पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४६
[काण्डानामुत्सर्जनम्]
भट्टगोपीनाथदीक्षितविरचिता--

अथोत्सर्जनम् ।

 आचार्यो नद्यादौ प्रशस्तदेशे ब्रह्मचारिसहितः कृतनित्यक्रियः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यामुकशर्मणा ब्रह्मचारिणा वेदाध्ययनार्थं स्वीकृतस्य प्राजापत्यसौम्याग्नेयवैश्वदेवाख्यकाण्डचतुष्टयव्रतस्योत्सर्जनं तन्त्रेण करिष्य इति संकल्प्य गणेशपूजनादि नान्दीश्राद्धान्तं कुर्यात् । स्वायंभुवकाण्डस्यानन्तर्भावपक्षे स्वीकृतस्य प्राजापत्यसौम्याग्नेयवैश्वदेवस्वायंभुवाख्यकाण्डपञ्चकव्रतस्योत्सर्जनं तन्त्रेण करिष्य इति संकल्पवाक्य ऊहः । नात्र वपनादि ।

 तत उल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय समुद्भवनामानं श्रोत्रियागारादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा प्राजापत्यसौम्याग्नेयवैश्वदेवाख्यकाण्डचतुष्टयव्रतोत्सर्जनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तं प्रसाधनीदेव्यन्तं वोक्त्वा प्रधानहोमे सदसस्पतिं प्रजापतिं काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षींश्चैकैकयाऽऽज्याहुत्या यक्ष्य इति । प्रजापतिं काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीन्सदसस्पतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इति विपरीतं वा । अङ्गहोमे वरु[१]णं द्वाभ्यामित्यादि ।

 स्वायंभुवकाण्डस्यानन्तर्भावपक्षे प्राजापत्यसौम्याग्नेयवैश्वदेवस्वायंभुवाख्यकाण्डपञ्चकव्रतोत्सर्जनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तं प्रसाधनीदे[२]व्यन्तं वोक्त्वा प्रधानहोमे सदसस्पतिं प्रजापतिं काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीन्स्वायंभुवं काण्डर्षिं चैकैकयाऽऽज्याहुत्या यक्ष्य इति । प्रजापतिं काण्डर्षिं सोमं काण्डर्षिमाग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीन्स्वयंभुवं काण्डर्षिं सदसस्पतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इति विपरीतं वा ।

 अङ्गहोमे वरु[३]णं द्वाभ्यामित्यादि । व्याहृतिहोमान्ते प्रसाधनीदेवीहोमान्ते वा प्रधान होमः ।

 स यथा--सदसस्पतिमित्यस्य याज्ञिक्यो देवता उपनिषदः सदसस्पतिर्गायत्री । काण्डचतुष्टयव्रतोत्सर्जनप्रधानाज्यहोमे विनियोगः ।

 स्वायंभुवकाण्डस्यानन्तर्भावपक्षे काण्डपञ्चकव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये विशेषः ।


  1. घ. ङ. रुणमि ।
  2. क. देवीत्यन्तं ।
  3. घ. ङ. रुणमि ।