परिददामि वशिन्यै त्वा परिददामि पृथिव्यै त्वा सवैश्वानरायै परिददाम्यद्भ्यस्त्वा परिददाम्योषधीभ्यस्त्वा परिददामि वनस्पतिभ्यस्त्वा परिददामि द्यावापृथिवीभ्यां त्वा परिददामि सुभूताय त्वा परिददामि ब्रह्मवर्चसाय त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददामि सर्वाभ्यस्त्वा देवताभ्यः परिददामि"
इति कुमारं कषकादिभ्यः परिददाति । यदि पुनरुपनयनं तदाऽत्र सावित्रीवाचनं कृत्वा सप्तपलाशसमिद्धोमादिकं कर्म कार्यं नात्राक्षारलवणाशनादिव्रतं चरितत्वात् । पुनरुपनयनप्रयोगस्त्वग्रे वक्ष्यते । प्रथमोपनयने तु परिदानानन्तरं सप्तपलाशसमिद्धोमादित्रिवृदन्नहोमान्तं वक्ष्यमाणरीत्या कृत्वा त्र्यहव्रतमक्षारलवणाशनादिकं वक्ष्यमाणरीत्या देवतोपस्थानपूर्वकं कुमारेण कारयित्वा चतुर्थदिवसे प्रातः सावित्रीवाचनं चतुर्थदिवसीयत्रिवृदन्नहोमादिकं सर्वं क्रमेण समापयेदित्येकं मतम् । सद्यः सावित्रीवाचनमिति पौष्करसादिमतम् । एतन्मतेऽपि त्र्यहव्रतं भवत्येव । "सद्यः पौष्करसादिः" इत्यस्मिन्सूत्रे प्राग्व्रतचर्यापरिसमाप्तेः शुक्रियाणामध्ययनदर्शनात् । व्रतमनारभ्याध्ययनस्यानुपपन्नत्वादिति मातृदत्तोक्तेः ।
तत्र पौष्करसादिमतमाश्रित्य प्रयोग उच्यते । परिदानानन्तरं कुमारेणाऽऽसादितसप्तपलाशसमिधां घृतेनाभ्यञ्जनं कारयित्वोपनयनाग्नावभ्याधापयति मन्त्रान्वाचयति च । कुमारः-- "ॐ अग्नये समिधमाहार्षं बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवं मां मेधया प्रज्ञया प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा" [ इति ] एकां समिधं घृतेनाभ्यक्तामभ्यादधाति । अग्नय इदमिति त्यागं कुर्यात् । तथैव द्वे द्वितीये । तथैवावशिष्टाश्चतस्रस्तृतीये । अग्नये समिधावाहार्षमिति द्वितीये मन्त्रसंनामः । अग्नये समिध आहार्षमिति तृतीये । त्यागस्तु पूर्ववदेवोभयत्रापि । मन्त्रान्तर्गतद्वितीयसमिच्छब्दे तु नोहः । तस्येन्धनमात्राभिधायित्वात्संनमनावचनाच्च । केचिदभ्याधानात्पूर्वं संकल्पमपि कुर्वन्ति, तन्न । सर्वेष्वङ्गभूतेषु कर्मस्वतिप्रसङ्गापत्तेः "समस्ते क्रतावर्थं श्रूयमाणं यजमानः कामयते, यानि तु कामयति श्रावयति" इति सूत्रेण साक्षात्कमिधातुसमभिव्याहार एव संकल्पकर्तव्यतोक्तेश्च । न ह्यत्र कमिधातुः श्रूयते । एवमन्यत्रापि ।
ततः शुल्बप्रहरणादिसंस्थाजपान्तं कर्म समाप्य "न गायेन्न रोदेन्न नृत्यदर्शी भवेन्मधुमांसाशनादि वर्जयेत्" इत्यादीनि धर्मसूत्रोक्तानि, एतद्व्रत एवात