समस्य जुहुयात्पश्चादिष्टिस्तन्तुमती भवेत् । |
प्रायश्चित्तकुतूहले--
"खरोष्ट्रवृषभं नारी समारुह्याथवा पुमान् । |
यज्ञपार्श्वे--
"गजोष्ट्रवृषभं नारी समारुह्याथवा पुमान् । |
अयं च गजारोहणनिषेधो राजव्यतिरिक्तपरः । राज्ञो गजारोहणस्य बहुषु पुराणेषु दर्शनात् ।
"यस्यच्छत्रं हयश्चैव कुञ्जरारोहमृद्धिमत् । |
इति मार्कण्डेयपुराणाच्च । चकारात्तप्तकृच्छ्रपुनःसंस्कारादिकस्य समुच्चयः ।
खरोष्ट्रवृषभारोहणनिषेधो निरग्नेरपि ।
"यदि चेद्वै द्विजो गच्छेदारुह्योष्ट्रं खरं वृषम् । |
इति स्वतन्त्रनिषेधस्य सत्त्वात् । गजारोहणनिषेधस्तु तथानिषेधाभावात्तस्य न भवति । एवं च समावर्तनोत्तरमौपासनाग्न्युत्पत्तेः प्राग्गजारोहणे विप्रस्यापि निषेधो नास्तीति सिद्धं भवति । गजारोहणे तप्तकृच्छ्रपुनःसंस्कारादिकस्य समुच्चयो न भवति । यदि चेद्वै द्विजो गच्छेदित्यनन्तरोदाहृतवचने खरोष्ट्रवृषभारोहण एव तप्तकृच्छ्रपुनःसंस्कारादिकस्य विहितत्वात् ।
यज्ञपार्श्वे--
"नाग्निकार्यस्य वेलायां प्रवसेन्न च पर्वणि । |
त[१]था--
"आहिताग्निस्तु यो मोहादनुगच्छेच्छवं यदि । |
- ↑ क. प्रायश्चित्तदीपि(धि)तौ ।