशविशेषौ ।
५५. छुप स्पृश संस्पर्शे--छुपति--स्पृशति । छोपन् , छोपकः, छुप्तः, छुप्तवान्-- चत्वारः ] स्पर्शके । छोपनम् , छोपनीयम् , छुप्तम् , छुप्तिः--चत्वारः स्पर्शे । स्पृशति--कम्पते3 । स्पृक् , स्पर्शकः, स्पृष्टः, स्पृष्टवान्--चत्वारो कम्पके । स्पर्शनः--वायुः । स्पृष्टम् , स्पृष्टिः, स्पर्शनीयम्--त्रयः कम्पने ।
५६. रुश रिश हिंसायाम्--रुशति--हिंसयति । रोशन् , रोशकः, रोशी,

टिप्पणी


१. घुणः--चणकादिषु उत्पद्यमानः क्रिमिविशेषः। भाषायामपि 'घुन' इत्येवोच्यते । 'चने के साथ घुन भी पिस गया' इत्यपि लौकिका भाषन्ते । घुणाक्षरन्यायेऽप्ययमेव क्रिमिरिष्टः।
२. 'ज्ञीप्सायाम्' इति कातन्त्रा अन्ये च वैयाकरणाः ।
३. स्पर्शने वायौ गतिं कम्पनमुपलभ्येहायमर्थो निर्दिष्टः स्याद् वृत्तिकारेण ।

164
रोष्टा, रुष्टः, रुष्टवान्--षट् घातके । रुट् , रोशः, रोशनम् , रोशनीयम् , रुष्टम् , रुष्टिः, रोष्टव्यम्--सप्त हिंसायाम् । रिशति--ताडयति । रेष्टा, रेशन् , रेशकः, रिष्टः, रिष्टवान्-- पञ्च ताडयितरि । रिट् , रेशः, रेशनम् , रेशनीयम् , रेष्टव्यम्--[पञ्च ] ताडनकर्मणि ।
५७.लिश विछ गतौ--[लिशति--गच्छति । ] लिशः--गन्ता। लेशन् , लेशी, लेष्टा, लिष्टः, लिष्टवान्--पञ्च शनैर्गन्तरि । लिट् , लेशः, लेशनम् , लेशनीयम् , लिष्टम् , लिष्टः1, लेष्टव्यम्--सप्त शनैर्गमने । विच्छति--रुन्धन् गच्छति ( रुकता हुआ चलता है)। वेच्छन् , वेच्छकः, विष्टः, विष्टवान्--चत्वारो [ रुन्धन् ] गन्तरि । वेच्छनम् , वेच्छनीयम् , विट् , विष्टम् , विष्टः2, वेष्टव्यम् -- चत्वारो सावरोधगमने।
५८. विश प्रवेशने--अन्तर्गमने । विशति--प्रविशति । विट् , वैश्यः--द्वौ धनिनि । वेश्या, वेशी--पण्यस्त्री ( = वेश्या)। वेश्मन् , निवेशनम्--द्वौ गृहे । विष्टिः3, विष्टवान्--द्वौ गन्तरि । विष्टम् , विष्टिः, वेशनम् , वेशनीयम्--चत्वारः प्रवेशने । विष्टपम्--लोकः। त्रिविष्टपम्--स्वर्गः ।
५९. मृश आमर्शने--विमर्शे विचारे । मृशति--विचारयति । म्रष्टा, मर्षकः, मृष्टः, मृष्टवान् --चत्वारो विचारके । मृट् , मर्शः, मर्शनम् , मर्शनीयम् , मृष्टम् , मृष्टिः, म्रष्टव्यम्--सप्त विचारकर्मणि ।
६०. शद्लृ शातने--उपवेशने । शीयति, शीयते4 --उपविशति ।
६१. षद्लृ विशरणे--विकर्तने । सीदति--कृन्तति ।
६२. षुर ऐश्वर्यदीप्त्योः --ऐश्वर्ये प्रकाशे च । सुरति--धनिको भवति, प्रकाशते । सुरः--धनवान् , प्रकाशकः । सोरणम्--ऐश्वर्यम् , प्रकाशः, स्फोटकात् विकृतस्य रुधिरस्य प्रस्रवणम् । सुरा--मद्यम् ।
६३. कुर शब्दे--ध्वनौ । कुरति--शब्दं करोति । कुरिः--अजा । कुरुः--पर्वतः, देशः, राजा । कौरव्यः, कोरवम् , कौरवी, कोरवी, कोरकम्--चत्वारः

