सामग्री पर जाएँ

काशकृत्स्न-धातुपाठः/भ्वादिगणः (१)(परस्मैपदिनः)

विकिस्रोतः तः
काशकृत्स्न--धातुपाठः
भ्वादिगणः (१)(परस्मैपदिनः)
[[लेखकः :|]]
भ्वादिगणः (१)(आत्मनेपदिनः) →

3
ओम्
काशकृत्स्न--धातुव्याख्यानम्
चन्नवीरकविकृतकर्नाटकटीकायाः संस्कृतरूपान्तरम्
भ्वादिगणः
[ अन्--विकरणः]
परस्मैपदभाषाः
प्रकृतिप्रत्ययाङ्गाय परस्मायात्मने पदे।
नमो यागण्टिशरभलिङ्गेशाय चरण्टिने ॥
धातुपाठः कृतो येन बालव्युत्पत्तिसिद्धये ।
नमस्तस्मै काशकृत्स्नगुरवे शिवरूपिणे ।
टीका--बालो व्याकरणज्ञानरहितः, व्युत्पत्तिर्व्याकरणज्ञानम् , [ तस्य ] सिद्धये सिद्ध्यर्थं धातूनां क्रियावचनानां भाववचनानां च पाठो येन कृतः, तस्मै शिवरूपिणे काशकृत्स्नगुरवे काशकृत्स्ननाम्ने पूज्याय नमोऽस्तु ।
निपाताश्वोपसर्गाश्च धातवश्च त्रयोऽप्यमी ।
अनेकार्थाः स्मृताः सद्भिः पाठस्तेषां निदर्शनम् ।।
टीका--निपाताश्च चादयः, उपसर्गाश्च प्रादयः, धातवश्व क्रियावचना भाववचनाश्च । अमी एते त्रयोऽपि अनेकार्था बह्वर्थाः [ बहुप्रयोजना वा], सद्भिरिन्द्रचन्द्रापिशलिगार्ग्यगालवपौष्करैः स्मृताः कथिताः । तेषां पाठोऽध्ययनं निदर्शनं निदर्शनमात्रम् । [ यथा --]
सत्तायां मङ्गले वृद्धौ निवासे व्याप्तिसम्पदोः ।
अभिप्राये च शक्तौ च प्रादुर्भावे गतौ च भूः॥
टीका--सत्तायाम् [आत्मस्थितौ ], मङ्गले शुभे, वृद्धावुन्नतौ, निवासे गृहे, व्याप्तिसम्पदोः व्यापारे सम्पत्तौ च, अभिप्राये रहस्ये च, शक्तौ शक्यतायां च, प्रादुर्भावे प्राकट्ये, गतौ च 'भू'धातुः स्मृतः ।
4
 १. भू सत्तायाम्--भू धातुः सत्तायां प्रयुज्यते । सा भवति, स भवति, तद्भवति ।
सत्तायां यथा--विरला भवन्ति सन्तः, सन्तीत्यर्थः ।
मङ्गले--पुत्रस्य भूतिः कार्या, मङ्गलमित्यर्थः, शुभमिति यावत् ।
वृद्धौ--गोत्रस्य भूतिः । वृद्धिरित्यर्थः, उन्नतिरिति यावत् ।
निवासे--भवनम् , गृहमित्यर्थः । ।
व्याप्तौ--विश्वं भवति, व्याप्नोतीत्यर्थः । सकर्मकत्वं च ।
सम्पद्यर्थे--अदीर्घो दीर्घो भवति, सम्पद्यत इत्यर्थः ।
अभिप्राये--इत्ययं भावः, अभिप्रायः इत्यर्थः, रहस्यमिति यावत् ।
शक्तौ--तन्तुर्भवति, शक्नोतीत्यर्थः, दृढो भवतीति यावत् ।
प्रादुर्भावे--अक्रूरो भवति, जायत इत्यर्थः, शान्तो भवतीति यावत् ।
गतौ--भूता, गता इत्यर्थः ।1
भू सत्तायाम्--भू क्विप् , सर्वापहारी प्रत्ययः, तस्य सर्वस्यादर्शनं भवति । तेन 'भूः' इति नाम कृल्लिङ्गं2 भवति ।
भूः--भूमिः । भूतिः--ऐश्वर्यम् । भूतः--प्रमथः (शिवगणः ), भुवनं--देशः। भविः--जन्म । भवः--शिवः। भावः--प्रकारः । भावनम्--विश्वासः । भाव्यम्--भावयितुं योग्यम् । भावुकम्, भविकम् , भव्यम्--कल्याणम् । भावि भावी भविनी । भूम--देवताराधना । भूमिः--पृथिवी । भवान् । भविता । भवितव्यम् भवनीयम्--भवितुं योग्यम् । प्रभवः--जन्म । विभवः--ऐश्वर्यम् । पराभवः--पराजयः । प्रभुः, विभुः--राजा। शम्भुः--आनन्दरूपः । शम्भूः--सुखस्थानम् । मयोभूः--वेदजनकः । स्वयम्भूः--निरञ्जनः ।

टिप्पणी


१. इतोऽग्रे कर्नाटकलिपिमुद्रिते टीकाग्रन्थे पूर्वनिर्दिष्टाः श्लोकाः पुनः पठ्यन्ते । तदग्रे च कतिपयानां धातूनामनावश्यकः पाठ उपलभ्यते । स च निष्प्रयोजन एव, उत्तरत्र यथास्थाने व्याख्यायां पठितत्वात् । अपि चायं पाठो न साकल्येनाग्रे यथास्थानं व्याख्यातेन पाठेन संवादं भजते, न च काशकृत्स्नधातुपाठस्य संक्षेपेण कातन्त्रधातुपाठेन । अस्यानर्थकस्यापि पाठस्य सुरक्षायै ग्रन्थान्ते निर्देशः करिष्यते ।
२. कृत् कृदन्तम् , लिङ्गं प्रातिपदिकमिति यावत् । काशकृत्स्ने तन्त्रे कातन्त्रे च लिङ्गमिति प्रातिपदिकमुच्यते । तथा च कातन्त्रीयं सूत्रम्--धातुविभक्तिवर्जमर्थवल्लिङ्गम् (२।१।१) इति ॥

5
एवं भूधातोराख्यात--कृत्--तद्धित--समासाः सर्वे ज्ञेयाः।
२. चिती संज्ञाने-- सम्यग्ज्ञाने । चेतति--जानातीत्यर्थः। धातोः क्विप्धातोः क्विप् प्रत्ययो भवति । चित्--ज्ञानम् । चितिः--ज्ञानम् । चित्तम्--ज्ञानम् । चेतः--मनः। चित्तवान्--ज्ञानवान् ।
३. अत सातत्यगमने--निरवसानगतौ । अतति गच्छतीत्यर्थः । आत्था (?, आत्मा)--सर्वत्रसंचारी।
४. चुतिर् आसेचने--अल्पावरोधे । चोतति ।
५. श्च्युतिर क्षरणे--नाशने1 । श्चोतति--नाशयतीत्यर्थः ।
६. मन्थ विलोडने--मन्थनकर्मणि । मन्थति, मथति2--विलोडयतीत्यर्थः । मन्था--मन्थनसाधनी (मथनी इति भाषायाम् )। अनुनासिकोऽनुषङ्गः--धातुप्रत्यययोर्यः पञ्चमो वर्णः सोऽनुषङ्गः। अनुषङ्गस्य लोपः--अनुषङ्गस्य लोपो भवति । [ अनेन 'मथति' इत्यत्र नकारस्य लोपः] ।
७. कुथि मथि लुथि कथि बुथि किथि हिंसासंक्लेशयोः--वधे पीडनायां च। कन्थति3----पार्श्वमेकभागं वा संपीडति सीव्यति वा । कन्था--वस्त्रखण्डैर्निर्मितो वस्त्रविशेषः ( गुदड़ी इति भाषायाम)। बुन्थति--धारयति । बुन्था--पुराणैर्वस्त्रैर्निर्मितो वस्त्रविशेषः । सन्थति--संपीडयति । सन्था--नियतदिवसको हाटः । कुन्थति मन्थति लुन्थति--हिंसयति ताडयति वा । कुन्था, मन्था, लुन्था--युद्धम् । इदनुबन्धान्नु:--इकारानुबन्धवद्भ्यो धातुभ्यो 'नु:' इत्यस्यागमो भवति ।
८. अति अदि बन्धने--अन्तति--बध्नाति । अन्तकः--यमः । अन्दति--बन्धयति । अन्दू:--कूपः।
 

टिप्पणी


१. कर्नाटकटीकायां धात्वर्थानामुदाहृतपदानां च येऽर्था निर्दिष्टास्ते बहुत्र वैचित्र्यं भजन्ते । तेषां मूलमन्वेषणीयम् । अस्माभिस्तु यथापाठं तेषामेव संस्कृतीकरणं विहितम् ।
२. पाणिनीयमतानुसारं नात्र लोपो नकारस्य प्राप्नोति । पाणिनीयमते 'मथे विलोडने' इत्यस्य स्वतन्त्रधातो रूपम् ।
३. अक्रमेण प्रयोगनिदर्शनं कर्नाटकटीकाकृता केन हेतुना कृतमिति न ज्ञायते । धातुक्रम वैपरीत्येन व्याख्यानमस्यां टीकायां बहुत्रोपलभ्यते। अग्रे क्रमवैपरीत्यनिर्देशो न सर्वत्र करिष्यते।
४.धातुरयं धातुसूत्रे न पठ्यते ।

6
९. इदि परमैश्वर्ये--सम्पत्तौ । इन्दति--शासनं करोति । इन्द्रः--अधिपतिः ।
१०. षिधु गत्याम्--सेधति--गच्छति । सिद्धम्--सिद्धिः । धात्वादेः षः सः--धातोरादौ यः षकारस्तस्य सकारो भवति । नो णः--धात्वादेर्णकारस्य नकारो भवति ।
११. षिधू शास्त्रे माङ्गल्ये च--सेधति--पठति पाठयति, मङ्गलं शुभं वा भवति ।
१२. खादृ भक्षणे--अदने । खादति--अभ्यवहरति । खादनम्--अभ्यवहारः।
१३. बद स्थैर्ये--स्थिरतायाम् । बदति--स्थिरो भवति । बदरी--बदरवृक्षः ।
१४. खद हिंसायां च--चात् स्थैर्येऽपि । खदति--हिंसयति । खदिरः--वृक्षविशेषः ( खैर इति नाम्ना भाषायां प्रसिद्धः)।
१५. गद व्यक्तायां वाचि--निरन्तरभाषणे । गदति--वदति । गदा--लोहदण्डः ( शस्त्रविशेषः)।
१६. रद विलेखने--लेखने । रदति--लिखति । रदनः१--लेखनी ।
१७. णद अव्यक्ते शब्दे--अव्यक्तध्वनौ। नदति--अव्यक्तं ध्वनति । नदी ।
१८. अर्द गतौ याचने च--गत्यां भिक्षायां च । अर्दति--गच्छति, भिक्षते वा । अर्दनम्--भिक्षा ।
१९. णर्द गर्द शब्दे--नर्दति--शब्दयति । नर्दनम्--शब्दः । गर्दति--शब्दं करोति । गर्दभः--रासभः ।
२०. तर्द हिंसायाम्--तर्दति--मारयति । तर्दुः--काष्ठमयश्चमसः ।
२१. कर्द कुत्सिते शब्दे--निन्दिते शब्दे । कर्दति--कुत्सितं शब्दयति कर्दः--पङ्कः।
२२. खर्द दन्दशूके--दन्तैर्दशने । खर्दति--दशतिः। खर्दः--कुक्कुरः ।
२३. बिदि अवयवे--अवयवक्रियायाम् । बिन्दति--रूपं धत्ते । बिन्दुः--अवयवविशेषः ('बूंद' इति भाषायाम् )।
२४. णिदि कुत्सायाम्--निन्दायाम् । निन्दति--कुत्सयति । निन्दा--कुत्सा।

टिप्पणी


१. काष्ठतक्षणसाधनविशेषः, 'रन्दा' इति भाषायाम् ।
२. काकध्वनावुदरध्वनौ चेति कोषकाराः।

7
२५. टुनदि समृद्धौ--नदति--समृद्धो भवति । नन्दनः--पुत्रः ।
२६. चदि आह्लादने दीप्तौ च--सन्तोषानन्दयोः प्रकाशे च । चन्दति--आनन्दितः प्रकाशितो वा भवति । चन्द्रः--चन्द्रमाः।
२७. त्रदि चेष्टायाम्--गतौ। त्रन्दति--गच्छति चेष्टयति । त्रन्दी--जवनिका।
२८. कदि क्रदि क्लदि आह्लादने रोदने च--संतोषे रोदने च । कन्दति--रोदिति । कन्दः--पुत्रः । क्रन्दति--रोदिति । क्रन्द्रः, क्रन्दनम्--रोदनम् । क्लन्दति--म्लायति । क्लन्दनम्--म्लानम् ।
२९. क्लिदि परिवेदने (परिदेवने)--दुःखे । क्लिन्दति--दुःखितो भवति । क्लिन्दा--दुःखं, रोदनम् ।
३०. शुन्ध शुद्धौ--शौचे। शोधति ----पवित्री करोति (मार्जयति )। शुधा--दुग्धम् । शुद्धम् ।
३१. फक्क नीचैर्गतौ--व्यभिचारे। फक्कति--व्यभिचारं करोति । फक्का--व्यभिचारः।
३२. तक तक्क गग्घ हसने—तक्कति३, तकति, गग्घति--हसति । तक्कः, तकः, गग्घः--हसनम् ।
३३. तकि कृच्छ्रजीवने--कष्टमये जीवने । तङ्कति--परिश्राम्यति । तङ्कः--परिश्रमः । ३४. शुक गतौ--[ शोकति--गच्छति । ] शोकः--गतम् । शुकः--व्यासपुत्रः।
३५. बुक्क बुष्क भाषणे भषणे च--श्वरवे भाषणे च । बुक्कति, बुष्कति--भषति । बुक्कः, बुष्कः--कुक्कुरः।
३६. ओखृ राखृ लाखृ द्राखृ ध्राखृ शोषणालमर्थयोः--शोषणे शृङ्गारे

टिप्पणी


१. काशकृत्स्नीयसंक्षेपरूपे कातन्त्रधातुपाठे 'आह्वाने' इत्यर्थः पठ्यते । अन्यधातुपाठेष्वपि 'आह्वाने' इत्येव दृश्यते ।
२. 'मन्थ'धातुवृत्तौ पठितेन 'अनुषङ्गस्य लोपः' ( पृष्ठ ५) सूत्रेण नकारलोपे उपधाया गुणे शोधति रूपम् । सत्यप्यैवम् , अनुषङ्गासंजनात् 'शुन्धति' इत्यपि वक्तव्यम् । अत एवान्यैः शुध शुन्ध इत्युभावपि पठितौ।
३. उदाहरणेषु तकतक्कयोर्वैपरीत्यनोदाहरणनिर्देशे किं कारणमिति न विद्मः।

