सुवः" "ॐ पृथ्वि त्वया धृता लोका० त्वं च० चाऽऽसनम्" इत्यासन उपविश्य पूर्ववत्प्राणायामत्रयं कृत्वा--
समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । आत्माभ्युक्षणे विनियोगः-- "ॐ भूर्भुवः सुवः' इत्यात्मानमभ्युक्षेत् ।
अथ न्यासः ।
तत्सवितुर्हृदयाय नमः, हृदये । वरेण्यं शिरसे स्वाहा शिरसि । भर्गो देवस्य शिखायै वषट्, शिखायाम् । धीमहि कवचाय हुम्, उरसि । धियो यो नो नेत्रत्रयाय वौषट्, नेत्रभ्रूमध्येषु । प्रचोदयादस्त्राय फट्, करतलास्फोटनेनास्त्रं प्राच्यादिदशदिक्षु । अयं च न्यासः कृताकृतः ।
आयात्वित्यनुवाकस्थमन्त्राणां याज्ञिक्यो देवता उपनिषद ऋषयः[१] । सूर्याभिन्ना रुद्ररूपिणी सावित्र्यभिधा संध्या देवता । प्रथमद्वितीययोरनुष्टुप् । सर्ववर्ण इत्यस्य द्विपदा गायत्री । ओजोऽसीत्यस्य श्रियमावाहयामीत्यन्तस्य यजुः । आवाहने विनियोगः--"आयातु वरदा देवी अ० श्रियमावाहयामि" । इत्येतैरावाह्य--
प्रणवस्य परब्रह्मर्षिः । अग्निर्देवता, गायत्री छन्दः । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । जपे विनियोगः--गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदय रुद्रः शिखा पृथिवी कुक्षिः पञ्चशीर्षोपनयने विनियोगः, इत्यृष्यादि स्मृत्वा मौनी चापल्यरहितोऽभाषमाणो नासाग्रदृष्टिरुन्नतगात्र एकाग्रचित्तः, देवस्य स्वप्रकाशस्य सवितुः श्रीसूर्यस्य वरेण्यं वरणीयं भर्गस्तेजो धीमहि ध्यायेम यो नो धियोऽस्माकं बुद्धीः प्रचोदयात्स्वरूपे प्रेरयतीत्यर्थं मनस्यनुसंदधदुपांश्वष्टोत्तरसहस्रमष्टोत्तरशतमष्टाविंशतिर्वा(तिं वा) यथाशक्त्युपनयनोपदिष्टतृतीयपाठधर्मेण जपं कुर्यात् ।
जपसमाप्तौ पुनः षडङ्गन्यासान्कुर्यात् ।
"मध्यसंध्याप्रयुक्तेन गायत्रीजपनेन च । |
- ↑ ग. घ. ङ. ऋषिः ।