६७४
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
एवं चतुर्थस्यापि ।
"उपस्पृश्याशुचिस्पृष्टं तृतीयं चापि मानवः ।
हस्तौ पादौ च तोयेन प्रक्षाल्याऽऽचम्य शुध्यति" इति देवलोक्तेः ।
|
अपिशब्दात्पञ्चमादीनामपि ग्रहणम् ।
अशुद्धस्योदक्यादिस्पर्शे तु स एवाऽऽह--
"अशुद्धः स्वयमप्येतानशुद्धांस्तु यदि स्पृशेत् ।
स शुध्यत्युपवासेन तथा कृच्छ्रेण वा पुनः" इति ॥
|
स्मृत्यर्थसारे--
"परिवेषणे रजोदृष्टौ तत्स्पृष्टान्नस्य त्यागः । अन्नाधारे
चण्डालसूतिकोदक्यादिस्पृष्टे रजकादिस्पृष्टे च जले निक्षि-
प्याग्निमर्कं वा स्पृशेत्" इति ।
|
इति रजस्वलास्पृष्टचेतनाचेतनानां शुद्धिप्रकारः ।
अथ प्रसङ्गात्संक्षेपेण स्त्रीधर्माः ।
तत्र मनुः--
"बाल्ययौवनवत्या वा वृद्धया वाऽपि योषिता ।
न स्वातन्त्र्येण कर्तव्यं किंचित्कार्यं गृहेष्वपि ॥
पित्रा भर्त्रा सुतेनापि नेच्छेद्विरहमात्मनः ।
एषा हि विरहेण स्त्री गर्हिता स्यात्कुलद्वये ॥
सदा प्रतिष्ठया भाव्यं गृहकार्येषु दक्षया ।
संस्कृतोपस्करतया व्यये चामुक्तहस्तया" इति ॥
|
मनुः--
"पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रो रक्षति वार्धक्ये न स्वातन्त्र्यं क्वचित्स्त्रियाः ॥
सूक्ष्मेभ्योऽपि प्रमादेभ्यः स्त्रियो रक्ष्या विशेषतः ।
द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः" इति ॥
|
भारते--
"यानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् ।
स्वापोऽन्यगेहे वासश्च स्त्रीणां वै दूषणानि षट् ॥
नैता रूपं परीप्सन्ते नाऽऽशङ्का वयसि स्थितिः ।
सुरूपं वा कुरूपं वा पुमानित्येव भुञ्जते ॥
शय्यासनमलंकारं कामं क्रोधं तथाऽऽर्जवम् ।
द्रोहभावं कुकार्यं च स्त्रीभ्यो मनुरकल्पयत् ॥
न कश्चिद्योषितः शक्तः प्रसह्य परिरक्षितुम्" इति ।
|