8
च । ओखति--शुष्यति, अलंकरोति च । राखति--शुष्यति, सह गच्छति । लाखति--शुष्यति, विस्मरति च । द्राखति--म्लायति । ध्राखति--म्लायति । उखनम् (१, ओखनम् ), राखनम् , लाखनम् , द्राखनम् , ध्राखनम्--शोषणं मण्डनं च ।
३७. शाखृ श्राखृ श्लाखृ व्याप्तौ--आवरणे । शाखति--व्याप्नोति । श्राखति, श्लाखति--अङ्कुरितो भवति । शाखा--वृक्षावयवविशेषः ('डाल' इति भाषायाम् ) । श्लाखा--शाखा, नवपल्लवं वा।
३८. अख उख णख वख मयूख मख मुख रख रिख लख लिख रखि लखि इखि वखि रगि रिगि लगि रिगि (?, अगि) वगि मगि खखि इगि षिगि लिगि गतौ--अखति--(भूमिं) विदारयति । आखुः--मूषकः । ओखति--ज्वलति । उखा--अङ्गारधानी । नखति--अङकुरितो भवति । नखः--अगुल्यग्रावयव विशेषः । वखति--गच्छति । वखः । मयूखति--पाटयति (तमः), रिङ्गति । मयूखः--आतपः (?, रश्मिः) । मखति--प्रज्वलितो भवति । मखः--यज्ञः । मोखति--अत्ति । मुखम्--प्राण्यङ्गविशेषः । रखति--गच्छति । रखः--(?)। रेखति--रेखां करोति । रेखा--लेखा । लखति--गच्छति । लखः--गमनम् । लेखति--लिखति । लेखः--देवः (?)। रङ्खति--आरोहति । रङ्खः--आरोहः (उच्चैत्वम् ) । लङ्खति--सीव्यति । लङ्खः--सूची। इङ्खति--प्रविशति । इङ्ख:--प्रवेशनम् । वङ्खति--गुन्थति । वङ्खि--वङ्क्रिः (पार्श्वस्थि)। रङ्गति--रजति । रङ्गः--रजनम् । लङ्गति--चञ्चलो भवति (लंगड़ा कर चलना)। लङ्ग--चञ्चलः । अङ्गति--अङ्कुरितो भवति । अङ्गम्--अवयवः। वङ्गति--म्लायति । वङ्गः--जनपदविशेषः (बंगाल)। मङ्गति--उत्प्लुत्य गच्छति । मङ्गः--वानरः। खङ्गति--एकेन पादेन चलति । खङ्गः--एकपात् । इङ्गति--अल्पी भवति । इङ्गः--लता। सिङ्गति--उपद्रवति । सिङ्ग:--कपिविशेषः । लिङ्गति--लक्षयति ( लक्ष्यं करोति ) । लिङ्गम्--लक्ष्यम्, चिह्नम्, पुँलिङ्गादि ।
३९. त्वगि कम्पने--त्वङ्गति कम्पते । त्वङ्ग:--कम्पनम् ।
४०. युगि तुगि1 बुगि वर्जने--परित्यागे । युङ्गति--परित्यजति । जुङ्गति--भ्रंशति--('फिसलना' इति भाषायाम् )। जुङ्गः--भ्रंशनम् । बुङ्गति--ककुद्मान् (कुबड़ा इति भाषायाम् ) भवति । बुङ्गः--कुकुद्मान् , वक्रः ।
४१. इघि पालने--रक्षणे । इङ्घति--रक्षति पुष्णाति वा । इङ्घः--पालनम् ।

टिप्पणी


१. उदाहरणक्रमे 'जुङ्गति, जुङ्गः' इति पठ्यते । तेनात्र 'जुगि' इति युक्त स्यात् । उदाहरणयोर्वा 'तुङ्गति, तुङ्गः' इत्येवं पाठः कल्पनीयः।

9
४२. लघि शोषणे उत्पवने1 च--शोषणे उत्क्रमणे च । लङ्घति--शुष्यति । लङ्घनम्--उत्क्रमणम्, शोषणम् ।
४३. शिघि आघ्राणे उत्पवने च2--गन्धग्रहणे । शिङ्घति--जिघ्रति । शिङ्घाणः--दुर्गन्धम् ( नासामलं च )।
४४. शुच शोके--दुःखीभावे चिन्तायां च । शोचति--दुःखितो भवति । शोकः--दुःखम्, चिन्तनम् ( इष्टवियोगानुचिन्तनम् )।
४५. कुच शब्दोत्तारे--प्रतिध्वनौ । कोचति--प्रतिध्वनति । [ कोचः--प्रतिध्वनिः ( गूंजना इति भाषायाम् )] ।
४६. क्रुञ्च क्लुञ्च कौटिल्याल्पीभावयोः--कुटिलतायाम् अल्पतायां च3 । क्रुञ्चति--कुटिलो भवति ('मुड़ता है' इति भाषायाम्) । क्रुञ्चा--आकुञ्चनम् । क्लुञ्चति--कुटिलो भवति । क्लुञ्चा--(?)।
४७. लुञ्च अपनयने--अल्पत्वे । लुञ्चति4 --अपनयति । लुञ्चनम्--अल्पता हीनता वा।
४८. अञ्चु गतिपूजनयोः--गमने प्रशंसायां च । अञ्चति--गच्छति, प्रशंसति, पूजयति । अञ्चुः5--तटम् ।
४९. वचि चचि तचि त्वचि म्रुचि म्लुचि ग्रुचि ग्लुचि ष्रुचि ष्लुचि पुष्प गतौ--गमने । वञ्चति--विप्रलम्भति । वञ्चनम्--विप्रलम्भनम् । चञ्चति--अनृतभाषणं करोति । चञ्चा--अनृतभाषणम् । तञ्चति--वञ्चयति । तञ्चः--वञ्चनम् । त्वञ्चति--गच्छति । त्वञ्चः--गमनम् । म्रुञ्चति--द्यूतं क्रीडति । मुञ्चः द्यूतक्रीडा । म्लुञ्चति--अपराध्यति । मलुञ्चः--अपराधः । ग्रुञ्चति--विप्रलम्भते । ग्रुञ्चः--विप्रलम्भनम् । ग्लुञ्चति--निगूहति । ग्लुञ्चः--रहस्यम् । स्रुञ्चति--भ्रमयति । स्रुञ्चः--भ्रमणम् । स्लुञ्चति--(?)। स्लुञ्चः--(?)। पुष्पति--पुष्पितो भवति । पुष्पम्--कुसुमम् ।

टिप्पणी


१. अत्र 'उत्क्रमणे' इति पाठो युक्तः स्यात् । उत्तरसूत्रटिप्पण्यपि द्रष्टव्या।
२. 'उत्पवने च' इति पुनः पाठो व्यर्थः । यद्वा पूर्वसूत्रे 'उत्क्रमणे' इति पाठः स्यात् ।
३. कौटिल्येन यत्र विस्तारः सङ्कोचमापद्यते तादृश्युभयगुणविशिष्टा क्रिया इह अभिप्रेता, या भाषायाम् 'मुड़ना' पदेन व्यवह्रियते।
४. कतरना, छीलना, नोचना, बाल आदि का उखेड़ना, इत्याद्यर्था ज्ञेयाः।
५. अस्यां टीकायाम् एतादृशो बहव 'उ'प्रत्ययान्ताः शब्दाः पठ्यन्ते । तेनौणादिकस्य 'इन्'प्रत्ययस्यैव सामान्यः 'उ'प्रत्ययोऽपीति ज्ञायते ।

10
५०. ग्रुचु ग्लुचु गुजु घुजु कुच खुचु स्तेयकरणे--चौर्ये । ग्रोचति--चोरयति । ग्रोचः--चौर्यम् । ग्लोचति--कूर्दते । ग्लोचः--कूर्दनम् । गोजति--मुष्णाति । गोजुः--अपहरणम् । घोजति -- नियन्त्रयति । घोजुः--नियन्त्रणम् । कोचति--चोरयति । कोचा--चौर्यम् । खोचति--चोरयति । खोचा--चौर्यम् ।
५१. अर्च पूजायाम्--अर्चति--पूजयति । अर्चकः--पूजकः । ।
५२. म्लेच्छ अव्यक्तायां वाचि--अस्पष्टभाषणे । म्लेच्छति--अस्पष्टं भाषते । म्लेच्छ:--अस्पष्टम् ।
५३. लछि लाछि लक्षणे--चिह्ने । लञ्छति--परिचिनोति । लञ्छनम्--चिह्नम् । लाञ्छति--लक्षयति । लाञ्छनम्--चिह्नम् , लक्षणम् ।
५४. वाछि इच्छायाम--कामनायाम् । वाञ्छति--कामयते । वाञ्छा--कामना।
५५. आछि आयामे--पादप्रसारणे । आञ्छति--पादावग्रे प्रसारयति । आञ्छा--पादप्रसारणम् ।
५६. ह्रीच्छ लज्जायाम्--ह्रीच्छति--लज्जते । ह्रीच्छा--लज्जा ।
५७. हूर्च्छा कौटिल्ये --कुटिलतायां विप्रलम्भने । हूर्च्छति--विप्रलम्भते । हूर्च्छा--विप्रलम्भनम् (कौटिल्यम् )।
५८. मूर्च्छा मोहसमुच्छ्राययोः--विस्मरणे, मूर्च्छने । मूर्च्छति--विस्मरति । मूर्च्छा--विस्मरणम् ।
५९. कच्छ धारणे--सहने । कच्छति--सहते (धारयति )। कच्छा--सहनम् । कच्छपः--कूर्मः ।
६०. स्फूर्च्छा विस्मृतौ--विस्मरणे । स्फूर्च्छति--विस्मरति । स्फूर्छा--विस्मरणम् । । ६१. युछि प्रमादे--विप्रलम्भने, प्रमादे । युञ्छति--विप्रलम्भितो भवति । युञ्छा--विप्रलम्भनम् ।
६२. उछि उञ्छे ----कणश आदाने। उञ्छति--कणश आदत्ते । उञ्छा--एकैकश आदानम् ।
६३. उच्छी विपाशे--बन्धनत्रोटने। उच्छति--त्रोटयति ( रज्जुम् )। उच्छा--खण्डनम् ।
11
६४. धृज धुज ध्रज धज ध्वज वज व्रज षज गतौ--गत्याम् । धुजति1 –– चलति । धृजति, ध्रजति, धजति, वजति, व्रजति, सजति––गच्छति चलति । धृजः, धुजः, धजः, ध्रजः, ध्वजः, वजः, व्रजः, सजः––एतेऽष्टौ गमने ।
६५. अज क्षेपणे च--स्थापने गमने च । अजति––स्थापयति गच्छति । अजः––क्रीडनम् (?, बर्करः)।
६६. अर्ज षर्ज अर्जने--अलब्धस्य लाभे। अर्जति––अलब्धं लभते । अर्जनम्––लम्भनम् । सर्जति––प्राप्नोति । सर्जनम्––प्रापणम् ।
६७. तर्ज व्यथने--व्यसने । तर्जति––दुःखयति । तर्जः––पीडा ।
६८. खर्ज मार्जने च--शोधने, पीडायां च । खर्जति––शोधयति, पीडितो भवति पीडया । खर्जृः––पीडा, खर्जूरम् ।
६९. खज मन्थे--मथने । खजति––मन्थति । खजिः––मथनम् ।
७०. खजि गतिवैकल्ये—निन्दायाम्2 । खञ्जति––निन्दयति । खञ्जः––निन्दा।
७१. एजृ कम्पने--चलने । एजति––कम्पते । एजनम्––कम्पनम् ।
७२. स्फूर्जा वज्रनिर्घोषे--देवशब्दे ( विद्युद्ध्वनौ )। स्फूर्जति––गर्जति । स्फूर्जतुः––गर्जनम् ।
७३. क्षी क्षये--नाशे अल्पीभावे । क्षयति––क्षीणो भवति । क्षयः––क्षीणम् ।
७४. कीज कूज कुजि अव्यक्ते शब्दे--अस्पष्टध्वनौ। कीजति––अस्पष्टं वदति । कीजक:––अस्पष्टवक्ता । कूजति––शब्दयति । कूजकः––पिकः । कुञ्जति––शब्दं करोति । कुञ्जरः––हस्ती ।
७५. लज लजि लाज लाजि तर्ज भर्त्सने--निन्दायां गालिप्रदाने । लजति––गालिं ददाति, निन्दयति । लजा––निन्दा । लञ्जति––आकर्षति । लञ्जा––वेश्या । लाजति––भृज्जति3 । लाजा––भृष्टं धान्यम् । लाञ्जति––विप्रलभते ।

टिप्पणी


१. उदाहरणेषु क्रमव्यत्यासे, 'धुजति, धृजति, धृजः, धुजः' इत्येतेषु गुणाभावे च कारणं मृग्यम् ।
२. अत्र 'निन्दितगतौ। खजति––वैकल्यैन गच्छति। खञ्जः––पादविकल' इति निर्देशो युक्तः प्रतिभाति ।
३. अन्यत्र 'लाज लाजि भर्जने च' इत्यपि पठ्यते । भर्त्सनस्य वा लाक्षणिकोऽयमर्थो ज्ञेयः।

12
लाञ्जः––व्यभिचारी । तर्जति––आकर्षति1 । तर्जनम्––आकर्षणम्1 ।
७६. जज जजि युद्धे––संग्रामे। जजति––उपद्रवं करोति । जाजिः––'जायफल' इत्येवं प्रसिद्ध द्रव्यम् । जञ्जति––भ्रमति । जञ्जा––अस्पृश्यः।
७७. तुज हिंसायाम्––मारणे। तोजति––मारयति । तोजा––वस्त्रविशेषः ।
७८. तुजि चलने च--मारणे गमने च । तुञ्जति––बन्धयति । तुञ्जा (?)।
७९. गज गजि गुज गुजि गृज गृजि मुज मुजि म्रुज म्रुजि गर्ज शब्दे--शब्दने । गजति––रोदिति । गजुः––कङ्कणम् (चूड़ी इति प्रसिद्धं द्रव्यम् ) गञ्जति––भ्रमति । गञ्जा––मादकं द्रव्यम् । गोञ्जति––कृच्छ्रे पतति । गोजुः––कृच्छ्रम् । गुञ्जति––आकर्षति । गुञ्जा––कञ्जनी (?)। गृञ्जति––मुखेन सीत्कारं करोति ('सीटी बजाता है। इति भाषायाम् )। गृञ्जः––सीत्कारवत् (सीटी) शब्दकर्ता पक्षिविशेषः । गृजति––(?)। गृजः––पक्षिविशेषः । मोजति २––हर्षेणोन्मत्तो भवति । मोजुः––सन्तोषः । मुञ्जति––संपीडयति । मुञ्जिः––बालकः। म्रुजति––निन्दयति । म्रुजा––निन्दा । म्रुञ्जति––गालिं वदति । म्रुञ्जा––गालिः। गर्जति––शब्दं करोति । गर्जनम्––ध्वनिविशेषः (गर्जना)।
८०. शौडृ गर्वे--अभिमाने । शौण्डति––गर्वति ( = अभिमत्तो भवति )। शौण्डीरः––गर्वी।
८१. यौण्डृ सम्बन्धे––यौण्डति––स्पृशति, संबद्धो भवति । यौण्डीरः––स्प्रष्टा।
८२. मेडृ म्रेडृ उन्मादने--मानसव्याधौ। मेडति, म्रेडति––उन्मादयुक्तो भवति । मेडीरः, म्रेडीरः––उन्मत्तः।
८३. म्रडृ म्लडृ अनादरे--अपमाने । म्रडति––अनादरं करोति । म्रडीरः––अनादरः । म्लडति––मूर्खी करोति । म्लडीरः––मूर्खः ।
८४. कट वर्षावरणयोः--ग्रीष्मे वर्षायां च । कटति––वर्षति पतति वा । कटाहः––महत् पात्रम् ('कड़ाह' इति प्रसिद्धम् )।
८५. रट परिभाषणे––ध्वनौ। रटति––ध्वनति, शब्दयति । राटा––सूत्रनिर्माणयन्त्रम् ('चरखा' इति प्रसिद्धम् )। राटाल:––जलाकर्षणयन्त्रम् ।
८६. लट बाल्ये च -- बालक्रियायाम् , अव्यक्तध्वनौ च । लटति––अव्यक्तं

