तिथ्यादिफलेषूत्तरोत्तरं विशेषमाह देवरातः--
"तिथिरेकगुणा प्रोक्ता नक्षत्रं च चतुर्गुणम् । |
विधानं शा[१]न्तिः । सा च शान्तिरत्नमालायां वक्ष्यते ।
अथ सर्वर्तुनियमाः ।
तत्रेदं गृह्यम्--
"त्रिरात्रं मलवद्वाससा ब्राह्मणव्याख्यातानि व्रतानि चरति" इति । |
मलवद्यद्वस्त्रं तेन सहिता व्रतं चरतीत्यर्थः । अथवा मलवद्वा[२]ससा रजस्वला मलवद्वाससेति तृतीया प्रथमार्थे । मलवद्वासा इति पाठस्तु युक्त एव । "तस्मान्मलवद्वाससा न संवदेत" इत्यादीनि ब्राह्मणोक्तानि व्रतानि चरतीत्यर्थः । मलः, रजो विद्यते यस्मिंस्तन्मलवत् । एतेनैव ज्ञायत एकवस्त्रैव रजस्वला स्नानपर्यन्तं भवेदिति । श्रुतौ पर्णेन पानस्यैव निषेधनात्पर्णे भोजनस्य निषेधो नास्तीत्यवगम्यते । एतन्मूलमग्रे प्रदर्शयिष्यते । तच्च पलाशादियज्ञियवृक्षव्यतिरिक्तमाचाराज्ज्ञेयम् ।
([३] स्मृतिमञ्जर्याम्--
"तस्मादुदक्यया सार्धमेकगेहे न संविशेत् । |