टिप्पणी

{{{1}}}

165
कलिकायां ( कली में ) अङ्कुरे च । कुरटम्--बीजम् । कोरः--पुत्रः । कोरी--पुत्री, कम्बलावयवः ।
६४. खुर छेदने--खुरति--छिनत्ति । खुरः--1 (?)। खुराशी--यवनः ।
६५. मुर संवरणे--आवेष्टने । मुरति--आवेष्टयति ( लपेटता है )। मुरः--एतन्नामा असुरः । मुरशः--कर्षकः। मोरः2--मयूरः। मोरा--सुखम् । मुरजा--वाद्यविशेषः (ढोल इत्येवं प्रसिद्धः?)। मुध्रिः (?)--अवयवः, हस्ताभरणम् ('चूड़ी' इति प्रसिद्धम् )।
६६. क्षुर विलेखने--क्षौरकर्मणि । क्षुरति--बालान् कृन्तति । क्षुरकः, क्षौरकः, क्षौरी--क्षौरकर्ता नापितः। क्षुरणम्, क्षुरणीयम् , क्षौरम्--त्रयः क्षौरकर्मणि । क्षुरम् , क्षुरिका--त्रयः (?, द्वौ ) बालकर्तनसाधने ।
६७. घुर भीमार्थशब्दयोः--भये शब्दे च । घुरति--बिभेति, शब्दयति । घोरी, घोरकः, घोरन्--त्रयो भयप्रदे । घोरम् , घोरणम् , घोरणीयम्--त्रयो भये ।
६८. पुर अग्रगमने----पुरति--अग्रे गच्छति । पुरन्तः--अग्रगामी । पोरः--पुत्रः। पोरी--पुत्री। पुरम् , पुरी--नगरम् । पुरा--पूर्वम् । पुरस्--अग्रतः । पुराणम्--पुरातनम् । पुरातनः--प्राचीनः।
६९. बृह उद्यमे--उद्योगे । बृहति--उद्योगं करोति । बृहन् , बर्हकः, बृहः--त्रय उद्योगिनि । बृहती--छन्दोविशेषः, महती। बृहतां पतिः बृहस्पतिः--सुरगुरुः । ब्रह्मन्--ब्रह्म।
७०. तृहु तृंहू स्तुहू हिंसायाम् ----तृहति--हिनस्ति । तृट् , तृहः, तृहन्--त्रयो मारके । तर्हि--एवं भवतु । तृहती--मारयित्री । तृंहति--मारयति । तृंहन् , तृंहकः, तृंहः--त्रयो हिंसके । तृंहणम् , तृंहणीयम्--मारणम् । स्तृहति--ताडयति । स्तृहन् , स्तृहकः, स्तृहः, स्तृट्--चत्वारस्ताडके । स्तृहणम् , स्तृहणीयम्--द्वौ ताडने।
७१. इषु इच्छायाम्--गमादेश्छः--गम--प्रभृतीनामन्त्यस्य मकारस्य छकारादेशो भवति । इच्छति--अभिलषति । इच्छन् , इच्छकः, इट् , एषः--चत्वारोऽभिलाषुके । एष्टव्यम्--अभिलषितव्यम् । इच्छा, एषणम् , एषणीयम् , इष्टम् , इष्टिः--पञ्चाभिलाषायाम् ।

टिप्पणी


१. हिन्दी भाषायां प्रयुज्यमानः शफार्थकः 'खुर' शब्द एतद्धातुनिष्पन्नः साधुशब्दः।
२. मयूरार्थको लोके प्रसिद्धः 'मोर' शब्दोऽपि साधुशब्दः, न मयूरस्यापभ्रंशरूपः।