टिप्पणी


१. भर्त्सयति, भर्त्सनम् इति युक्तः पाठः स्यात् ।
२. अस्य घञन्तस्य 'मोज' इत्यस्य "मौज" इत्यपभ्रंशो ज्ञेयः ।

13
शब्दयति ('तुतलाता है' इति भाषायाम् ), क्रीडति । लाटम्––बाल्यावस्था, बालस्य अव्यक्तध्वनिश्च । लाटः––नगरम् ।
८७. शट निवासे--आवासे आच्छादने च1। शटति––आच्छादयति । शाटी––लघूपवस्त्रम् ('रूमाल' इति प्रसिद्धम् )। शाटः––(?) (धौतवस्त्रम्––'धोती' इति प्रसिद्धम् )।
८८. रुट विशरणे गत्यवसादनेषु--छेदने गमने दुःखे च । रुटति––दुःख्यति । रोटि:––दीर्घा यष्टिः । रुट्टिः––रोटिका । रुट्टु––दुःखम् ।
८९. वट वेष्टने--परित आवेष्टने ('लपेटना' इत्यर्थे)। वटति––वेष्टयति । वटः––न्यग्रोधः । वटुः––बालकः । वाट:––परिवेष्टनम् । वाटी––मार्गः।
९०. खिट उत्त्रासने--भये । खेटति––बिभेति । खेटकः––रिङ्गिता ( रेंगने वाला)।
९१. षिट शिट अनादरे--अपमाने । सेटति––अनादरं करोति, गालिं ददाति । सेट:––वीथी ('गाली' इति भाषायाम् )। शिटति––अपमानं करोति । शेटः ( अनादरः ?)।
९२. जट मट षट सङ्घाते--संश्लेषे । जटति––संश्लिष्यति । जटा––('जटा' इत्येव भाषायां प्रसिद्धा)। मटति––उपद्रवति । मटा––जटा । सटति––समीपमागच्छति ( 'सटना' इति भाषायाम् ) । सटा––जटा । ।
९३. तट भट भट्ट उच्छ्राये––भृतककर्मणि ('मजदूरी' इति भाषायाम् ) तटति––तडागं गच्छति । ताटः –– तडागः । भटति––भृतकं करोति । भटः––वीरः । भटति (?, भट्टति) प्रशंसति । भटः (?, भट्टः) जनसम्मर्दः ।
९४. बट सेवायाम् –--सेवने । बण्टति२––सेवयति । बण्ट:२--–सेवकः ।
९५. भाण्ड अव्यक्तायां वाचि––अस्पष्टवाक्ये । भाण्डति––अव्यक्तमुच्चारयति । भाण्डीर:––संस्कृताभासवाक्यम् ।
९६. तुटि स्तेये––चौर्ये । तुण्टति––चोरयति । तुण्ट:––चौरः।

टिप्पणी


१. निवास इति रूपं निपूर्वकस्य वसतेर्वस्तेश्चोभयोः समानमिति कृत्वा उभयार्थौ निर्दिष्टौ।
२. धातौ 'बट' इति निरनुबन्धकः, उदाहरणयोः सनुमोः पाठः, एकतरत्र पाठभ्रंशो ज्ञेयः ।

14
९७. कुटि गतिवैकल्ये––स्खलितगमने ('लंगड़ाना' इति भाषायाम् )। कुण्टति––स्खलति । कुण्टः––विकृतपात् ।
९८. मटि दाहे–– ज्वलने1 । मण्टति––ज्वलति । मण्ट:––ज्वलनम् ।
९९, सुटि वक्रे––कौटिल्ये। सुण्टति––कुटिलो भवति । सुण्ट:––पृष्ठम् (शरीरस्य मध्यभागः )।
१०. कटि वेदनायाम्––पीडायाम् । कण्टति––पीडितो भवति । कण्टक:--(कांटा इति प्रसिद्धम् )।
१०१. हिटि शोषणे––शुष्कीभावे । हिण्टति––शुष्यति । हिण्टा––कुक्कुटी, मृल्लोष्टम् ।
१०२. खट काङ्क्षायाम्--इच्छायाम् । खटति––इच्छति । खट्वा––इच्छा। खट्वा––तल्पम् ।
१०३. मिटि प्रहरणे--प्रहारे । मिण्टति––प्रहरति । मिण्टा––प्रहारः।
१०४. नट नृतौ––नृत्ये । नटति––नृत्यं करोति । नटकः––नर्तकः ।
१०५. पिट शब्दसङ्घातयोः––ध्वनौ । पेटति––गायति । पेटकः––गायकः पेटिः––पेटिका ( 'सन्दूक' इति भाषायाम् )।
१०६. हट दीप्तौ––प्रकाशे । हटति––प्रकाशते । हाटकम्––सुवर्णम् । हाटुः––वीयम् ।
१०७. वट अवयवे––(अवयवक्रियायाम् )। वटति––संश्लेषयति ('बॉटना--पीसना' इति भाषायाम् ) । वटा––जटा।
१०८. लुट विलोडने--मन्थनक्रियाम् । [लोटति––मन्थयति । ] लोटुः--जनसम्मर्दः ।
१०९. चट चिट चुट प्रैष्ये माने च––मापने प्रेषणे च । चटति––प्रेषति । चाटुः––वाचालः। चाटिक:––( 'चिमगादड़' इति प्रसिद्धः) । चोटति––परिमापयति । चाटुः––वितस्तम् । चेटति––शूर्पेण निष्पवनक्रियां करोति ( 'फटकना' इति भाषायाम् ) । चेटः––शूर्पम् । चेटी––दासी।
११०. विट शब्दे-- हास्यशब्दे । वेटति––हसति । विटः––विटनामा पुरुषः (विदूषक इति प्रसिद्धः)।

टिप्पणी


१. ईर्ष्यायां वा । तदा मण्टति––ईर्ष्यति, मण्ट:––ईर्ष्या ।

15
१११. बिट बिड आक्रोशे––रतिविषयके शब्दे । बेटति––रतिविषयिकां वार्तां करोति । बेडति––वार्तां करोति । बिडालः––मार्जारः।
११२. घटि निर्णये––निश्चये। घण्टति––निश्चिनोति ( निर्णयं करोति )। निघण्टुः––निर्णयः । घण्टा––( 'घण्टा' इत्येव भाषायां प्रसिद्धः )। घण्टिः--कर्णाभरणम् ।
११३. अट पट इट ईट किट कीट कुट कूट गुट उट इ गतौ--गमने । अटति––भ्रमति क्रीडयति । आट:––क्रीडनम् । पटति––आच्छादयति । पट:--वस्त्रम् । एटति––प्रक्षिपति । एटु:––प्रक्षेपणम् । एटति1––ताडयति । ईटि:––अस्त्रविशेषः ('भाला' इति प्रसिद्धः) । केटति––चलति । किटः (?) । केटति––क्रुध्यति । कीट:––क्षुद्रप्राणिः। कोटति––अङ्कुरितो भवति । कुटजः, कुटः––वृक्षविशेषः। कुटी––पर्णमय आवासः । कोटति1––अङ्कुरितो भवति । कोट:––शिखरपाषाणम् । कोटिः––शतलक्षसंख्या। ओटति––चलति । उटः, उटजः––पर्णमयी कुटी । एतेति (?, अयति )––प्रेरयति । इहि२–--कामः ।
११४. घरट्ट हिंसायाम्––मारणे । घरट्टति––मारयति । घरट्टकः––घातकः । घरटः (घरट्टः )––पेषणी ('चक्की' इति भाषायाम् )।
११५. रट्ट शकुने--रट्टति––जानाति । रटः (?, रट्टः)––ज्ञाता।
११६. मट्ट भूषायाम्––शृङ्गारे । मट्टति––भूषयति । मटनम् (?, मट्टनम्)--भूषणम् ।
११७. कुट्ट वैकल्ये––रूपान्तरे । कुट्टति––रूपान्तरितो भवति । कुट्टिमम् (?)।
११८. मुट्ट प्रमर्दने––उपकारे । मुट्टति––उपकरोति । मुट्टु––उपकारः ।
११९. चुट्ट अल्पीभावे––न्यूनतायाम् । चुट्टति––अल्पीभवति । चुट्टः--अल्पम् ।
१२०. घट्ट खण्डने--घट्टति––घनो ( 'कठोर' इति यावत् ) भवति । घटः (?, घट्टः)––घटः । घट्टिः--कठोरः (?)।

टिप्पणी


१. दीर्घोपधधातूनां पाणिनीयेन शास्त्रेण गुणो न भवति, इह तु ईट कीट कूट आदीनां एटति केटति कोटति इत्येवं रूपाणि प्रदश्यन्ते, तद्गुणविधायकं सूत्रं न वृत्तिकृता निर्दिष्टम् ।
२. एतेन 'इ' स्थाने 'इह' धातुरिति विज्ञायते । तथा सति 'एतेति' स्थाने 'एहति' रूपं साधु स्यात् ।

16
१२१. हट्ट निवासे––व्यावहारिकगृहे ( = आपणे ) हट्टति––व्यवहरति ( व्यापारं करोति)। हट्टः––आपणम् ।
१२२. पिट्ट चलने––कूर्दने । पिट्टति––चलति । पिट्टः––पक्षी ।
१२३. हिट्ट बन्धने––हिट्टति––बन्धयति । हिट्टः––(?)।
१२४. किट्ट चूर्णे––चूर्णीभावे । किट्टति––चूर्णयति । किट्टम्––चूर्णम् ।
१२५. पट्ट भद्रासने––भद्रपीठे (मङ्गलपीठे )। पट्टति––शुभासन उपविशति । पट्टम्––पट्टाभिषेकः ।
१२६. अट्ट मञ्चिकायाम्––मञ्चक्रियायाम् । अट्टति––मञ्चं करोति । अट्टम्--मञ्चः, खट्वा ।
१२७. वटि विभाजने––विभागक्रियायाम् । वण्टति––विभजति । वण्टकम्––महानसः (पाकगृहम् )।
१२८. रुटि लुटि स्तेये––चौर्ये । रुण्टति, लुण्टति––चोरयति । रुण्टाकः, लुण्टाकः––चौरः।
१२९. स्फुटिर् विशरणे विकासे च––मारणे विकासे च । स्फोटति––मारयति, विकसितो भवति (पुष्पम् )। स्फोटकम्––विभजनम् । स्फुटितम्--विकसितम्।
१३०. वट्ठ सेचने––संघर्षे ('रगड़ना'१ भाषायाम् ) । वट्ठति––संघर्षयति । वट्ठः––खण्डः ( उपलम् )। वट्ठिः (?)। वट्ठा––उष्ट्रः ।
१३१. पठ व्यक्तायां वाचि––व्यक्तवचने । पठति––अधीते । पाठः––पठितुं योग्योंऽशः । पाठकः––अध्येता । पठनम्––अध्ययनम् ।
१३२. वठ स्थौल्ये––दैर्घ्ये ह्रस्वत्वे (?) च । वठति––दीर्घो ह्रस्वो वा भवति ।
१३३. कुठ छेदने––कर्तने । कोठति––छिनत्ति । कुठारः––परशुः ।
१३४. जठ धारणे––जठति––धारयति वा । जठरः––उदरम् ।
१३५. मठ निवासे––निवासक्रियायाम् । मठति––निवसति । मठः--निवासस्थानम् ।

टिप्पणी


१. दृषदोपलाभ्यां पेषणम् ।

17
१३६. कठ कृच्छ्रजीवने--कष्टमये जीवने। कठति––कष्टं प्राप्नोति । कठोरः––कष्टम् । कठारः––असिः ।
१३७. रठ परिभाषणे––निन्दात्मके वाक्ये । रठति––निन्दयति। रठः--निन्दकः।
१३८. हठ बलात्कारे--प्रसह्य कर्मणि। हठति––प्रसहते । हठ––प्रसहः (बलात्कारः)।
१३९. रुठ लुठ उपघाते––ताडने । रोठति––मारयति । रुठः––हिंसा । लोठति––ताडयति । लुठः––ताडनम् ।
१४०. पिठ हिंसासंक्लेशयोः––मारणे, पीडने च । पेठति––मारयति क्लेशयति । पिठरम्––घातकः ।
१४१. शठ कैतवे च––द्यूते स्पर्धायां च । शठति––[ अक्षैर् ] दीव्यति । शठः––कितवः । शठा––अनृतम् ।
१४२. शुठ गतप्रतिघाते––अपराधे। शोठति––अपराध्यति । शुठः––अपराधकः । शुटा––अपराधनम् ।
१४३. पिठ स्थितौ--आसीदने । पिठति––आसीदति । पिठकः––आसीदनम् ।
१४४. कुठि गुठि आलस्ये च––आलस्ये तृषायां3 च । कुण्ठति––गतिहीनो भवति । कुण्ठः––आलस्ययुक्तः । गुण्ठति––तृष्यति । गुण्ठः––तृषा ।
१४५. मिठि व्यभिचारे–– व्यभिचारक्रियायाम् । मिण्ठति––व्यभिचरति । मिण्ठः––व्यभिचारी।
१४६. कठि गिलने निगरणे । कण्ठति––निगरति । कण्ठः––गलः ।
१४७. शुठि शोषणे––शुष्कीभावे । शुण्ठति––शुष्यति । शुण्ठिः––विश्वभेषजी ( 'सोंठ' इति भाषायां प्रसिद्धं द्रव्यम् )।
१४८. रुठि लुठि गतौ––गमने । रुण्ठति––धावति । रुण्ठाकः––धावकः। लुण्ठति––कुर्दते । लुण्ठाकः––कूर्दकः ।

टिप्पणी


१. चाद्धिंसाक्लेशयोः स्यात् । स्पर्धायाः कुतः समावेश इति न जानीमः।
२. पिठति, पिठकः उभयत्र गुणाभावः कथम् ? यद्वा 'पीठ स्थितौ' पाठः स्यात्, 'पीठः' इति प्रयोगस्य दर्शनात् । पूर्वत्र ( १४० सूत्रे ) पिठधातोः पाठाच्च ।
३. चात् तृषायाः संग्रह कथम् ?

