ऊर्ध्वमित्यारभ्य न स्त्रियमुपैतीत्यन्तानि गृह्योक्तानि च ब्रह्मचर्याश्रमव्रतानि कुमारायोपदिशति ।
ततोऽग्ने व्रतपत इत्यादीनां चतुर्णां मन्त्राणां विश्वे देवा ऋषयः । अग्निवायुसूर्यव्रतपतयः क्रमेण देवता यजूंषि । उपस्थाने विनियोगः । "ॐ अग्ने व्रतपते व्रतं च० ध्यताम्" [ इति ] अग्निमुपतिष्ठते । "ॐ वायो व्रतपते० वायुम् । आदित्यव्रतप० आदित्यम् । व्रतानां व्रतप० व्रतपतिम्" अत्र व्रतपतिशब्देनाग्निर्ग्राह्यः । "व्रतेन वै मेध्योऽग्निर्व्रतपतिः" इति श्रुतेः । एतद्व्रतोपायनम् । अस्य समावर्तने त्यागः ।
अत्र गुरवे वरं ददाति "गुरो वरं ते ददामि" इति । गुरुराऽऽचार्यः । पितुरप्याचार्यत्वे पूर्वोपक्लृप्ताऽन्यस्मात्प्रतिग्रहेणाऽऽनीता गौर्वरार्थे देया । गौर्वरो ब्राह्मणस्य ग्रामो राजन्यस्याजा वैश्यस्य । गोरभावे शक्त्यनुसारेण पञ्चविधमानान्यतममानेन द्रव्यं देयम् । गुञ्जापरिमितं सुवर्णमिति पैङ्ग्यः ।
आचार्यः सप्तदशकृत्वोऽपान्य, देवस्य त्वा सवितुरिति मन्त्रस्य प्रजापतिः सविता यजुः । वरप्रतिग्रहणे विनियोगः । "ॐ देवस्य त्वा सवि० दक्षिणे रुद्राय गां तयाऽमृतत्वमश्यां वयो० गृह्णातु" [इति] वरं प्रतिगृह्णाति । वामहस्तेन तृणप्रदानं दक्षिणहस्तेन प्रतिग्रहः । सूत्रे दात्र इत्यनन्तरं भूयान्मय इति पठितं तथा वा ब्रूयात् । प्रतिनिधित्वेन द्रव्यदानपक्षेऽप्ययमेव मन्त्रः । निष्क्रयत्वेन द्रव्यदानपक्षे तु । उत्तानस्त्वेत्यस्य प्रजापतिराङ्गीरसो यजुः । प्रतिग्रहणे विनियोगः । "ॐ उत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु" इति प्रतिगृह्णाति । अत्रापि सावित्रान्वाधीस्त इति केचित् । वस्तुतस्तूष्णीमेव प्रतिग्रहो न मन्त्रेण । एतस्या दक्षिणाया यागसंबन्धित्वाभावात् । "देवा वै वरुणमयाजयन्" इति श्रुतौ यागस्यैवोपक्रमेण तत्संबन्धिदक्षिणाप्रतिग्रह एव समन्त्रकप्रतिग्रहस्योक्तेः । "तान्त्रीणां दक्षिणानां दर्शयति" इति सूत्रकृदुक्तेश्च । अस्मिन्कल्पेऽपाननं तृणप्रदानं च नास्ति । व्यावृत्य प्रतिग्रहणमपि न भवति । भवतीति केचित् । प्रतिग्रहमन्त्रेऽप्यृष्यादिस्मरणे विकल्पः ।
तत उदायुपेत्यस्य सोमः सोमो यजुः । कुमारस्योत्थापने विनियोगः । "ॐ उदीयुषा० अनु" [ इति ] कुमारं वाचयन्नुत्थापयति । "ॐ सूर्याय त्वां परिददे" इति कुमारं ब्रूयात् । परिदेहीति कुमारः । आचार्यः "ॐ सूर्यैष ते पुत्रस्तं ते परिददामि"इति सूर्याय कुमारं परिददाति ।