166
७२. मिष स्पर्धायां वाचि1--विवादे । मिषति--विवदते । मेषः--अविः । निमिषन् , निमेषकः--चक्षुर्निमीलकः । उन्मिषन् , उन्मेषकः--चक्षुरुद्घाटकः । अनिमिषाः--देवाः ( सततं जागरूकाः)।
७३. क्लिल2 शैत्यक्रीडनयोः3--शीतीभावे, क्रीडने च । क्लिलति--क्रीडति, शीतीकरोति । क्लिलन् , क्लिलकः--शीतीकारकः । क्लिलम् , क्लेलम् , क्लेलनम् , क्लेलनीयम्--शीतीकरणे।
७४. इल गतौ धारणे च--गत्यां सहने च । इलति सहते। इला--भूमिः। इलन्--गन्ता । एलाकः--एला ('इलायची' इति प्रसिद्धा)। एला--(इलायची)। एलापत्रः--सर्पः। इलिः--काष्ठनिर्मितम् आवरणम् (मेढ़ इति भाषायाम् )। इलिः--मूलकः । इलविला--सूर्यवंश्या राजमहिषी। एलेयः4--मंगलग्रहः।
७५. हिल हावकरणे--विषयासक्तौ । हिलति--शृङ्गारं करोति । हेलन् , हेलाकः, हेलिः--रत्यर्थं शृङ्गारकर्ता। हेलनम् , हेलनीयम् , हेला--त्रयः शृङ्गारकरणे । प्रहेला, प्रहेलिका--द्वे 'पहेली' इति भाषायां प्रसिद्धे ।
७६. शिल, षिल उछि उच्छे--चालने (?)। शिलति--कम्पयति । शिला--पाषाणः । शैलः--पर्वतः । शैलेयम्--पर्वतमलम् । सिलति--चर्बति । सेलन् , सेलकः --चर्बकः । सेलुः--चर्बिका । सेला--चर्बिका । सिली--मण्डूकी। उञ्छति--कम्पयति । उञ्छन् , उञ्छकः -- द्वौ कम्पयितरि । उञ्छनम् , उञ्छनीयम्--द्वौ कम्पने । उञ्छः--आरण्यो धान्यविशेषः।
७७. तिल स्नेहने--स्निग्धीकरणे । तिलति--स्निह्यति । तिलः--स्नेहनद्रव्यविशेषः। तैलम्--तिलविकारः, स्नेहद्रव्यम् । तैलिकः--तिलपीडनयन्त्रम् ('घानी' 'कोल्हू' इति भाषायाम् प्रसिद्धम् )। तिलकः--वृक्षविशेषः, तिलकम् । तेलः वृश्चिकः । तेली, तैली--स्नेहविक्रयी।
७८. चिल वेष्टने--आच्छादने । चिलति--आच्छादयति । चेलम्--आच्छादनीयं वस्त्रम् । चेलुः--वृश्चिकः।
७८. चल विलसने--चलति--विलसति । चलन् , चलकः द्वौ क्रीडितरि । अचला--भूमिः । अचलः--पर्वतः।

टिप्पणी

{{{1}}}

167
८०. बल1 भेदने--बलति--भिनत्ति । बलः--बलरामः । बलाहकः2--मेघः । बलूलः--शक्तिमान् । बलिः--नैवेद्यम् , देवद्रव्यम् , एतन्नामा चक्रवर्ती ।
८१. णिल गहने--अरण्ये3 । निलति--निर्जनीभवति । निलम्--वनम् । अनिलः--वायुः।
८२. मिल श्लेषणे--सहने (?) । मिलति--धीरो भवति ( धैर्यं दधाति )। मिलन् , मिलितः--त्रयो धीरे। मेलनम् , मेलनीयम् , मेलम् , सम्मेळम्--चत्वारः सहने।
८३. खल4 विलेखने--छेदने । खलति--छिद्रयति । खलः--मूर्खः । खलपूः--मूर्खयिता5 (?)।
८४. कुट कौटिल्ये--वक्रतायाम् । कुटति--वक्रो भवति । कुटन् , कुटकः--द्वौ वक्रे । कोटा--(?) कोटरम्--पक्षिनीडम् । कोटिः--शतलक्षमिता संख्या । कुटारः--बृहत्सन्निवेशः ( 'डेरा' इति भाषायाम् )। कुटी = कुटीरम् , ( 'कुटिया' इति भाषायां प्रसिद्धम् )। कुटिलम्--वक्रम् । कुटिला--गङ्गा।
८५. पुट लुठ संश्लेषणे--आलिङ्गने । पुटति--आलिङ्गति । पुटभेदनम्--नगरम् । पुटम्--प्रकाशः । पुटाणम्--भ्रष्टं चणकम् । पोटः--चापल्यम् । पोटा--युवती, वृक्षरन्ध्रन् । लुठति--लोटते । लुठन् , लुठः, लुठकः--त्रयो लोटितरि । लोठु--लोटनम् ।
८६. कुच संकोचने--समाप्तौ (?)। कुचति--संकुचितो भवति । कुचः--स्तनम् । कोचा--भीरुः।
८७. व्यच व्याजीकरणे------निमित्ते । व्यचति--निमित्तं भवति । (व्याजं करोति ) । व्यचः, व्यचन् , व्यचकः--त्रयो निमित्तवति । व्यचनम् , व्यचनीयम्--निमित्तम् ।
८८. गुज शब्दे --ध्वनौ । गुजति--शब्दं करोति ('गूंजता है। इति भाषायाम् )। गुजन् , गोजकः द्वौ शब्दकर्तरि । गोजा--सरस्वती (? ) ।