18
१४९. क्रीडृ विहारे––खेलने । क्रीडति––खेलति । क्रीडा––खेलनक्रिया।
१५०. अड उद्यमे––कार्ये । अडति––उद्योगं करोति । आडुः––बर्करः । आडः––कर्मशीलः; उद्योगी।
१५१. लड विलासे––संतोषे प्रसन्नतायां वा । लडति––प्रसन्नो भवति । लाडः––संतोषी । लडः––प्रसन्नता ।
१५२. कड मदे-- गर्वे । कडति––गर्वति, अभिमत्तो भवति । कडः––मदः । काडः––( ? ) । काडुः––जंगलम् ।
१५३. गुड माधुर्ये--गोडति––मधुरो भवति । गुडम्––गुड़नाम्ना प्रसिद्धं द्रव्यम् ।
१५४. गोडृ बन्धने --गोडति––बन्धयति । गोडा––भित्तिः ।
१५५. पीड व्यथायाम्––संक्लेशे। पीडति––दुःखयति । पीडा––दुःखम् ।
१५६. चुड्ड हावकरणे––मैथुनसंभ्रमे । चुड्डति––मैथुनं करोति । चुड्डम् --मैथुनसंभ्रमः।
१५७. अड्डु अभियोगे––रहस्ये। अड्डति––रहस्यं भवति । अड्डम्––रहस्यम् ।
१५८. कड्ड कार्कश्ये––कठोरव्यवहारे । कड्डति––कठोरं व्यवहरति । कड्डायः––कठोरः । कड्डी––तृणम् ।
१५९. गड्ड वदनैकदेशे––मुखैकदेशे चिबुके । गड्डति––कूर्चमुत्पद्यते ('डाढ़ी आती है' इति भाषायाम् ) । गड्डम्––चिबुकम् । गड्डा––कन्दमूलम् ।
१६०. मड्ड उच्चैर्ध्वनौ––उच्चैश्शब्दे । मड्डति––उच्चैर्ध्वनति । मड्डः मूर्खः। मड्डः––वाद्यविशेषः। मड्डिः––मुखस्थमन्नम् ('कौर' इति भाषायाम् )। मड्डा––मूर्खः ।
१६१. वड्डु खनने––खननक्रियायाम् । वड्डति––खनति । वड्डः––खनकः । वड्डुः––(?) । वड्डिः––(?) । वड्डनम्––(?)।
१६२. मुड्ड सेचने––घर्षणे । मुड्डति––घर्षति । मुड्डः––वटुः । मुड्डिः––गुदमध्यभागः।
१६३. दड्ड धारणे--सहने । दड्डति––सहते । दड्डः––बुद्धिहीनः । दड्डः(?)।
19
१६४. पड्ड मदे––गर्वे। पड्डति––गर्वते । पड्डः1––स्थूलः पुरुषः । पड्डा1--नवयौवना स्त्री।
१६५. बुड्डु उद्गमने––उपरि गमने । बुड्डति––उपरि आगच्छति । बुड्डा२--वृद्धः।
१६६. मडि भूषायाम्––शृङ्गारे । मण्डति––विभूषति । मण्डनम्––भूषणम् । मण्डलम्––'मण्डल' इत्येव प्रसिद्धम् । मण्डूकः––भेकः।
१६७. कुडि वैकल्ये––जातिभ्रंशे । कुण्डति––जात्या भ्रंशते । कुण्डः--जारजः । कुण्डलम्––कर्णाभरणम् । कुण्डम्––मार्तिकं द्रव्यम् ( 'कूडा' इति प्रसिद्धम् ), तडागो वा । कुण्डा––लघुपर्वतम् ( छोटी पहाड़ी)।
१६८. पडि धारणे––सहने । पण्डात––सहते । पण्डा––बुद्धिः। पण्डितः--बुद्धिमान् ।
१६९. पिडि धारण3––सहने । पिण्डति––सहते । पिण्डम्––सङ्घातः ।
१७०. अडि आवरणे––आच्छादने । अण्डति––आच्छादितो भवति । अण्डः––प्राण्यवयवः । अण्डुः––वृक्षविशेषः ।
१७१. भडि कुत्सायाम्––निन्दायाम् । भण्डति––निन्दति । भण्डः--नर्तकः । भण्डुः––लज्जा।
१७२. भाडि आधारे––आधारक्रियायाम् । भाण्डति––आधरति । भाण्डीरम्––विलासद्रव्यम् । भाण्डम्––घटः ।
१७३. लडि कोपे––क्रोधे । लण्डति––क्रुध्यति । लण्ड:––क्रोधी। लण्डा--क्रोधिनी । लण्डी––क्रोधी।
१७४. चडि तैक्ष्ण्ये––दुष्टतायाम् । चण्डति––दौष्ट्यमाचरति । चण्डः--दुष्टः । चण्डी––दुष्टा । चण्डा––पापिनी।
१७५. रडि व्यभिचारे––रण्डति––व्यभिचरति । रण्डा––व्यभिचारिणी ।
१७६. एरडि स्नेहने––( तैलक्रियायाम् )। एरण्डति––स्नेहनं करोति । (चिकना करता है )। एरण्डः––स्नेहनद्रव्यविशेषः ।

टिप्पणी


१. अस्यैवापभ्रंशः 'पट्ठा' इति भाषायाम् ।
२. अस्यैव 'बुड्डिरो' 'बुढ्ढा' इति अपभ्रंशौ वृद्धार्थे ।
३. पूर्वत्र 'धारणे' अर्थस्योक्तत्वात् पुनः 'धारणे' पाठोऽनर्थकः । 'सङ्घाते' इति पाणिन्यादयः पठन्ति––'पिण्डति सङ्घातभावं गच्छति' इत्यर्थो ज्ञेयः ।

20
१७७. कडि मांसपृथुले––मांसपेश्याम् । कण्डति––मांसेन प्रथते । कण्डम्--मांसपेशी । कण्डूः––रोगविशेषः ('खुजली' इति प्रसिद्धः)।
१७८. काडि परिच्छेदे––विभाजने । काण्डति––विभजति । काण्डः--विभागः।
१७९. तडि समूहे--सङ्घाते। तण्डति––समर्दनं ('भीड़' इति भाषायाम् ) भवति । तण्डुः––आकाशः । तण्डः––समूहः ।
१८०. खडि रुडि मुडि खण्डने––अवयवविभागे। खण्डति––निकृन्तति (विभजति)। खण्डः––विभागः। रुण्डति––निकृन्तति । रुण्डः––खण्डः । मुण्डति––केशान् निकृन्तति, मुण्डयति । मुण्डः––मुण्डितः । मुण्डा––विधवा । मुण्डिः––मुण्डितः।
१८१. तुडि भक्षणे––भक्षणक्रियायाम् । तुण्डति––खादति । तुण्डम्--मुखम् । तुण्डः––चौरः । तुण्डा––चौरी । तुण्डु––खण्डम् । ।
१८२. गडि वदनैकदेशे––मुखैकावयवे । गण्डति––साहाय्यं करोति । गण्डम्––कपोलः। गण्ड:––अधिपतिः । गण्डम्––पापम् । गण्डकिः (?, की )--गण्डकनाम्ना प्रसिद्धा नदी । गण्डूषम्––मुखस्थं जलम् । गण्डी––छेदः । गण्डुः––पुरुषः ।
१८३. हडि हुडि उडि दडि डुडि डिडि चुडि इडि पाषडि पडि (?, षडि) शडि शिडि शुडि गुडि पुडि हिंसागत्योः––हिंसायां गत्यां च । हण्डति––मारयति । हण्डः––राक्षसः। हण्डिः ––पात्र विशेषः । हण्डः––हरिद्रारागः । हण्डा––दासी। हुण्डति––निकृन्तति । हुण्डः––कृष्णः । हुण्डिः––अपजयः ( पराजयः)। हुण्डा--गर्तः । उण्डति––छिनत्ति । उण्डः––मत्कुणः ('खटमल' इति भाषायाम् )। उण्डुकम्––द्यूतम् । उण्डलिका––क्रिमिविशेषः । दण्डति--ताडयति । दण्डम्––दण्डम् ('डण्डा' इति भाषायाम् ), सर्वस्वापहरणम् , आक्रमणम् । दण्डा––माला । दण्डी––यमः । डुण्डति––निकृन्तति । डुण्डः––कूर्दनम् । डुण्डुः--जलचरपक्षिविशेषः । डुण्डुभः––पक्षी। डिण्डति––आह्वयति । डिण्डिमः--आघोषविशेषः ('डूंडी' इति भाषायाम् )। डिण्डिः––शिवयोगी। चुण्डति--अन्तर्गच्छति । चुण्डः––मूषकः । इण्डति––बन्धयति । इण्डा––माला । पाषण्डति--पतति । पाषण्डः1 ––पतितः । षण्डति––पुँस्त्वहीनो भवति । षण्डः––नपुंसकः ।

टिप्पणी


१. अस्मादेव ताच्छील्यार्थे णिनिः ( इनिः वा ) पाषण्डी। केचन पाश्चात्यमतानुयायिनः पाषण्डधातोः णिनिप्रत्ययरूपमबुद्ध्वा ब्रुवते––यदा कर्तृवाचकः पाषण्डशब्दो

21
शण्डति––शोकं करोति । शण्डः––नपुंसकः । शिण्डति––आसेचति । शिण्डः --महागर्तः। शुण्डति––वर्तयति । शुण्डः––हस्ती। शुण्डालः––शुण्डः ( 'सूंड' इति भाषायाम् )। गुण्ठति––अवतरति । गुण्ठि––गर्तः, तडागः। गुण्डः––पुरुषः । गुण्डार:––( ?)। पुण्डति––धौर्त्यम् ( 'गुण्डापन इति भाषायाम ) आचरति । पुण्ड्रम्––पुण्ड्ररेखा । पुण्डः––धूर्तः । पुण्डि––रुद्राक्षशाकम् ।
१८४. गिडि जन्मनि––जनने । गिण्डति––उत्पद्यते । गिण्डा––जन्म (?)। गिण्डि––पात्रविशेषः ( 'लोटा' इति भाषायाम् )।
१८५. भिडि हिंसायाम्--मारणे। भिण्डति––मारयति । भिण्डितालः––आयुधविशेषः।
१८६. निड गूड निवासे––गृहे । नेडति––निवसति । नीडम्1––वयसामावासः ( 'घोंसला' इति प्रसिद्धम् )। गोडति2––निवसति । गूडम्––निवासस्थानम् । गूड्डुः––निवासस्थानम् (नीडम् )।
१८७. दृढ धारणे––सहने । दर्ढति––सहते । दृढम्––बलवत् ।
१८८. वृढ पालने––पालने––पोषणे । वर्ढति––पालयति । वृढः––पोषकः ।
१८९. गाढ बाढ तीव्रगतौ––शीघ्रगत्याम् । गाढति, बाढति––शीघ्रं चलति । गाढम् , बाढम्––शीघ्रगमनम् ।
१९०. ढढि शब्दे––ध्वनौ । ढण्ढति––शब्दयति । ढण्ढः3 ––शब्दः ।
१९१. दुढि अन्वेषणे––अनुसन्धाने । दुण्ढति––अन्वेषयति । ढुण्ढिः--काशीविनायकः।
१९२. षडि शिखडि निर्बीजे ४––सन्ततिहीने । षण्डति––सन्ततिरहितो

टिप्पणी

{{{1}}}

22
भवति । षण्ड:--सन्तानहीनः । शिखण्डति--निष्फलो भवति । शिखण्डी--शिखण्डी [ एतन्नामा क्षत्रियः] ।
१९३. तुडि भक्षणे1--खादने । तुण्डति--अत्ति । तुण्डम्--मुखम् । तुण्डुः--चौर्येण भक्षणम् । तुण्ड:--चौरः । तुण्डा--चौरी ।
१९४. गुपू रक्षणे--पालने । गोपायति2--रक्षति । गोपः--रक्षकः ।
१९५. तप धूप सन्तापे--दुःखे । तपति--दुःखितो भवति, प्रकाशयति वा । तपनः--सूर्यः । तापनी--नदी। तापः--घर्मः, दुःखम् । तपः--कायकष्टम् । धूपायति2--आतपं करोति । धूपः--आतपः।
१९६. रप लप जल्प व्यक्तायां वाचि--विस्पष्टवाक्ये। रपति--वदति । रप्ता--भाषा (?)। रपणः--सुवर्णम् । लपति--कथयति । लपनम्--दुःखप्रकाशनम् । जल्पति--वदति । जल्पकः--जल्पी (बहुभाषी)।
१९७. जप मानसे च -- मानसिकभाषणे । जपति--मनसोच्चारयति । जपः--मानसमुच्चारणम् ।
१९८. चप सान्त्वने--सन्तुष्टीकरणे । चपति--सन्तुष्टो भवति । चापम्-- धनुः । चापा--कटम् ।
१९९. चुप जप (?, जुप) कुण्ठायां गतौ--शनैर्गतौ । चोपति, जोपति--शनैर्गच्छति । चोपः, जोपः--मन्दगतिः।
२००. जाप जूप आलस्ये--अलसीभावे तृषायां वा3 । जापति--तृष्यति । जापः--तृषितः । जापुः -- तृषा। जूपति--अलसो भवति । जूपः--अलसः । जू पुः -- आलस्यम् ।
२०१. तप (?, तुप) तुम्प त्रुप त्रुम्प तुफ तुम्फ त्रुफ त्रुम्फ ऋफ ऋम्फ (?, रुफ रुम्फ) रिफ रिम्फ षृभ षृम्भ भर्त्सनहिंसयोः -- निन्दायां हिंसने च । तोपति--मारयति । तोपः--घातकः ( अस्त्रविशेषः 'तोप' संज्ञकः ?) तोपु--वनम् । तुम्पति--दूषयति । तुम्पुरः--दूषकः । तुम्पः --गालिः । त्रोपति--(?)। त्रोफः (?)त्रोफणम् (?)। त्रुम्फति--मारयति । त्रुम्फ:--घातकः । त्रुम्फणम् -- हिंसनम् ।4 रोफति--मारयति । रोफः--मारकः । रोफणम्--हिंसनम् । रुम्फति –

टिप्पणी


१. पूर्वत्र १८१ सूत्रे पठ्यते, पुनः पाठो व्यर्थः ।
२. गोपायतिधूपायत्योरायः केनेति नोक्तम् ।
३. सूत्रं १४४ द्र० ।
४. इतोऽग्रे पाठभ्रंशः प्रतीयते ।

23
मारयति । रुम्फा--मारयिता । रुम्फणम्--हिंसा। रेफति--मारयति । रेफः--हिंसकः । रेफणम्--हिंसा। रिम्फति--हिंसयति । रिम्फः--हिंसकः । रिम्फणम् -- हिंसा। सर्भति--मारयति । सर्भः--मारयिता। सर्भणम्--हिंसनम् । सृम्भति--मारयति । सृम्भः--घातकः । सृम्भणम्--हिंसा ।
२८२. शुभ शुम्भ भाषणे--वचने। शोभति--वदति । शोभः--वाचालः । शुभम्--मङ्गलम् । शोभनम्--मङ्गलम् । शुम्भति--वदति । शुम्भ:--एतन्नामा राक्षसः ।
२०३. वफ रफ रफि पर्ब बर्ब मर्ब कर्व गर्व शर्व खर्व चर्व षधि जघि गुल्फ पृष गतौ--गत्याम् । वफति--गच्छति । वफः--नाभिदेशीयं मांसम् । रफति--चलति । रफः (?) । रम्फति (?)। रम्फः--कलहः । पर्बति--संपीडयति । पर्बन्--भोजनम् । बर्बति--चलति । बर्बन्--वायुः। मर्बति--रहस्यं गच्छति । मर्बन्--स्वल्पः प्रकाशः। कर्वति--आच्छादयति । कर्वन्--कृष्णत्वम् । गर्वति--अभिमत्तो भवति । गर्वः--मदः । खर्वति--ह्रस्वो भवति । खर्वः--वामनः ('बौना' इति भाषायाम् ) । सर्वति--कृत्स्नतां गच्छति । सर्वम्--कृत्स्नम् । चर्वति--दन्तैः पिंशयति ('चबाता है' इति भाषायाम् )। चर्वणम्--दन्तैः पेषणम् । सङ्घति--चलति । सङ्घः--समूहः । जङ्घति--उत्थापयति । जङ्घा--जघनम् । गुल्फति(घुटने के बल चलता है)। गुल्फः--विस्तारः। पर्षति--ऋजु भवति । पार्ष्णिः--मदः।
२०४. अर्व शर्व थर्व हिंसायाम--हिंसने । अर्वति--पद्भ्यां ताडयति । अर्वन्--घोटकः । शर्वति--मारयति । शर्वः--शिवः। जापकान् न थर्वति = जपकर्तृन् न हिंसयति--अथर्वन्-- वेदः।
२०५. लुबि रुबि तुबि तबि कबि बिबि अबि णिबि लबि रबि शिबि णबि शबि चुबि चुब चबि चब हिबि षुबि जृबि हेरबि दाळिबि रोलबि ष्टबि ष्टब ष्टुबि टबि डबि कूबि कडबि डुबि ताबि हबि नुणुबि मर्दने -- मर्दनक्रियायाम् । लुम्बति--(?) । लुम्बः (? ) । रुम्बति--मिश्रयति (?) रुम्बः--मिश्रणम् । तुम्बति--विकसति ( महद् भवति )। तुम्बा--अलाबूः ('तूँबा' इति प्रसिद्धः)। तुम्बुः--तडागजलरन्ध्रः। तुम्बिः--भृङ्गः । तुम्बुरः--वाद्यविशेषः (तंबूरा' इति भाषायाम् ) । तम्बति--निवसति । तम्बः--गृहम् । तम्बुः--राजगृहम्

