दानध्यापयामास । ततस्तान्वेदांस्तच्छाखिनः साकल्येनाधीतवन्तः । तैत्तिरीयशाखिनस्तु साकल्येनाध्ययनं कृत्वा सर्ववेदविलक्षणां तैत्तिरीयशाखां दृष्ट्वाऽन्योन्यमूचुः । अहो, अतीव विस्मयोऽस्माकं सर्वविलक्षणां शाखामध्यापयति स्मास्मान्मूढान्कृत्वा निर्मिताम् । ततः सर्वे तैत्तिरीयशाखिनः संभूय सारस्वतमूचुः-- नायं वेदस्त्वयाऽध्यापितः सर्ववेदविलक्षणत्वादिति ।
ततः सारस्वतः सर्वाञ्छ्रेष्ठान्मुनीन्प्राह वचः--
यद्ययं न भवेद्वेदः प्रतिज्ञां तु करोम्यहम् । |
ततः सारस्वतेन सहिताः सर्वे मुनयस्तत्र तत्र मुनीन्गत्वा निर्णेतुं न शक्नुमः, इति तैरुक्ता ब्रह्माणं जग्मुर्यथायथं प्रतिज्ञा निवेदिताः । ब्रह्माऽपि मुनिं सारस्वतमाह । सत्यं प्रतिज्ञातं तत्रभवता सारस्वतेन । सारस्वतो वेदपाठः सारस्वतोक्तक्रमेणैवाध्येतव्योऽन्यथाऽध्ययनफलं नास्तीति । तत इतरान्मुनीन्प्राह । सत्यं न पाठक्रमेणार्थानुष्ठानक्रमो भवतीति । तस्मात्सर्वैर्जितं नाग्निप्रवेशनं कर्तव्यमितीतिहासः । काण्डानुक्रमणरीत्या सारस्वतपाठेन वा वेदाध्ययनमवश्यं कर्तव्यम् ।
तथा च श्रुतिः--
"तस्मात्स्वाध्यायोऽध्येतव्यो यं यं ऋतुमधीते तेन तेनास्येष्टं भवति" इति । |
स्वः स्वकीयोऽध्यायः शाखा ।
तदुक्तं भट्टपादैः--
"अत्र स्वाध्यायशब्देन स्वशाखैका तु गृह्यते" इति । |
अनेन च स्वाध्यायाध्ययनस्य प्राथम्यमावश्यकत्वं चोक्तं न तु द्वितीयवेदाध्ययनस्य निवृत्तिः ।
एवं च--"वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम्" इत्यविरुद्धम् ।
याज्ञवल्क्योऽपि--
"वेद एव द्विजातीनां निःश्रेयसकरः परः । |