टिप्पणी


१. 'बिल भेदने' इति पाणिनीयाः । 'विल भेदने' इति कातन्त्राः। अत्र दन्त्योष्ठ्यनिर्देशश्चिन्त्यः ।
२. वारिवाहको वलाहकः । दन्त्योष्ठयादिः ।
३. अरण्यक्रियायामर्थान्निर्जनी भावे ।
४. 'लिख लेखने' इति कातन्त्राः । 'लिख अक्षरविन्यासे' इति पाणिनीयाः।
५. खलपूरित्यस्य खलं पुनाति (खलिहान को साफ करता है) इति विग्रहः। तथा सति चिन्त्योऽयमर्थनिर्देशः।

168
८९. गुड रक्षायाम्--गुडति रक्षति । गुडम्--एतन्नामकं द्रव्यम् । गोडः, गोडकः द्वौ रक्षके । गोडा--रक्षिका।
९०. डिप पेक्षे--वाक्ये1 कथने । डिपति--कथयति । डेपः, डेपकः-- द्वौ कम्पयितरि । डेपनम् , डेपनीयम्--द्वौ कथने ।
९१. चुण चुट छुर छुट त्रुट छेदने----विकर्तने । चुणति--कृन्तति । चुणन् , चोणः, चोणकः--त्रयो विकर्तरि । चोणनम् , चोणनीयम्--द्वौ विकर्तने । चुटति--भ्रमति । चुटः, चोटकः द्वौ भ्रमके । चोटः--निवासस्थानम् , आघातः । छुरति--कृन्तति । छुरिका2--'चाकू' इति प्रसिद्धम् । छुरः2, छुरकः द्वौ विकर्तरि । छोरणम् , छोरणीयम्--द्वौ विकर्तने । छुटति--निपातयति ( उड़ेलता है)। छुटः, छोटकः द्वौ निपातयितरि। छोटनम् , छोटनीयम्--द्वौ निपातने । त्रुटति--छिनत्ति ( तोड़ता है)। त्रोटकः, त्रुटः--द्वौ छेत्तरि । त्रुटिः, त्रोटनम् , त्रोटनीयम्--त्रयश्छेदने ।
९२. स्फुट विकसने--स्फुटति--विकसितो भवति । स्फुटन् स्फुटितः, स्फुटितवान्--त्रयो विकसितरि । स्फुटम् , स्फुटितम् , स्फोटनम् , स्फोटनीयम् चत्वारो विकसने । स्फोटकम्--भक्ष्यविशेषः ।
९३. मुटु आक्षेपप्रमर्दनयोः--कथने मर्दने च । मुटति--कथयति, मर्दयति । मुट् , मोटः, मोटकः--त्रयः कथके, मर्दके। मोटनम् , मोटनीयम्--द्वौ कथने, मर्दने । मोटः--पङ्गुः । मोटी--पङ्गूः । मोटुः--पङ्गुत्वम् ।
९४. तुट कलहकर्मणि--तुटति--कलहं करोति । तुट् , तोटः, तोटकः--त्रयः कलहशीले । तोटम्--वनम् । तोटनम् , तोटनीयम् , तुटितम्--त्रयः कलहे ।
९५. जुड बन्धने--जुडति--बध्नाति ( कसकर बांधता है ) । जोडः--बन्धकः। जोडा--बन्धिका । जोडुः--सहभावे । जोडिः--(?)। जोडनम् , जोडनीयम्--बन्धनम् ।
९६. कड मदे--अहंकारे । कडति--मदयुक्तो भवति । कडकः--अहंकारी । कडारः--कपिलवर्णः। कडिः--खण्डः । कडः--उदारः । कडा--अग्रम् (?)। काडुः--वनम् । काडः--यानादि ।