टिप्पणी


१. पवर्गीयान्तेषु अन्तस्थान्तान् पठन् बवयोरभेदं द्योतयन् स्वस्य बाङ्गत्वं बोधयति धातुसूत्रकारः । काशकृत्स्नधातुपाठानुकर्तारः कातन्त्रकृच्चन्द्राचार्यादयोऽपि बङ्गदेशीया एव ।

24
('तम्बू' इति भाषायां प्रसिद्धम् ?)। तम्बाळि:--भाण्डम् । तम्बूलम्-- (?) तम्बूरा--वाद्यविशेषः । ताम्बूली--तम्बूलम् । कम्बति--विजयते । कम्बी--दर्विः ( कड़छी इति भाषायाम् ) कम्बु:--शङ्खम् । कम्बल:--सर्पः, कम्बलं वा। बिम्बति--निवसति । बिम्बः--प्रतिच्छाया । अम्बति--वदति । अम्बः, अम्बकः--पिता । अम्बा, अम्बिका--माता । अम्बु--जलम् । अम्बिलम्--अम्लं जलम् । अम्बिलि:--( ?)। अम्बाला--देवगणिका, वेश्या । अम्बाडा--वेश्या । अम्बष्ठः--नाविकः । निम्बति--अम्ली भवति । निम्बा--जम्बीरम् ('नींबू' इति प्रसिद्धम् )। निम्बः--मधुरनिम्वृक्षस्य पत्रम् । निम्बि--वृक्षविशेषः । निम्बुळिः--'नारङ्गी' इति प्रसिद्धा । लम्बति--अवरोहति ('लटकता है भाषायाम् )। लम्बा, लम्बिका--जिह्वा । लम्बनम् , लम्बाळम्-- मुखान्तर्गतोऽङ्गविशेषः । रम्बति--कम्पते । रम्बा--कम्पनम् । शिम्बति--सेवते । शिम्बः--सेवकः । शिम्बा--अवतारणम् , अवतरणम् । शिम्बी--सेविका। शिम्बिकः--सेवकः। शिम्बुळम्--नासिकामलम् । नम्बति--पूजयति । नम्बि--(?) । नम्बुः--विश्वासः। शम्बति--ताडयति । शम्बः--गर्जनम् । शम्बरः--राक्षसः । शम्बरम्--जलम् । चुम्बति--ओष्ठाभ्यां स्पृशति ('चूँबता है'), चुम्बुक:--मुखस्पर्शः । चुम्बनम्--ओष्ठाभ्यां स्पर्शनम् । चुबति1--दैन्येन प्रार्थयति । चुबुकम्--कूर्चम् । चम्बति--भयं दर्शयति । चम्बरः--चतुरः । चम्बुः--उदपात्रम् ('लोटा' इति प्रसिद्धम् ) । चम्बू--(?) चबति--निपातयति । चबकः--तडागः (?)। चबुक:--कशा ( 'चाबुक' इति भाषायाम् ।। हिम्बति--बिभेति । हिम्बः--कायरः । हिम्बा--कायरता । कोसम्बति2 --पृथिव्या उपरि कर्षति । कुसुम्बा--वृक्षविशेषः (कुसुम्भवृक्षः)। जृम्बति--अवलम्बति । जृम्बा--पञ्चमेढासुरस्य पत्नी। हेरम्बति--बहु भक्षयति । हेरम्बः--विनायकः । दाळिम्बति--हसति । दाळिम्बः--वृक्षविशेषः। रोलम्बति--जिघ्रति । रोलम्बः--भ्रमरः । आपस्तम्बति--जले उत्पद्यते । आपस्तम्बम्--जलान्तर्गतो घासः (तृणविशेषः), आपस्तम्बनामा ऋषिः ।3 ताम्बति--दीप्यते । ताम्बरम--ताम्रम् । हम्बति--मारयति । हम्बः--राक्षसः । स्तबति--स्तम्बयति (गुच्छयति)। स्तबकम्--आम्रगुच्छम् । कुस्तुम्बति--पृथिव्या उपरि गन्धयति । कुस्तुम्बरी--धान्यकम् । टम्बति--आकृषति । टम्बळ:--मत्कुणः । विडम्बति--अत्यन्तं भक्षयति । विडम्बः । कनलेन (?, नलेन ) कूबति--मैथुनं करोति नलकूबरः--कुबेरपुत्रः । कदम्बति –

टिप्पणी


१. गुणाभावः कथमिति न सूचितम् ।
२. 'कुसुम्बति' इति युक्तः पाठः ।
३. इतोऽग्रे पाठभ्रंशः, पाठस्य पौर्वापर्यदर्शनात् ।

25
मिश्रितं भवति । कदम्ब--मिश्रितम् , कदम्बनामा वृक्षविशेषः, सुगन्धं वा। डुम्बति--क्रीडति । डुम्ब:--क्रीडनम् । नुणुम्बति--श्रमं करोति । नुणुम्बः--कर्षकः ।
२०६. अणरण रिणि वण भण मण कण किण कुण खुण वण चण गुण गण गिण षण शण पण फण हण घण घृण तृण पुण पूण मुण पीण पिण जण झण हिरण इरण क्षण ढण ढुण घण क्वण इण ष्टूण1 ष्टन ष्टवन2 धन ध्वन श्वन वन चन शब्दे -- शब्दक्रियायाम् । अणति--ध्वनयति । अणिः--लघु द्रव्यम् । अणुः, अणिः--अल्पपरिधिद्रव्यम् । आणः--सौन्दर्यम् । अण्ण:--ज्येष्ठः । रणति--शब्दयति । रणः--युद्धम् । राणिः--साम्राज्ञी । रेणति--अल्पीभवति । रेणुः--चूर्णम् । रेणुका--एतन्नाम्नी स्त्री । वणति--वदति । वणुः--वाक्यम् । वाणी--सरस्वती । भणति--पाटयति । भाणिः--असिः । भाणः--नाटकभेदः । मणति--कथयति । मणः--कथनम् । मणिः--द्रव्यविशेषः । माणिः--वटुः, पुरुषचिह्नम् । मण्--मृत्तिका । कणति--[ 'आरा'शस्त्रेण ] कर्तयति । कणः--लघुद्रव्यम् । कणिमा--गिरिपर्व ('घाटी' नाम्ना प्रसिद्धम् )। काण:--एकाक्षः। कणु--चक्षुः । काणिः--पणम् ('पैसा' इति भाषायाम् ) | काणिका--उपहारः ('भेंट' इति भाषायाम् )। केणति--( "चिढ़ाता है' इति भाषायाम् ) । केणः--'चिढ़ाना' इति भाषायाम् । केणिः--सम्भारः ( 'सामान' इति भाषायाम् ) । किणः--वनिः । किण्णः--शब्दापनम् । कोणति--युध्यते ('झगड़ता है। इति भाषायाम् )। कोणाः--महिषः, वाद्यविशेषो वा । कुणिः--मदः । कुणपः--चाण्डालः । कुणः--(?) । कोणा--वीणायाः तारम् । खोणति--गर्जति । खोणः--सिंहः। खोणिः--ध्वनिः । खुण्णः--ध्वनिसमूहः ( 'चिल्लाहट' इति भाषायाम् ) । वणति3--जनसम्मर्दो ( भीड़) भवति । वणः--सम्मर्दः । चणति--दीप्यते । चणः--दीप्तिः ( 'चमक' इति भाषायाम् ) । चणकः--धान्यविशेषः ("चना' इति प्रसिद्धः)। गोणति--शब्दापयति । गुणः--गुणः । गुण--क्रमः । गणति--संख्यापयति । गणः--संख्यानम् (गणितम्) । गाणः--तिलादिसंपीडकम् । ( 'कोल्हू' इति भाषायाम् )। गण्--गणितम् । गणाः--शरणागताः । गेणति--मापयति । गेणुः--वितस्तम् । सणति--प्रकाशते । सणः--कीटविशेषः ('टिड्डी' इति प्रसिद्धम् ) । सणिः--शनिः (शनैश्चरः)। शणति--उपद्रवति । शणिः--शनिः । शणुः--पत्रम् । शाणिः--बुद्धिमान् । शाणः--कुठारः। शाणा--क्षुरादीनां धारोत्पादयितृ पाषाणम् ('शाण' इत्येव प्रसिद्धम्)। पणति--व्यवहरति । पणम्--( निष्कस्य

टिप्पणी


१. व्याख्याने 'स्थूणति स्थूणा' इत्यैवं निर्देशात् 'ष्ठूण' इत्येवमत्र पाठ अपेक्ष्यते । अपि च व्याख्याने 'इण ष्टूण' इत्येतयोः पूर्वापरं व्याख्यानमुपलभ्यते ।
२. व्याख्याने 'स्वनति स्वनः' इत्येवं दर्शनात् ष्वन इत्यैव युक्तः पाठः ।
३. अर्थभेदादस्मिन्नेव दण्डके पुनः पाठः ।

26
दशमो भागः)। पणिनः--मुनि विशेषः । पाणिनिः--पणिनः पुत्रः । पण्यम्--पणम्--विक्रयार्हं द्रव्यम् । फणति--आश्रयति । फणा--फालः। फणिन्--सर्पः । फणहः--वाद्यम् । हणति--उपद्रवति । हणः--निष्कस्य दशमो भागः । हाणः--उपद्रवः । हाणाहाणिः--कलहः । घोणति--जिघ्रति । घोणा--नासिका। घोणी--सूकरः। घुणः--कीटः। घण्--अण्डम । घर्णति--मत्तो भवति । घर्णः--सूकरः । घृणिः--सूर्यरश्मिः । घूर्णति--भ्रमति । घूर्णः--वक्रता ('घुमाव' इति भाषायाम् )। अर्णति--जलेन आर्द्री भवति । अर्णः --जलम् । ऋणम्--ऋणम् । क्षोणति--निवसति । क्षोणिः--पृथिवी । क्षुण्णः--पिष्टं द्रव्यम् । तर्णति--अङ्कुरितो भवति । तृणः--घासः । पोणति--संयुनक्ति । पुणम्--ऋजुः । पुण्यम्--सुकृत् । पूर्णति--पूर्णो भवति । पूर्णिमा--पौर्णमास्या । मोणति--सिञ्चति । मुणः--सिञ्चनम् । मणु:--गर्तः। पेणति1-- दुर्गन्धि भवति । पिणम्--(? पीणम् )--शवः । पेणति--श्वयति । पिणम् , पिण्याकम्--तिलादीनां तैलनिष्कासनेऽवशिष्टं 'खली' इति प्रसिद्धम् । जणति--जानाति । जणिः--ज्ञाता । जाणः--बुद्धिमान् । झणति--उत्सुको भवति । झणः--उत्सुकः । झाणः--स्वरः । हेरणति2--दीप्यते । हिरण:--रागः (रङ्ग' इति भाषायाम् )। हिरण्यम् -- हिरण्--सुवर्णम् । एरणति2 --(?)। इरणम् , इरण्यम्--ऊषरभूमिः (?) । क्षणति--दीप्यते । क्षणः--'क्षण' इत्येव प्रसिद्धः कालविशेषः । ढणति--एकत्रितो भवति । ढणति--नदति ( शब्दयति ) ढणः--घण्टा । ढोणति (?) । ढुणा (?)। क्वणति--वदति । क्वणः--प्रतिध्वनिः। स्थूणति3-- दीर्घो भवति । स्थूणा--वीणादण्डः । एणति4-- वदति । इणः--प्रतिध्वनिः। वीणा--वाद्यविशेषः वीणेत्येव प्रसिद्धः । स्तनति -- त्यजति ( रेचयति वा)। स्तनः--उरोजः । स्वनति--गर्जति । स्वनः--शब्दः । स्वानः--ध्वनिः । श्वनति5--गालिं भाषते । श्वानः --कुक्करः । धनति--चलति । धनः--पशुः । धनम्--द्रव्यम् । धान्यम्--अन्नम् (शालिर्वा)। ध्वनति--आर्तशब्दं करोति । ध्वनिः--शब्दः ।6.
२०७. कृणु खृणु पृणु वृणु अपनयने--परित्यागे। कर्णति--शृणोति ।

टिप्पणी


१. दीर्घोपधस्य गुणभावः पूर्ववद् (पृष्ठ १५ टि० १) द्रष्टव्यः ।
२. हिरण--इरण--धात्वोराद्यस्य इकारस्य गुणविधायकं सूत्रं नोल्लिखितं वृत्तिकृता । ३. सूत्रपाठे 'ष्टूण' इत्येवं निर्देशः । तथा सति 'स्तूणति' इति स्यात् ।
४. सूत्रपाठे 'इण ष्टूण' इत्येवं पूर्वापरपाठः।
५. सूत्रपाठे 'ष्ट्वन धन ध्वन श्वन' इत्येवं पूर्वापरं पाठः।
६. सूत्रपठितौ 'वन चन' धातू नात्र व्याख्यातौ। एतेनात्र पाठभ्रंशः प्रतीयते । वन
चन धात्वोरग्रे ( २१९ सूत्रे )ऽपि पाठ उपलभ्यते ।

27
कर्णः--श्रवणेन्द्रियम् । खर्णति--परित्यजति । खर्णः--ध्वनिः । पर्णति--पल्लवितो भवति । पर्णः--दलम् । वर्णति--[ वस्त्रं] रजति (वर्णनं करोति वा)। वर्णः -- रागः, प्रेम।
२०८. शोणृ वर्णगत्योः--रागे गतौ च । शोणति--रजति (वस्त्रम्)। शोणः--रक्तं वर्णम् ।
२०९. हुणु--हूणु गतौ--गमने। होणति--गच्छति । होणः--त्यजनम। हुण--व्रणम् , स्फुटिका ( 'फुंसी' इति भाषायाम् )। होणति--विशिष्टविषये व्यवहरति । हूणम्--लक्षणम् ।
२१०. व्रण क्रिमिभक्षणे--कीटदशने । व्रणति--कीटो दशति । व्रणम् -- कीटदशनम्।
२११. श्रोणृ श्लोणृ संघाते--समूहे । श्रोणति--संहतो भवति । श्रोणिः -- कटिप्रदेशः । श्लोणति--स्थूलो भवति । श्लोणम्--स्थूलता । ।
२१२. प्रेणृ फ्रेणृ बेणृ भेणृ वेणृ केणृ खेणृ गेणृ घेणृ गोणृ घोणृ गतिप्रेषणाश्लेषणेषु--गत्यां प्रेरणे सहने (?) च । प्रेणति--वर्धापयति । प्रेणः -- वर्धापनम् । फ्रेणति--थपथपा करोति ( थपकी देता है)। फ्रेण:--थपकनम्। बेणति--अङ्कुरितो भवति । बेणम्--गवादीनां भक्ष्यस्थानम् ('चारागाह' इति भाषायाम् )। बेणा--कीलकम् । भेणति--सान्त्वयति । भेणम्--सान्त्वनम्, सहनम् । भेणा--पश्वादिबन्धनम् ( 'खूंटा' इति भाषायाम् )। वेणति--वयति। वेणुः--वंशः । वेणिः--जटा । केणति--गच्छति । केणम्--नष्टं वस्तु । केणिः--वस्तु। खेणति--संचयति । खेणम्--पक्षः। खेणिः--नदी। गेणति--लिखति। गेणिः -- स्रोतः । घेणति--रिङ्गति ( 'रेंगता है' इति भाषायाम् ) । घेणा--खननम् ।
| २१३. क्रुड क्रूड चलने--गतौ। क्रोडति--कम्पते । क्रोड:--एतन्नामा प्राणिविशेषः । क्रोडनम्--कम्पनम् । क्रूडति--गुदगुदयति । क्रूडः--भालुः । क्रूडनम् -- गोदन क्रिया । क्रूडति1--खनति । क्रूडः--खनकः । क्रूडनम्--खननम् ।
२१४. हुडृ2 हूडृ होडृ हेडृ हैडृ हौड़ृ गतौ--चलने । होडति--खनति। हुडः--सूकरः । हुडिः--चूर्णं धूलिः । हूडति--कृषति । हूडिकः--कृषकः । होडति-- जानाति । होडः--व्याघ्रः। हेडति--बिभेति । हेडः--भित्तिः । हेडिः--भीरुः।

