पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६५७
संस्काररत्नमाला
( सर्वर्तुसाधारणा नियमाः )
 

 तिथ्यादिफलेषूत्तरोत्तरं विशेषमाह देवरातः--

"तिथिरेकगुणा प्रोक्ता नक्षत्रं च चतुर्गुणम् ।
वारस्तु षड्गुणो ज्ञेयो मासश्चाष्टगुणः स्मृतः ॥
वस्त्रं दशगुणं विद्याद्दर्शनं च ततोऽधिकम् ।
अशुभं चेद्रजः स्त्रीणां प्रथमर्तौ हि दृश्यते ॥
विधानं तत्र कर्तव्यमरिष्टघ्नं विशेषतः" इति ।

 विधानं शा[१]न्तिः । सा च शान्तिरत्नमालायां वक्ष्यते ।

अथ सर्वर्तुनियमाः ।

 तत्रेदं गृह्यम्--

"त्रिरात्रं मलवद्वाससा ब्राह्मणव्याख्यातानि व्रतानि चरति" इति ।

 मलवद्यद्वस्त्रं तेन सहिता व्रतं चरतीत्यर्थः । अथवा मलवद्वा[२]ससा रजस्वला मलवद्वाससेति तृतीया प्रथमार्थे । मलवद्वासा इति पाठस्तु युक्त एव । "तस्मान्मलवद्वाससा न संवदेत" इत्यादीनि ब्राह्मणोक्तानि व्रतानि चरतीत्यर्थः । मलः, रजो विद्यते यस्मिंस्तन्मलवत् । एतेनैव ज्ञायत एकवस्त्रैव रजस्वला स्नानपर्यन्तं भवेदिति । श्रुतौ पर्णेन पानस्यैव निषेधनात्पर्णे भोजनस्य निषेधो नास्तीत्यवगम्यते । एतन्मूलमग्रे प्रदर्शयिष्यते । तच्च पलाशादियज्ञियवृक्षव्यतिरिक्तमाचाराज्ज्ञेयम् ।

 ([३] स्मृतिमञ्जर्याम्--

"तस्मादुदक्यया सार्धमेकगेहे न संविशेत् ।
प्रतिग्रहं च संवादमस्या अन्नं च वर्जयेत् ॥
रजस्वलां पतिर्गच्छेच्चण्डालो जायते सु[४]तः ।
अरण्ये तां यदा गच्छेत्तज्जः स्तेनस्तदा भवेत् ॥
पराङ्मुखीं तां गच्छेच्चेत्तज्जो(ज्जा) ह्रीतमुखी भवेत् ।
पराङ्मुख्या उदक्याया जातः सोऽप्यपगल्भकः ॥
आर्तवे यदि सा स्नाति तज्जातोऽप्सु मरिष्यति ।
तैलेनाभ्यञ्जनं कुर्यात्कुष्ठरोगी प्रजायते ॥



८३
 
  1. क. ग. शान्तिः, र ।
  2. क. ग. द्वासा ।
  3. धनुश्चिह्नान्तर्गतोऽयं ग्रन्थो ङ. च. पुस्तकयोः, वसिष्ठोऽपीत्यारभ्य--तिस्रो रात्रीर्व्रतं चरेदितीत्यन्तग्रन्थादनन्तरं वर्तते ।
  4. क. ग. पुनः ।