इति त्रिवर्षोत्सादे गोदानमप्यधिकमाह । विष्णुरपि--
"वेदाग्न्युत्सादी त्रिषवणस्नाय्यधःशायी संवत्सरं भैक्षेण वर्तयेत्" इति । |
व्याघ्रः--
"मासद्वयं तयोर्वह्निं त्यजेदेवं समाचरेत् । |
तयोः प्रमादालस्ययोः । होमद्रव्यं यावत्कालं होमो न कृतस्तावद्धोमपर्याप्तम् । तथा च भरद्वाजगृह्ये--
"यावत्कालमहोमी स्यात्तावद्द्रव्यमशेषतः । |
जातूकर्ण्योऽपि--
"अतीतकालं जुहुयादग्नौ विप्राय वा स्वयम् । |
अत्र होम इति स्थालीपाकोपलक्षणम् । यद्यप्यग्निविच्छेदे सति होमादावधिकाराभावेन दोषाभावाद्धोमलोपप्रायश्चित्तार्थस्य[१] होमद्रव्यदानस्याप्राप्तिस्तथाऽपि व्याघ्रवचने नास्तिक्यादितिश्रवणान्नास्तिक्यतोऽग्निविच्छेद एव होमलोपप्रायश्चित्तार्थ[२]होमद्रव्यदानं कार्यं नेतरयोरिति ज्ञेयम् । एतच्च[३] होमद्रव्यदानं श्रौताग्नित्यागे न भवतीति माधवः । उभयत्यागेऽपि युक्तमिति नवीनाः ।
मासचतुष्टयत्यागे तु व्याघ्र एवाऽऽह--
"चतुष्टये तु संपूर्णे मासानां तु हुताशनम् । |
स्मृत्यन्तरेऽपि--
"योऽग्निं त्यजति नास्तिक्यात्प्राजापत्यं चरेद्द्विजः । |
मासचतुष्टयेऽतिकृच्छ्रमित्यर्थः । षण्मासत्यागे पराकः । अत ऊर्ध्वमब्दपर्यन्तं पयोव्रतम् ।
तथाऽऽहोशना--
"षण्मासांस्त्यजते यो वै पराकं तु समाचरेत् । |
मासषट्कादूर्ध्वं यावत्संवत्सरं याज्ञवल्क्योक्तान्युपपातकसामान्यप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योजनीयानि ।