टिप्पणी


१. क्रूडत्यादीनां पदानां पुनः पाठोऽर्थभेदप्रदर्शनार्थः प्रतीयते ।
२. कन्नडपाठे 'हुण्डृ' इत्यपपाठः, व्याख्याने 'होडतीति' दर्शनात् , कातन्त्रेऽपि
इत्येव पाठाच्च ।

28
हैडति--बिभेति । हैडिकः--अग्ने धावनम् (?)। हौडति--धावति । हौडः--धावकः।
२१५. इड ईड एड धारणे--घर्षणे । एडति--धर्षति । इडा--नासिकाया वामभागस्था नाडिः । एडति1--छिद्रं करोति । इडिकः--छिद्रकर्ता। एडति--सहते । एडूकः--भित्तिः (बाधा वा)।
२१६. रोडृ अनादरे--अनादरे मौनधारणे वा । रोडति--मौनं धरति । रोडः--मौनधारकः।
२१७. लोडृ उन्मादे--उमत्ततायाम् । लोडति--उन्मत्तो भवति । लोडः--उन्मत्तः । लोडुः--शायकः।
२१८. कनि व्याप्तिकान्तिगतिषु--व्यापने प्रकाशे गतौ च । कनति--प्रकाशितो भवति ('चमकता है' इति भाषायाम् )। कनकम्--सुवर्णम् । काननम्--जङ्गलम् । कन्या2--कुमारी । कान्तिः--प्रकाशः।
२१९. वन षण रन (?, इन) एन वेन उन (?, ऊन) शून शुन जिन जिन्न जुन जुन्न चन चन्न च्वन्न च्वन छन्न संभक्तौ--मिश्रणे । वनति--मिश्रितो भवति । वनम्--जलम् , जङ्गलं च । वानः--वर्षा । सनति--योग्यो भवति । सनकः, सनातनः--एतौ ब्रह्मणो मानसौ पुत्रौ । सानुः--तटम् ( गिरिशृङ्गं वा )। एनति--प्रकाशते । इनः--सूर्यः । एनति--दुष्यति । एनः--पापम् । वेनति--रक्षति । वेनः--प्रभुः । ऊनति--अल्पी भवति । ऊनः--स्वल्पम् । शूनति--शून्यं भवति । शून्यम्--रहितम् ( रिक्तं वा)। शोनति--मुक्तो भवति । शुनकः--[ यस्य पुत्रः ] शौनको मुनिः, श्वा वा । शुनिः3--कुक्कुरी (शुनी)। जिनति--

टिप्पणी


१. दीर्घोपधस्य गुणभावः पूर्ववद् (पृष्ठ १५ टि० १) द्रष्टव्यः।
२ अस्मादेव कनधातोः 'इनन्' प्रत्यये कन्यार्थकः कनीना शब्दोऽपि सिद्ध्यति । तस्यैव 'कानीनः' इति तद्धितान्तो विकारः। पाणिनिकाले कन्यार्थकस्य 'कनीना' शन्दस्य लोकेऽप्रयोगात् तद्विकारस्य कानीनस्य च प्रयोगोपलम्भात् भगवता पाणिनिना कानीनशब्दार्थपरिज्ञापनाय 'कन्यायाः कनीन च' ( अष्टा० ४।१।११६) सूत्रे कन्याशब्दमुपादाय ततोऽपत्यार्थेऽण् प्रत्ययं च विधाय कन्यास्थाने च मूलभूतं प्रातिप्रदिकम् आदिश्य कानीनशब्दस्य साधुत्वं तदर्थनिर्देशश्च कृतः। वैदिकवाङ्मये 'कनीनकेव' (ऋ० ४।३२।२३) इत्यादिषु ह्रस्वार्थककन्प्रत्ययान्तः प्रयोगो दृश्यते। अवेस्ता--ग्रन्थे ( हओमयश्त ९, २३) 'ह ओमा तास् चित् या कइनीना' इत्यादिषु कनीनाशब्दस्यापभ्रंशः .'कइनीना' शब्दः प्रयुज्यते । तैत्तिरीयारण्यके (१।२७।६) च कनीनासमानार्थकः 'कनीनी' पदमपि प्रयुज्यतेः । विशेषोऽत्र 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नि ग्रन्थे ( भाग १ पृष्ठ ११) द्रष्टव्यः ।
३. औणादिक इन् प्रत्ययान्तः ।

29
त्यजति । जिनः--तीर्थङ्करः ( अर्हन्तः), त्यागी। जेनः, जेनु:--मधु । जिन्नति--जयति । जिन्नः--नाभिराजपुत्रः, तपस्वी । जोनति--जयति । जोनिकः--रञ्जकः । जोनिः--क्षुधा । जुन्नति--परिभ्रमति । जुन्नः--परिभ्रमकः ( यायावरः--'घुमक्कड़ इति भाषायाम् ) जोनाळ:--'मक्की' नामा धान्यविशेषः । जुन्नु:--आमिक्षा । चनति--प्राप्नोति । चनः--प्राप्तुं शीलः । चानम्--आयुधविशेषः । चन्नति--भूषति (सुन्दरो भवति )। चन्नः--सुन्दरः पुरुषः। चन्निः--सुन्दरी । चन्नं--सौन्दर्यम् । छन्नति--गृह्णाति । छन्नः--निगृहीतो मनुष्यः । नखछन्नम्--नखनिकृन्तकः । वन्नति (?), वन्नम् (?), वन्नविरम् (?)।
२२०. चमु छमु जमु झमु जिमु झिमु अदने--भक्षणे । चमति--भक्षति । चमरी--गवयी ( चमरी गाय, नील गाय)। चामरः--राक्षसः । चामीकरम्--सुवर्णम् । चमूः--सेना । छमति--अत्ति । छमनम्--भोज्यवस्तु। आचमनम्1--आचमन -- क्रिया । आछमनम्--गण्डूषकरणम् । जमति--निगलति । जमः--निगलितो ( भक्षितो) मनुष्यः । जमदग्निः--एतन्नामा ऋषिः, अग्निः, पक्षी[च]। जमनम्--भक्षणम् (अदनम् )। झमति--भोजयति । झमकः--भुक्तभोजनो मानवः । झमनम्--आहारः । झामः--अदनम् । जेमति--ददाति, अर्पयति । जेमिन:--ऋषि विशेषः, यस्य जैमिनिः पुत्रः। जेमिनम्--भोजनम् । झेमति--भुङ्क्ते । झेमनम्--भोजनम् , आहारः ।
२२१. क्रमु क्रिमु पादविक्षेपे--पद्भ्यां चलने। क्रमति--पद्भयां चलति । क्रमः--क्रमशः, पश्चाद् वा । क्रमणम्--कालक्षेपः। क्रान्तः--यातो मानवः । क्रन्ता--गन्ता, यात्री । संक्रान्तिः--सूर्यस्य राश्यन्तरसंयोगः। क्रेमति--दशति । क्रिमिःकीटः ( क्षुद्रप्राणी) । क्रिमणम्--क्रीडाविशेषः । क्रिन्ता--दशकः ।
२२२. यमु उपरमे--समाप्तौ, उपसंहारे । गमाम् वः (?. गमिष्यमां छः)--गमादीनां मकारस्य वकारो ( छकारो ) भवति । यवति (?, यच्छति )समापयति । यमः--अन्तकः । यामः--कालविशेषः । यामिनी--रात्रिः । यमिः--तपस्वी । यमनम्--तपः । यन्ता--प्रेरकः । यन्त्रम्--उद्धरणिः, उद्धरणम् ।
२२३. णमु प्रह्वत्वे शब्दे--शब्दे नमस्कारे। धात्वादेः षः सः--धातोरादेः षकारस्य सकारो भवति । णो न:--धात्वादेर्णकारस्य नकारो भवति । नमति--नमस्करोति । नन्ता--नमस्कर्ता । नमनम्--नमस्कारः । नाम--नाम (संज्ञा)। नमन्--शरणार्थी । लोपोऽनुनासिकानां कानुबन्धे--अनुनासि--

टिप्पणी


१. आचमनशब्दस्तदर्थश्च चमुधातु व्याख्याने युक्तः, नात्र छमुप्रकरणे।

30
कानां धातूनां ङ ञ ण न म वर्णानां लोपोऽदर्शनं भवति कानुबन्धे ककरानुबन्धके प्रत्यये परतः । नम् + क्त अत्र मकारस्य लोपो भवति । नतः--नमस्कर्ता, अवगतम्--ज्ञातम् । नतिः--नमनम् । नत्वा--नमस्कृत्वा । प्रणम्य-- नमस्कृत्य । नतवान्--कृतनमस्कारः पुरुषः । नमसियम् (?, नमस्यम् )--नमस्कर्तुं योग्यम् । नम्यः--नमस्करणीयः। उदनुबन्धादिड् वा--उकारानुबन्धवतो धातोरिडागमो वा भवति । नमितम्--नमस्कृतः। नन्ता--नमस्कर्ता।
२२४. अम अम्म द्रम द्रम्म हम हम्म मि मृ1 हय गतौ--गमने । अमति--चलति । अन्ता--गन्ता। अमनम्--हरितम् । आमः--अपक्वः । अमिः--गतिः । अति--अधिकम् । अत:--गन्ता। अम्मति--धारयति । अम्मा--माता । अम्मिः--पुत्री । अम्मिता--पोषकः। द्रमति--पुष्णाति । द्रमः--पोषकः । द्रामः--पोषकः । द्रमणः, दन्ता--पोषकः। द्रतिः--पोषणम् । द्रतः--पोषकः । द्रम्मति--प्रभवति । द्रम्मः--प्रभुः, स्वामी । द्रम्मिः--स्वामिनी। हमति--प्रेरयति । हन्ता--प्रेरकः। हमः (?)। हम्मति--गर्वं करोति । हम्मः-- गर्वी । हम्मुः --गर्वः । मयति--चलति । मिः--बालिका । मरति1--गच्छति । मर्त्यः--मनुष्यः। हयति--कूर्दते, नृत्यति । हयः--घोटकः । हयनम्--नृत्यम् । हायः--पालः (?) । । हयिता-- नर्तकः ।
२२५. हर्य क्षि क्लान्तौ च--शोषणे [चात् ] चलने च । हर्यति--शुष्यति । हर्यक्षः--सिंहः । हर्यः--सिंहगतिः ।
२२६. मव्य मव अव्य अव्व अल्ल अक्क बन्धने पालने च-- मव्यति--बध्नाति । मव्यः--बन्धकः । मवति--पालयति । मवः--राजा। मावः--श्वशुरः । मावा--रागः । मावुः--चूतवृक्षः । अव्यति--पालयति । अव्यः--राजा । अव्वति--पालयति । अव्वा--माता । अव्वः--पिता । अल्लति--पालयति । अल्लः--प्रभुः, स्वामी। अल्ला--स्वामिनी । अक्कति--पालयति । अक्कः--राजा। अक्का--ज्येष्ठा भगिनी।
२२७. अप अप्प पालने--अपति--पालयति । अपस्--जलम् । आपः--अप्सुजो घासः (शैवालः) । आपुः--तृणविशेषः । आपिः--अपिसेनदेशः (?) । अप्पति--पालयति । अप्पः--जनकः पिता । अप्पु--ऋणम् । अप्पि--रक्षणम् । अप्पा--माता।

टिप्पणी


१. पाणिनीयधातुवृत्तिकाराः 'मीमृ' इत्येवमेकं धातुं मन्यन्ते । चान्द्रादयोऽप्येवमेव । इह काशकृत्स्नीयः पाठः साधुः । वैदिकग्रन्थेषु 'मरति' इत्यादिप्रयोगदर्शनात् ।

31
२२८. अब्ब जनने--जन्मनि । अब्बति--जनयति । अब्बः--पिता । अब्बा--माता।
२२९. सूक्ष्य ईर्क्ष्य ईर्ष्यायाम--सूर्क्ष्यति--ईर्ष्ययाधरं दन्तैर्दशति । सूर्क्ष्यम् -- दन्तपेषणम् ('दाँत पीसना' इति भाषायाम् )। ईर्क्ष्यति--दन्तान् पिंशति । ईर्क्ष्यम्--क्रोधेन दन्तपेषणम् ।
२३०. शुची शूची चुची चूची अभिषवे--मन्थने । दिवादेयन्1--दिवादिभ्यो यन् विकरणो भवति । शुच्यति--मन्थति । चजयोः कगौ कानुबन्धे--चकारजकारयोः ककारगकारौ भवतः कानुबन्धे प्रत्यये परतः । शुच्यति--मन्थति । शुक्तिः--बुद्बुदः। शुचिः--अग्निः, पवित्रवान् । शूच्यति--सीव्यति । शूचिः--सूचिः ( 'सूई' इति भाषायाम् )। शूचनम्--अपकारप्रयुक्तं सूचनम् ('चुगलीखाना' इति भाषायाम्)। शूचकः--सूचकः । चुच्यति--कृन्तति । चुचिः--सोमलताखण्डः । चूच्यति--स्नाति । चूचकम्--स्नानम् , स्तनाग्रभागो वा ।
२३१. दलञि फलञि विशेषणे--खण्डने। दलति2--खण्डयति । दलम् -- पुष्पदलम् ('पँखुडी' इति भाषायाम्)। दालम्--फालः । फलति--कृन्तति । फलम् -- प्रसिद्धम् । फालम्--हलाग्रभागः ।
२३२. मील श्मील क्ष्मील निमेषणे--अक्षिनिमेषे । मीलति--चक्षुषी

टिप्पणी


१. भ्वादिगणस्थेषु धातुषु 'दिवादेर्यन्' इत्यस्य कथं प्रवृत्तिः कृता कन्नडवृत्तिकृतेति न ज्ञायते । एवमेवाग्रेऽपि वृत्तिकारः 'उर्णुञ् आच्छादने' इत्यत्र उकारमनुबन्धं मत्वा 'तनादेरुः' इति सूत्रेण उकारविकरणं कृत्वा ऊर्णोति प्रयोगं साधयति । धातोरुकारस्यानुबन्धत्वात् 'ऊर्णः ऊर्णन् ऊर्णक ऊर्णिता ऊर्णनम्' इत्यादीन् कृदन्तांश्च दर्शयति । कथमन्यगणस्थेभ्यो धातुभ्योऽन्यगणीयो विकरणो भवति इति न स्पष्टीकृतं वृत्तिकारेण । वयं तु पश्यामः यथा वेदे क्वचिद् द्विविकरणता क्वचिच्च त्रिविकरणा दृश्यते तथैव प्राक् लोकभाषायामपि क्वचित्की प्रवृत्तिरासीत् । तस्यैवावशेषोऽत्र काशकृत्स्नधातुपाठ उपलभ्यते। अन्य वैयाकरणास्तु लोके द्विविकरणतां हापयितुं 'शुच्य चुच्य' इत्येवं यकारसहितान् धातून् अपठन् । कातन्त्रेऽपि 'शुच्यी चुच्यी' इत्यैवं सयकारावेव धातू उपलभ्यते । यद्यप्युभयथाऽपि पाठे उभयप्रक्रियानुसारं सार्वधातुकलकारेषु न रूपभेदप्रसंगः, परन्तु आर्धधातुकलकारेषु तु रूपभेदः प्राप्नोत्येव । यथा शूची चूचीति पाठे लोटि शूचिता चूचिता इति स्यात्, शुच्य चुच्य पाठे तु शुच्यिता चुच्यिता इति । एवमन्यत्रापि ज्ञेयम् ।
२. दळञि फलञि धात्वोञिकारानुबन्धस्य कथं लोप इति न व्यक्तीकृतं वृत्तिकारेण कातन्त्रे तु 'योऽनुबन्धोऽप्रयोगी' (३।१०।३१) इति सूत्रेण प्रयोगाभाव उक्तः ।