टिप्पणी


१. सम्भवतो निन्दिते वाक्ये ।
२. हिन्दीभाषायां प्रयुक्तः 'छुरी' शब्दः छुरा इत्यस्य ह्रस्वार्थकस्यापभ्रंशः, एवं 'छुरा' इति छुरस्य । न तु क्षुरा क्षुरम् इत्यनयोः ।

169
९७. क्रुड1 घसने--खादने । क्रुडति--भक्षयति । क्रोडः--प्राणिविशेषः । क्रोडनम् , क्रोडनीयम्--भक्ष्यम् ।
९८. कुड बाल्ये--बालभावे । कुडति--क्रीडति । कुडः, कोडः, कोडकः--त्रयः क्रीडके । कुडवम्--प्रघणः ('बरामदा' इति भाषायाम् ) । कुडम्--वर्तिका ('बत्ती' इति भाषायाम् )। कुडिः--लताया अन्त्यो भागः। कुड्यम्--भित्तिः ।
९९. तुड तोडने--खनने2 । तुडति--खनति । तुडा (?, तुडः ), तोडः, तोडकः--त्रयः खनके । तोडुः--प्रस्रवणम् , निस्सरणम् ।
१००. घुट प्रतीघाते3------घुटति--प्रतिघातयति (बदले में मारता है)। घुटः, घोटः, घोटकः--त्रयः प्रतिघातके, अश्वे । घुटिका--औषधगुटिका । घोटा घोटिका--द्वौ ( ? ) ( ओषधिविशेषे )।
१०१. स्थुड थुड बुड बूड4 संवरणे--वेष्टने । स्थुडति--वेष्टयति । स्थुडः--वेष्टकः । स्थुडनम् , स्थुडनीयम्--वेष्टनम् । थुडति--उपागच्छति, उपयुङ्क्ते । थुडः, थोडकः, थोडः--त्रयः समीपं गन्तरि । थोडनम् , थोडनीयम्--समीपगमनम् । बुडति--प्रथमो भवति । बुडः--प्रथमः, आधारः । बोडः--बुद्धिहीनः । बोडी--बुद्धिरहिता । बुडम्--आरम्भः । बूडति--भ्रमति । बूडः--भ्रमकः । बूडनम् , बूडनीयम्--भ्रमणम् ।
१०२. हुड संघाते--हुडति--ताडयति । हुडः, होडः, होडकः--त्रयस्ताडके (संघर्षके)। हुडिः--धूलिकणः । होडनम् , होडनीयम्--द्वौ ताडने।
१०३. स्फुर स्फुरणे--दर्शने, प्रकटीकरणे । स्फुरति--दर्शयति । स्फुरन् , स्फुरः, स्फुरकः--त्रयो दर्शके । स्फुरणम् , स्फुरणीयम्--द्वौ दर्शने ।
१०४. स्फुल संचये च--एकत्रकरणे दर्शने च । स्फुलति--संचिनोति । स्फुलन् , स्फुलः, स्फुलकः--त्रयः संचयकर्तरि । स्फुलनम् , स्फुलितम्--द्वौ संचयकरणे।
१०५. णू5 स्तवने------स्तुतौ। य्वोर्धातोरियुवौ स्वरे--धातोरिकारोकरयोः इय् उव् इत्येतौ भवतः स्वरे परतः । नुवति--स्तौति । नूतः, नूतवान्--द्वौ स्तोतरि । नूः, नूतिः--द्वौ स्तवने । नूतिः--रुग्णः ।

टिप्पणी


१. 'क्रूड' इति कातन्त्राः ।
२. 'विभजने' इत्यर्थो युक्तः स्यात् । तत्रैव 'तोड़ना' इति हिन्दीभाषायां प्रयुज्यते । ३. 'परिवर्तने' इति कातन्त्राः ।
४. 'ब्रुड' इति कातन्त्रा अन्यै च वैयाकरणाः ।
५. 'नु' इति कातन्त्राः ।

