"ॐ सदसस्पति० सिष स्वाहा । सदसस्पतय इदं० । ॐ प्रजापतये काण्डर्षये स्वाहा । प्रजापतये काण्डर्षय इदं० । ॐ सोमाय काण्डर्षये स्वाहा । सोमाय काण्डर्षय इदं० । ॐ अग्नये काण्डर्षये स्वाहा । अग्नये काण्डर्षय इदं० । ॐ विश्वेभ्यो देवेभ्यः काण्डर्पिभ्यः स्वाहा । विश्वेभ्यो देवेभ्यः काण्डर्षिभ्य इदं०"।
स्वायंभुवकाण्डस्यानन्तर्भावपक्षे स्वयंभुवे काण्डर्षये स्वाहेति षष्ठ्याहुतिः ।
स्वयंभुवे काण्डर्षय इदं न ममेति त्यागः ।
काण्डर्षिहोमानन्तरं वा सदसस्पतिहोमः । इति प्रधानहोमं कृत्वा, इमं मे वरुणेत्यादि सर्वं होमशेषं समापयेत् ।
उपाकरणे यदि जयादिहोमाः कृता भवेयुस्तदाऽत्रापि कार्याः । नात्र त्रिवृदन्नहोमः ।
ततो ब्रह्मचारी, अग्ने व्रतपते व्रतमचारिषमित्यादिभिर्देवतोपस्थानं कृत्वा व्रतं विसृज्य गुरवे वरं दद्यात् ।
तत आचार्यो ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।
अथाऽऽरुणकाण्डस्यानन्तर्भावपक्षे प्रयोगः[१] ।
आरुणकाण्डमध्येष्यमाणस्त्रिकालस्नायी भवेत् । एकस्मिन्नह्नि दिवोपोष्य द्वितीयेऽह्नि नक्तं भुञ्जीत । तृतीयेऽहोरात्रमुपोष्य चतुर्थेऽह्नि दिवा भुक्त्वा पञ्चमेऽह्नि नक्तं भुञ्जीत । इत्येवं चतुर्थकालपानभक्तो भवेत् । पानं क्षीरादिविषयम् । भक्तोऽन्नम् । अशक्तावहरहर्वा भैक्षमश्नीयादिति । एतदुभयमपि प्रतिदिनं कालद्वये स्वी क्रियते ।
"तस्माद्द्विरह्नो मनुष्येभ्य उपह्रियते प्रातश्च सायं च" इत्याम्नातत्वात् । एतत्कर्तुमशक्तौ प्रतिदिनं भिक्षित्वा तदन्नं भुञ्जीत । नद्यादिभ्यः पात्रेणाप उद्धृत्य वस्त्रेण शोधयित्वा ताभिः सर्वमुदककार्यं कुर्वीत न तु नद्यादौ । न चापां संग्रही भवेत् । भिक्षापात्रादन्यत्र [यो] भक्ष्यादिवस्तुसंग्रहस्तद्युक्तो न भवेदिति भाष्यकाराः । संग्रहः संचयः । औदुम्बरीभिः समिद्भिरग्निपरिचर्यां कुर्यात् । अग्न्यादिभ्योऽरुणान्तेभ्यो होमं कुर्यात्[२] । प्रवर्ग्यकाण्डोक्तान्धर्मानप्यनुतिष्ठेत् । एतादृशं व्रतं भद्रप्रपाठकाध्ययनदिनमारभ्य संवत्सरपर्यन्तं मास