32
निमीलयति । मीलनम्--अक्षिस्पन्दनम् । स्मीलति1--चक्षोरुपरिस्थं पालकं मोटयति ( येन पलकस्यान्तर्भागस्थो रक्तवर्णो दृश्येत )। स्मीलनम्--पूर्वोक्तक्रियाकरणम् । क्ष्मीलति--अर्धं निमिषति । क्ष्मीलनम्--अर्धनिमीलनम् ।
२३३. पील प्रतिष्टम्भे--प्रतिष्ठापने। पीलति--प्रतिष्ठापयति । पीलुः--हस्ती, वृक्षविशेषो वा।
२३४. णील वर्णे--आच्छादने रञ्जने च । नीलति--( आच्छादयति अभिभवति -- चढ़ता है)। नीलम्--नीलरागः । नीलिमा--रागविशेषः ।
२३५. शील समाधौ--शीले चरित्रे । शीलति--चरित्रवान् भवति । शीलम्--चरित्रम् ।
२३६. कील बन्धे--कीलति--('कील ठोंकता है' इति भाषायाम् ) कीलम्--एतन्नामकं लोहद्रव्यम् । कीलि:--तालकम् ('ताला' इति भाषायाम् )। कील--कीलम् । कीलालम्--जलम् , पयः । कीलालम् (?) गोशाला ।
२३७. कुल2 (?, कूल) कोल आवरणे--कुलति (?, कूलति ) परिश्राम्यति । कूलि:--भारवाहकः । कूलम्--नदीतटम् । कोलति--खनति । कोलः यष्टिका ('छड़ी' इति भाषायाम् )। निकोल:--वृक्षविशेषः ।
२३८. शूल रुजायाम्--रोगे, दुःखे । शूलति--पीडयति । शूला--पीडा । शूलम्3 --शूलनामा शस्त्रविशेषः । शूली--शिवः ।
२३९. तूल निष्कर्षे-- लाघवे4 ( हलका होने में ) तूलति--लघुर्भवति । तूलम्--रूई इति भाषायां प्रसिद्धम् ।
२४० पूल संघाते--पूलति--पल्लवितो भवति । पूलम्--तृणम् । पञ्चपूली--तृणविशेषः।
२४१. मूल प्रतिष्ठायाम्----प्रतिष्ठापने । मूलति--प्रतिष्ठापयति । मूलम्--रोगकारणम् , कन्दविशेषो वा ।

टिप्पणी


१. धातुसूत्रे 'श्मील' इति पठ्यते, व्याख्याने 'स्मीलति, स्मीलनम्' इति दन्त्यसकारो दृश्यते।
२. कूलिः कूलम् इत्यत्र द्विमात्रिकस्यदर्शनात् ह्रस्वोकारवान् अपपाठः । कातन्त्रेऽपि 'कूल' इत्येव पठ्यते ।
३. शूलं कण्टकमपि । अस्यैव 'सूल' इति राजस्थानीयभाषायामपभ्रंशः ।
४. माधवीयधातुवृत्तौ तु 'निष्कर्षो निष्कोषणम् , तच्चान्तर्गतस्य बहिर्निःसारणम् । तूलं हि कर्पासवृक्षकोशात् निष्काश्यते ।

33
२४२. फल पल पल्ल वल बल्ल निष्पत्तौ-- फलितभावे । फलति1 --फलितो ( फलयुक्तो) भवति । फलम्--प्रसिद्धम् । फालम्--हलाग्रभागः। फली--वृक्षः । फलिनी--लता । पलति--पलितो भवति । पलम्--खण्डः । पललम्--खण्डः । पलाश:--एतन्नामा वृक्षविशेषः । पलारम्--चिह्नम् । पल्--दन्तः । पाल्--दुग्धम् । पलितम्--परिपक्वम् (केशानां श्वेतीभावः) । पल्लति--पल्लवितो भवति । पल्ल:--हस्ती। पल्ली--गृहगोधा ('छिपकली' इति भाषायाम् ), ग्रामः । पल्लवः--नवीनं दलम् । पल्लनम्--(?)। वलति--अङ्कुरितो भवति । वलम्--अङ्कुरः। वालम्--केशः । वला--जालम् । वलितम्--लहरा (?)। वल्लति--विक्रीणाति । वल्लः--गोपालः । वल्लभः--प्रियः, पतिः। वल्लरिः--देशः, गुच्छः । वल्लि:--लता, शाटिः।
२४३. चुल चुल्ल द्रावकरणे2 पाकाग्निकुण्डे च--मैथुने सम्भ्रमे पाककरणे च । चुल्लति3 --मैथुनं पाकं वा करोति । चुल्लिः--पाकाग्न्याधारः ('चूल्हा' इति भाषायाम् )। चुल्लनम्--मैथुनम् , सम्भ्रमः। चुल्लकः--मैथुनसंभ्रमवान् । चोलति--शृङ्गारं करोति । चोलः--जनपदविशेषः । चोलिः--उरआच्छादनवस्त्रम् ।
२४४. फुल फुल्ल विकसने--विकासे । फोलति--विकसितो भवति । फुलम्--विकसनम् । फुल्लति--विकसितो भवति । फुल्लः--विकासः।
२४५. चिल चिल्ल शैथिल्ये--शिथिलतायाम् । चेलति--दशति । चेलः -- वृश्चिकः । चेला--उत्तरीयम् ("दुपट्टा' इति प्रसिद्धम् )। चिल्लति--शिथिलो भवति । चिल्लः--वृक्षः ।
२४६. मल मल्ल कल कल्ल धारणे--घर्षणे । मलति-- घर्षति । मलम् -- विष्ठा । मला--वनम् । मलिनम्--( 'मैला' इति प्रसिद्धम् ) । माला, माल्यम्( प्रसिद्धम् )। मालेयम्--(?)। मल्लति--संघर्षति (झगड़ता है)। मल्लः -- (प्रसिद्धः) । मल्लिका--एतन्नाम्नी लता । कलति--मन्थति । कललम्--मन्थनम् । कलिः--एतन्नामा युगविशेषः । कलुषम्--पापम् । कल्मषम्--पापम् । कालः--समयः। कलना--समुद्रः। काली--पार्वती। कल्कम्--क्षुद्रं द्रव्यम् । कलापम् --

टिप्पणी


१. फलधातुः पूर्वम् ( सूत्र २३१ ) अपि पठ्यते ।
२. कातन्त्रे 'हावकरणे' इति पाठः । अयमेव साधु प्रतीयते । पणिनीये--'हावकरणे' इति क्षीरस्वामी मैत्रेयश्च, 'भावकरणे' इति सायणः ।
३. धातुसूत्रे चुल चुल्ल इति विपर्यासेन पाठः ।

34
भूषणम् । कलकलः --कलकलरवः । कल्--पाषाणम् । कल्लति--सहते । कल्लः--सहनम् । कल्लिः--जालः । कल्याणम्1--विवाहः । कल्यम्1--कल्याणम् । कल्ली --(?)।
२४७. वेलृ चेलृ छेलृ केलृ खेलृ कैलृ खैलृ कौलृ खौलृ क्वेलृ ख्लेलृ हेलृ हृलृ पेलृ फेलृ सेलृ येलृ2 शल शल्ल भल भल्ल बल बल्ल गल गल्ल तिल तिल्ल भिल भिल्ल इल इल्ल बिल बिल्ल रल रल्ल पुल पुल्ल बुल बुल्ल बूल्ल गतौ--वेलति-- व्यत्येति । वेला--समयः । वेळु--हस्ताभरणम् । चेलति--चलति । चेलनम्--चलनम् । केलति--क्रीडति । केळिः--क्रीडा । केळुः--अङ्गुलिः। खेलति--क्रीडति नृत्यति । खेला--विलासः । खेलिता--क्रीडिता । क्वेलति--लिखति । क्वेलिता--लेखकः । ख्वेलति--भ्रमति । ख्वेला--संचरणम् । हेलति-- भ्रमति । हेला--भ्रमणम् । हेलुः--मलम् अशुचि । प्रहेलिका--( कहावत, बुझावत, पहेली नाम्ना प्रसिद्धा)। ह्वेलति--भ्रमति । ह्वेला--भ्रमणम् । पेलति--अक्षैर्दीव्यति । पेला--द्यूतम् । पेलिता--द्यूतक्रीडकः । फेलति--नृत्यति । फेलकः--नर्तकः । फेळिः--नृत्यम् । सेलति--श्लिष्यति ( श्लेष्मद्रव्येण परस्परं संश्लिष्यति ) सेळुः--( श्लेष्मद्रव्यम्)। यालति एलति3--विस्तरितो भवति । याला एला--'इलायची' इति प्रसिद्धं द्रव्यम् । शलति--स्थिरो भवति । शाला--घरः4 । शलभम्--एतन्नामा कीटविशेषः। शल्यम्--शस्त्राद्याघातः । शाली--धान्यम् । सलिलम्--5 जलम् । शलाका--(छड़ी ?)। शल्लति--(?)। शल्ला शल्लूकः । भलति--विकर्तयति । भलूकः, भालः--फालः । भल्लति-- ( हिंसयति)। भल्लूकः--ऋक्षः । भल्ला--शूलम् ( 'भाला' इति प्रसिद्धम् ) । बलति--मारयति । बलः --राक्ष[स]ः ।

टिप्पणी


१. कल्ल प्रसङ्गे कलधातोः कृदन्तनिर्देशः कथम् ?
२. उत्तरत्र व्याख्याने "यालति एलति याला एला" इत्यादीनि रूपाणि निदर्शितानि । तदनुसारमत्र--'यालृ एलृ' इत्येवं पाठेन भाव्यम् ।
३. धातुसूत्रे 'सेलृ' धातोरनन्तरम् 'येलृ' इत्येव पठ्यते । अत्र व्याख्याने तु 'यालृ ऐलृ द्वौ धातू निर्दिष्टौ।
४. गृहपर्यायः 'घर' शब्दः दशपाद्यामुणादौ 'हन्तेरन् घ च' ( ८।१०४) इति सूत्रेण व्युत्पाद्यते । अतः साधुशब्दोऽयं न त्वपभ्रंशः (द्र० सं० व्या० शास्त्र का इतिहास, भाग १, पृष्ठ ४६, ४७।
५. तालव्य शकारवतो धातोः दन्त्यसकारवत् सलिलं रूपं कथम् ?
६. वेदे रक्षोवाचको दन्त्योष्ठयवान् ‘वल' शब्दः, न त्वोष्ठ्यवान् । एवमग्रे प्रयुक्तः 'बलाहक' इत्यत्रापि दन्त्योष्ठ्य एव वकारो न पवर्गीयः । बवयोः सांकर्यमत्र धातुपाठ इति पूर्वमप्युक्तम् (पृष्ठ २३, टि० १)।

35
वलिः--राक्षसः । बाल:--कुमारः। बालकः--बालः । बाला--बालिका, कदली। बलिष्ठः, बलूलः-- बलवान् । बलाहकः1--मेघः । बल्लति--शास्ति । बल्लालः--राजा । गळति--निगरति । गळः, गाळम्--मत्स्यनिग्रहणे प्रयुज्यमानं कण्टकम्। गळा--वंशः । गळका--गोः खुरः। गळकम्--कण्ठ उन्नतमस्थि (घेंटु इति भाषायां प्रसिद्धम् )। गल्लति--क्रोधेन दन्तैरधरं दशति । गल्लम्--श्मश्रु । गल्ला--(?)। तेलति--स्निग्धो भवति । तिलः--एतन्नामा धान्यविशेषः। तैलम्--स्नेहः 'तेल' इत्येवं प्रसिद्धः । तिलकम्--चन्दनाद्यनुलेपनम् । तिलकः--वृक्षविशेषः । तिल्लति--प्रकाशितो भवति । तिल्ला--ज्योतिर्लता।2 एलति--सहते । इला--पृथिवी । इल्लति--संयोजयति । इल्ला--धान्यकरी भूमिः । बेलति--धावति ( शोधयति । बिलम्--छिद्रम् । बिल्--धनुः । बिल्लति--इषुं प्रक्षिपति । बिल्लः--धनुर्धारी । बिल्लुः--धनुः । भेलति--छेदयति । भिलम्--छेदनम् । भिल्लति--क्षिपति । भिल्लः--व्याधः। भीलति--भीषयति । भीलः--भयम् । अलति3--प्रसृतो भवति । आलः--वटवृक्षः । अलम्--पर्याप्तम् । अलसः--प्रमादी । आलः--घातः। अलिः--भ्रमरः। अलका--केशः । अळिका--फालः । अळीकम्--विषयः (?, मिथ्या)। अलका--अलकापुरी। अल्लति2--मुक्तो भवति । अल्लः--शिवः । अल्ला--गौरी । अल्लम्--शृङ्गबेरम् ( अदरकनाम्ना प्रसिद्धम् ) । पोलति--निर्मापयति । पुलहः-- ब्रह्मणः पुत्रः । पुलस्त्यः--ब्रह्मणः पुत्रः । पुळुः--क्रीडा । पुल--तृणम् । पोलः--अलसः । पोलुः--अलसः । पोली--अलसा स्त्री। पुलिः, पुळिः--अम्लम् । पुलिन् -- सिकता । फुल्लति--अङ्कुरितो भवति । फुल्ला--तृणम् । फुल्लिः--चित्रवर्णः4 ।।
२४८. खल खल्ल पिल पिल्ल पील पिपील जल जल्ल पिपल पिप्पल चलने--भ्रमणे । खलति--भ्रमति । खलः--भ्रमणशीलः । खलम्--खलिहान' इति प्रसिद्धम् । खलिः--चूर्णम् । खलकः--नीचः। खल--संचारः । खलु--निश्चयः । खलपूः--कृषकः । शृंखला--प्रसिद्धैव । खल्लति--भ्रमति । खल्लः--प्रकोटः ( 'चारदिवारी' इति प्रसिद्धा )। खल्लनं--श्रेणिः । पेलति--प्रयाति । पिल् , पिलः, पेलः, पेलुः, पिलिः, पैलम्-- ( गतिशीलः ?)। पैलादिः--व्यासशिष्यः । पिल्लति--विवदते । पिल्लः5 --वत्सः । पिल्ला--वत्सा। पिल्लिः--नूपुरम् स्त्रीणां

