बहुपुत्रवतीमित्यत्र बहुपुत्रशब्देनैकादशप्रभृतिरेव संख्या ग्राह्या ।
"दशास्यां पुत्रानाधेहि" इति लिङ्गात् । |
ऋतुविशेषेण संभोगनियमः कामशास्त्रे--
"पक्षान्निदाघे हेमन्ते नित्यमन्यर्तुषु त्र्यहात् । |
यत्तु वाग्भट्टीये--
" त्र्यहाद्वसन्तशरदोः पक्षाद्वर्षनिदाघयोः । |
इत्युक्तं, तत्र बलीत्यभिधानेन दृष्टार्थत्वोक्तेर्यथाबलं व्यवस्था ।
रतिदेशमाह पैठीनसिः--
"संवृत्ते देशे मैथुनायाऽऽह्वयीत" इति । संवृत्ते परिश्रिते । |
देशविशेषनिषेधो विष्णुपुराणे--
"देवद्विजगुरूणां च व्यवायी नाऽऽश्रमे भवेत् । |
देवद्विजगुरूणामाश्रमे व्यवायी न भवेदित्यन्वयः । व्यवायो मैथुनं तदस्यास्तीति व्यवायी ।
रतिसमये दीपसांनिध्यमुक्तं रतिप्रकाशे--"दीपसमीपे रतिं कुर्यात्" इति ।
ज्योतिर्निबन्धे--
"दीपेऽप्रदीप्ते यः सङ्गं करोति मनुजो यदि । |
अयं च दीपो भार्ययैव प्रज्वालनीयः ।
तदुक्तं तत्रैव--
"भार्यैव दीपं प्रज्वाल्य पत्युश्चित्तानुवर्तिनी । |
दीपे शलाकां प्रज्वाल्य तेन दीपप्रज्वालनं कार्यं न तु साक्षाद्दीपे ।
"दीपेन दीपं प्रज्वाल्य दरिद्री(द्रो) व्याधिमान्भवेत्" । |
इति लैङ्गे दोषस्योक्तेः ।
दीपलोपनं पुरुषस्य निषिद्धम् ।
"दीपप्रलोपनं पुंसां कूश्माण्डच्छेदनं स्त्रियाः । |
एतच्च सार्वत्रिकं द्रष्टव्यम् ।
- ↑ ग. सीतेषु ।