अथ प्रयोगः ।
बृहस्पतिः--
"प्राक्कूलेषु ततः स्थित्वा दर्भेषु सुसमाहितः । |
स्मृतिसंग्रहे--
"बद्ध्वाऽऽसनं नियम्यासून्स्मृत्वा चर्ष्यादिक तथा । |
स्मृतिसारे--
"प्राणानायम्य विधिवद्वाग्यतः संयतेन्द्रियः । |
प्राणायामात्पूर्वमाचमनमपि कर्तव्यम् ।
तदुक्तं स्मृत्यर्थसारे--
"आचम्यासून्समायम्य संध्योपासनमाचरेत्" इति । |
असून्प्राणान् ।
आचमनप्रकार उक्तो धर्मसूत्रे--
"आसीनस्त्रिराचामेद्धृदयंगमाभिरद्भिस्त्रिरोष्ठौ परिमृजेद्द्विरित्येके सकृदुपस्पृशेद्द्विरित्येके दक्षिणेन पाणिना सव्यमभ्युक्ष्य पादौ शिरश्चेन्द्रियाण्युपस्पृशेच्चक्षुषी नासिके श्रोत्रे च" इति ।
गौतमोऽपि--
"शुचौ देश आसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा यज्ञोपवीत्यामणिबन्धात्पाणिं प्रक्षालयति वाग्यतो हृदयस्पृशस्त्रिश्चतुर्वाऽप आचामेत्पादौ चाभ्युक्षेत्खानि चोपस्पृशेत्" इति ।
याज्ञवल्क्योऽपि--
"अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः । |
अत्रोपस्पर्श आचमनम् ।
ब्राह्मतीर्थस्वरूपमाह याज्ञवल्क्यः--
"कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च । |