170
१०६. धू विधूनने त्वचने (नोचने में )। धुवति--त्वचयति । धूतः, धूतवान्--द्वौ त्वचके । धूतम् धूतिः, धूननम्--त्रयस्त्वचने ।
१०७. गू पुरीषोत्सर्गे--मलविसर्जने । गुवति--हदति, मलं विसर्जति । गूथम्1--मलम् ।
१०८. ध्रु गतिस्थैर्ययोः--गत्यां स्थिरतायां च । ध्रुवति--स्थिरो भवति । ध्रुवः--एतन्नामा राजा । ध्रुवम्--निश्चयः ।
१०९. गुरी उद्यमे--उद्योगे । गुरते--उद्योगं करोति । गुरुः--आचार्यः, बृहस्पतिः।
११०. कुङ् शब्दे--कुवते--शब्दं करोति । कुः--भूमिः । कवानः, कवः, कावः--त्रयः शब्दयितरि । कविः, काव्यः द्वौ शुक्राचार्ये ।
१११, प्रीङ2 व्यायामे--प्रीतौ3 । प्रियते--प्रीतिं करोति । प्रियः--प्रीतयिता । प्रिया--प्रीतयित्री। प्रियम्--प्रीतिः।
११२. म्रीङ् प्राणत्यागे--मरणे । म्रियते--मरति4 । म्रियः, म्रियमाणः--मर्ता ।
११३. द्रीङ् आदरणे--आदरे । द्रियते--आदरं करोति । द्रियः, द्रियमाणः--आदरकर्ता।
११४. ध्रीङ् अवस्थाने--ध्रियते--स्थिरो भवति । ध्रियः, ध्रियमाणः--स्थिरः । ध्रीः, ध्रयणम् , ध्रयणीयम्--त्रयः स्थैर्यभावे ।
११५. जुषी प्रीतिसेवनयोः--प्रेम्णि, सेवायां च । जुषते प्रीतिं करोति । जुष्टः, जुष्टवान्--प्रेमी । जुष्टम् , जुष्टिः, जुट् , जोषम् , जोषणीयम् , जोष्यम्--सप्त प्रीतौ।
११६. ओविजी भयचलनयोः--भय कम्पने च । विजयति5, विजयते--बिभेति, कम्पते । विजयः-- ( एतन्नामकः) संवत्सरः, भक्तः। विजया--भङ्गः ।

टिप्पणी


१. हिन्दीभाषायां प्रयुज्यमानः पुरीषार्थकः 'गू' शब्द एतद्धातुनिष्पन्न एव ।
२. इत आरभ्य चत्वारो धातवः कातन्त्रे पृङ् मृङ् दृङ् धृङ् इत्येवमृकारवन्तः पठ्यन्ते, तथैव चान्यत्रापि । इह तु 'री'वन्तः पठ्यन्ते । ध्रीङ् धातोश्च 'ध्रीः, ध्रयणम् , ध्रयणीयम्' इति कृदन्तरूपाण्यप्युदाह्रियन्ते । तेन धातुस्वरूपे तदीयरूपेषु चेह महान् व्यामोह उत्पद्यते।
३. 'व्यायामे' इत्यस्य कथमयमर्थो निर्दिष्टः कन्नडवृत्तिकृतेति न ज्ञायते । कदाचित् 'प्रीङ्' इत्यस्य 'प्रियः, प्रिया, प्रियम्' रूपाण्युदाहरन् व्यामुग्धः स्यात् ।
४. काशकृत्स्नः 'मृ' धातुं भ्वादौ पठति ( १।२२४, पृष्ठ ३० ) तस्यैतद् रूपम् ।
५. अन्ये तु ईकारमनुबन्धं मन्यन्ते, अनुदात्तेत्त्वं च स्मरन्ति । अतस्तेषां मते 'उद्विजते' इति रूपं भवति । कातन्त्रे धातुपाठेऽप्ययमात्मनेभाषः पठ्यते । इह अनिदित्त्वेऽपि अग्विकरणत्वाद् गुणाभावे 'विजियति विजियते' इत्येवं भाव्यम् । तस्माच्चिन्त्यं चन्नवीरव्याख्यानम् । एवमोलजी धातावपि द्रष्टव्यम् ।

171
११७. ओलजी, ओलस्जी ब्रीडायाम्--लजयति1, लजयते--सेवते । लजानः, लजः--द्वौ सेवके । लाजः--भृष्टं धान्यम् । लजति2 लज्जते--व्रीडयति । लज्जन् , लज्जानः, लज्जितः, लज्जितवान्--चत्वारो व्रीडायुक्ते । लज्जा--व्रीडा ।
[इति अग्--विकरणस्तुदादिगणः समाप्तः ]

टिप्पणी


१. इहाप्यन्ये इकारमनुदात्तमितं च स्मरन्ति । पूर्वपृष्ठस्थाऽन्त्या टिप्पण्यत्राप्यनुसन्धेया।
२. इह ईकारस्याननुबन्धत्वे किं कारणम् ? अन्यत्र चेदित्त्वाभावे, इति न ज्ञायते ।