इदमन्यगोत्रविषयम् ।
"आहिताग्निः(ग्नेः) प्रमादाद्वा प्रेतानुगमनं यदि । |
इति प्रायश्चित्तकेशवीकारोक्तेः ।
"आहिताग्नेः प्रमादाच्चेच्छवानुगमनं तदा । |
इति प्रयोगदर्पणे स्मृतिवचनाच्च ।
वाहिनीपतावपि--"असपिण्डशवानुगमने शवस्पर्शे च पुनराधानम्" इति ।
आहिताग्निग्रहणं साग्निकोपलक्षणमिति केचित् । एवमन्यान्यपि निमित्तानि तत्रैव द्रष्टव्यानि ।
नदी[१]शब्दप्रवृत्तिनिमित्तमपि तत्रैवोक्तम्--
"कूलद्वयान्तरालं तु नदीशब्देन[२] नोच्यते । |
इति संक्षेपेण पुनराधाननिमित्तानि ।
अथाग्नित्यागप्रायश्चित्तानि ।
तत्र स्मृतिः--
"नास्तिक्याद्वा प्रमादाद्वा आलस्याद्वा कथंचन । |
मनुः--
" अग्निहोत्र्यपविध्याग्निं ब्राह्मणः कामकारतः । |
अपविध्य त्यक्त्वा । मासमपविध्येत्यन्वयः ।
यत्तु हारीतः--
"संवत्सरोत्सन्नेऽग्निहोत्रे चान्द्रायणं कृत्वा पुनरादध्याद्द्वि- |
शङ्खस्तु--" अग्न्युत्सादी संवत्सरं प्राजापत्यं चरेद्गां च दद्यात् "।