टिप्पणी


१. द्रष्टव्या पूर्वपृष्ठस्य टि०६।
२. धातुसूत्रे 'तिल्ल भिल भिल्ल इल इल्ल' इत्येवं पूर्वापरीभूतः पाठः ।
३. धातुसूत्रे 'रल रल्ल' धातू पठ्येते, न तु 'अल अल्ल' ।
४. इतोऽग्रे धातुसूत्रे पठिताः 'बुल बुल्ल बूल्ल' इति त्रयो धातवो न व्याख्याताः ।
५. हिन्दी भाषायां 'पिल्ला' इति कुक्कुराणां बाल उच्यते।

36
पादाङ्गलिभूषणम् । पीलति--गच्छति । पिलि, पीलः, पीलुः, पीलिः, पीला, पीलालः--प्राणिविशेषनामानि । पिपीलति--उदयं गच्छति । पिपीलिका--'च्यूंटी' नाम्ना प्रसिद्धः क्षुद्रप्राणिः । जलति--बाष्पं उच्चैर्गच्छति । जळम--औष्ण्यम् । जाळम्--बाष्पः । जाळन्ध्रः--गवाक्षः । जळी--उपरितना ग्रन्थी। जल्लति--प्रवहति । जल्लडिः, जल्लाडिः, जल्लरिः--नदीधारा । जल्लः--यष्टिका। पिपलति--कार्यमारभते । पिपलम्--भाटकम् । पिप्पलति--भृत्यत्वं स्वीकरोति (मजदूरी करता है)। पिप्पलम्--वेतनम् । पिप्पलादः--भृत्यः, एतन्नामा मुनिर्वा ।
२४९. स्खल स्खल्ल चंचले1 च--भ्रान्तौ भ्रमणे च । स्खलति--पतति ( फिसलता है)। स्खलनम्--पतनम् (फिसलना )। स्खलिता--पतिता। स्खलितम्--पतितम् । स्खलितव्यम्--पतितव्यम् । स्खलनीयम्--पतितुं योग्यम् । स्खलिः (?)। स्खल्लति स्खल्लिता स्खल्लनम् स्खाल्लिः स्खलितम् स्खल्लितव्यम् स्खल्लनीयम् ।
२५०. गिल गिल्ल गील गुल गुल्ल गूल चिल चिल्ल चील जिल जिल्ल जील छिल छिल्ल छील णल णल्ल णिल णिल्ल णील2 झिल झल्ल (?, झिल्ल) झील3 टल टल्ल ठल ठल्ल डल डल्ल ढल ढल्ल अदने--भक्षणे । गेलति--निगरति । गिलः--निगरिता । गिलनम्--निगरणम् । गिलिः--शुकः । गिलति--लिह्यति । गिल्लः--लेहकः । गिल्लनम्--लेहनम् । गिल्लितम्--लीढं द्रव्यम् । गिल्लितव्यम्--लेढव्यम् । गिल्लनीयम्--लेढुं योग्यम् । गीलति--निगरति । गीलः--निगरिता । गीलिः--निगरणम् । गीलुः--मुखस्थं द्रवम् (जलम् )। गोलति--निगरति । गुळम्--गुडम् । गुळः--दन्तः । गुळिका--सकृत् मुखे ग्रहीतुं योग्यं द्रव्यम् (कौर इति भाषायाम्) । आगुलिका--जम्मा । गुल्लति--अत्ति । गुल्ला--बुद्बुदः । गुल्लिः--जले भूमौ चोभयत्रवासी मत्स्यविशेषः । गुल्लिका--जलजः सर्पः । गूळति--भक्षति । गूळम्--गुडम् । गूलिः--बलीवर्दः । चेलति--कृन्तति । चिलः--कृन्तकः । चिल्--कृन्तकः । चिलिः--(घुंघराले केश)। चिल्लति--फूत्करोति । चिल्लः-- मक्षिका। चिल्लः--वृक्षः । चिल्ला--चिल्लवृक्षजो मदः । चिल्लिः--छिद्रम्। चीलति--भरति । चीलः--वस्त्रनिर्मिता कोथली ( थैली )। चीलिः--सैव । जेलति--पिबति । जिलालः--मत्कुणः । जिलिः (?)। जिल्लति--श्चोतति (पात्ररन्ध्रात् जलादि

टिप्पणी


१. 'संचये च' इति कातन्त्रधातुपाठे। .
२. व्याख्याने 'णिल णिल्ल णील' इति धातुत्रयम् 'ढल्ल' धातोरग्रे व्याख्यायन्ते ।
३. व्याख्याने 'झिल झिल्ल झील' इत्येतेषां स्थाने 'जिल जिल्ल जील' इत्येवं व्याख्यायन्ते, एतेऽस्मिन्नेवसूत्रे पूर्वं पठिता एव, अतोऽपपाठः ।

37
क्षरति )। जिल्लि जिल्लरिः--छिद्रम् । जीलति--दन्तैरन्नादिकं पिंषयति ( चबाता है)। जीलः--पेषकः । जीलिः--( सेव बनाने का यन्त्र )। छेलति--गृहणाति । छिलः--संदंशिका (संडासी इति भाषायाम्)। छिलिः--घट्टिकाया अवरं पाषाणम् । छिल्लति--विभजति । छिल्लः--विभागः । छिल्लिः--दर्पणम् । छीलति--आकर्षति । छीलः--सर्पः। छीलिका--सर्पाणां राज्ञी ।' जेलति2--लगति । जिला--कौशेयवस्त्रे रजततारकार्यम् ('जरी' इति भाषायाम् ) । जिल्लति--कम्पयति । जिल्लः--व्याघ्रकः। जिल्लिः--पक्षी । जीलति2--शरीरान्तर्गताहारस्य पुनः दन्तैः पेषणं ('जुवाली' ) करोति । जीलः--बर्करः । टलति--चरति । टलः--(?)। टल्लति--चिनोति । टल्लः--यष्टिका । ठलति--खनति । ठलः--वन्यो मृगविशेषः । ठल्लति--(?) । ठल्लः--वन्यमृगः । डलति--विभजते । डलः डालः--विकासनाम्नी । पदा डलति पड्डलिः--भ्रमरः । डल्लति--पदा ताडयति । डल्लः--विकासः । ढलति--जलं गड़गड़ध्वनिसहितं पिबति । ढलः--जलजः पक्षी । ढल्लति--कम्पयति । ढल्लः--जलजः काकः । नळति3--नाड्या जलमायाति । नळ:--एतन्नामा राजा । अनलः--अग्निः । नाळम्--छिद्रम् । नाळः--नलम् । नळिनम्--कमलम् । नलिनी--कमलनाडी । नाळिका--(?)। नळि:--त्रोटनम् । नल्लति--स्पृहयते । नल्लः--सखा । नल्लिः--त्रिगुणी । नेलति--जृम्भते गण्डूषं वा करोति । निलः--जृम्भणम् , गण्डूषकरणम्। अनिलः--पवनः। निल्लति--चुम्बते । निल्लः--चुम्बकः । निल्लिः--आमलकीवृक्षः।
२५१. स्वल स्वल्ल आशुगतौ--शीघ्रचलने । स्वलति--शीघ्रं गच्छति । स्वलः--झञ्झावातः । स्वालम्--मनः । स्वल्लति--जले निमज्जति । स्वल्लः--निमज्जनीयं जलम् ।
२५२. कोलृ खोलृ गतिप्रतिघाते--(गमनावरोधे--चलने की रुकावट में)। कोलति--निरुणद्धि । कोलः--पादबन्धनी रज्जुः, राक्षसो वा । कोलिः--पक्षीविशेषः । कोलुः--वञ्चनम् । कोलाहलः--संघातरवः । खोलति--रुणद्धि । खोला--शृंखला ।
२५३. दोलृ धोलृ डोलृ ढोलृ गतिचातुर्ये--गतिप्रावीण्ये । आन्दोलति--सर्वत्र लम्बते । आन्दोलम्--शिविका (पालकीति भाषायाम् )। धोलति –

टिप्पणी


१. इतोग्रे धातुसूत्रे पठ्यमानाः ‘णिल णिल्ल णील' इत्यैते धातवो 'ढल्ल' धातोरग्रे व्याख्यायन्ते ।
२. धातुसूत्रे झिल झिल्ल झील इत्येवं पठ्यन्तेऽतस्तेषां 'झेलति झिल्लति झीलति' इत्येवमादीनि रूपाणि द्रष्टव्यानि ।
३. इत आरभ्य व्याख्यायमाना धातवो धातुसूत्रे 'छील' धातोरनन्तरं पठ्यन्ते ।

38
कम्पते। धोलः--तोरणम् । डोलति--लम्बते । डोला--'झूला' इति भाषायाम् । डोलुः--ढोलः ( वाद्यविशेषः)। ढोलति--क्रीडति । ढोला--(?)।
२५४. त्सर छद्मगतौ--कुटिलगतौ । [त्सरति--कुटिलं गच्छति । त्सरुः --छुरिका।
२५५. क्मर हूर्चने (?; हूर्च्छने )--कृत्रिमे । क्मरति--कृत्रिमं करोति (?)। क्मरः--कृत्रिमकः ।
२५६. अभ्र वभ्र मभ्र चव रव धव गतौ--चलने । अभ्रति--भ्रमति । अभ्रम्--मेघः। वभ्रति--विवदते । वभ्रम्--विवादः। मभ्रति--अङ्गुष्ठं करोति (अङ्गुष्ठेन चिह्नयति)। मभ्रम्--अङ्गुष्ठम् । चवति--पीडां निवर्तयति । चविः--मूलिका, ओषधिः। रवति--प्रकाशते। रविः--सूर्यः। धवति--शास्ति । धवः--राजा।
२५७.ष्ठीवु क्षीवु निरसने--निष्ठीवने । ष्ठीवति--ष्ठीवनं करोति ( थूत्करोति)। ष्ठीवः--थूत्कर्ता । निष्ठीवनम्--थूत्करणम् ।
२५८. जी (?, जि) जये--विजये । जयति--विजयते । जयः--विजयः । जितम्--विजितम् । जेता--विजेता ।
२५९. जीव प्राणधारणे--प्राणनक्रियायाम् । जीवति--प्राणिति । जीवः--प्राणः । जीविः--प्राणिः । जीवितम्--वेतनम् ।
२६०. पीव मीव तीव णीव धीव स्थौल्ये--स्थूलीभावे । मीवति--स्थूलो भवति । मीवः--स्थूलः । पीवति--स्थूलो भवति । पीवः, पीवरः--स्थूलार्थे पुँल्लिङ्गौ । तीवति--फूत्करोति । तीवः, तीवनः (?; तीवरः )--स्थूलो मनुष्यः। नीवति--श्वयते । नीवनः (?, नीवः) नीवरः--श्वयथुः। धीवति--छिद्रं करोति । धीवः, धीवरः--देवरः।
२६१. उर्वी तुर्वी घुर्वी1 दुर्वी धुर्वी हिंसायाम्--उर्वति2--सहते । उर्वी –

टिप्पणी


१. अन्यधातुपाठानुसारमत्र 'थुर्वी, थुर्वति, थुर्वकः' इति पाठा युक्ताः स्युः । यद्वा हिन्दीभाषायां प्रयुज्यमाना 'घूरना' क्रियाऽस्या एव घुर्वतेरपभ्रंशः स्यात् । तथा सति 'घुर्वी, घुर्वति, घुर्वकः' पाठा एव युक्ता स्युः।
२ 'उर्वति, तुर्वति, धुर्वति, दुर्वति, उत्तरसूत्रयोः ( २६२, २६४) च 'मुर्वति, गुर्वति' इत्यत्र, एतेषां कृदन्तविकारेषु च ( दूर्वाशब्दं वर्जयित्वा ) कथं दीर्घाभाव इति न विज्ञायते । 'र्वोरुपधाया दीर्घ इकः' (८।२।७६) इति पाणिनीयेन लक्षणेन दीर्घत्वं प्राप्नोति । यद्वा 'दूर्वा, धूर्वति, धूर्वः' इत्यादिषु कथं दीर्घत्वमिति न प्रकटीकृतं टीकाकृता।

39
पृथिवी। तुर्वति--कण्डूयति, क्षतं वा करोति । तुर्वा--तृणविशेषः। घुर्वति1--निकृन्तति । घुर्वकः--सिंहः। दुर्वति--पीडां निवारयति । दूर्वा--तृणविशेषः ('दूब' इति भाषायाम् ) । धूर्वति--देवः कुप्यति । धूर्वः--दूर्वा, कुशः । _
२६२. मुर्वी मू मव बन्धने--मुर्वति--बध्नाति । मूर्वः--बन्धनम् । मवति--बध्नाति । मूतम्--'पुड़िया' इति भाषायां प्रसिद्धम् । मवति--विहन्ति । मवनम् --विधानम् , क्रमः ।
२६३. कीवृ तीवृ तेवृ तेमृ रुजायाम् --रोगे। कीवति--('मवाद पड़ता है' इति भाषायाम् ) । कीवम् , कीवनम्, कीवु--'मवाद' इति भाषायां प्रसिद्धम्, दूषितं रक्तम् । तेवति--रिक्तो भवति । तेवनम्--रेचनम्। तेमति--कटुरसो (तीता) भवति । तेवनम्, तेवम्, तेमु, तेमि, तेमितम्--कटुरसः ( तीता--चरपरा इति भाषायाम् ।
२६४. गुर्वि (?, गुर्वी ) उद्यमे --उद्योगे । गुर्वति--कार्यं करोति । गुर्वः--उद्योग कर्ता । गुर्वणम्--कामः । गुर्वी--कर्मकराः । गुर्वकः--कर्मकरः ।
२६५. पूर्व पर्व मर्व पूरणे--भरणक्रियायाम् । पूर्वति--भरति । पूर्वम्--प्रथमम् । पर्वति--प्रथते । पर्व--उत्सवदिनम् (त्यौहार इति भाषायाम् ), अङ्गुल्यादीनामस्थिसन्धिः । पर्वतः--अचलः । पार्वणः--पर्वदिनम् । मर्वति--भरति । मर्वः--भरणम् , पूरणम् , भक्ष्यविशेषो वा । मर्वः--विस्तारः।
२६६. चर्व अदने--भक्षणे । चर्वति--भक्षति । चर्वः--भक्षकः । चर्वणम् -- भक्ष्यम् ।
२६७. चिर्ब1--रुजायाम्--रोगे। चिर्बति--पीडा भवति । चिर्बणम् , चिर्बम् , चिर्बु, चिर्बि, एते चत्वारः पीडायाम् । चिर्बुलम्--आच्छादनम् । चिर्बा--(?)।
_२६८. कर्ब1 खर्ब गर्ब घर्ब दर्पे--अभिमाने । कर्बति--गर्वं करोति । कर्बुरः रागविशेषः, निर्ऋतिः । कर्बम् कर्बणम् , कर्बु, कर्बि--चत्वारो गर्वे । खर्बति--अहंकारं करोति । खर्बुरः--निर्ऋति, रागविशेषः । खर्बम् , खर्बणम् , खर्बु, खर्बि--चत्वारोऽहङ्कारे । गर्बति--शोभते । गर्बुरः--कविः। गर्बम् , गर्बणम् , गर्बु, गर्बि--चत्वारः स्वाभिमाने । घर्बति--मिश्रतो भवति । घर्बुरः--यमः। घर्बम् , घर्बणम् , घर्बु, घर्बि--चत्वाराः स्वाभिमाने ।

टिप्पणी


१. दन्त्योष्ठ्य प्रकरणेऽत्र सर्वत्र कथं पवर्गीयः पाठ इति न ज्ञायते । लेखकप्रमादकृतोऽयं दोषः स्यात् । अत्र २३ पृष्ठस्था टिप्पणी द्रष्टव्या।

40
२६९, पिवि मिवि णिवि सेचने--पिन्वति1 --बीजं वपते । पिन्वः--कृषकः । पिव्वनम्, पिव्वु, पिव्वि--प्रकाशः । मिन्वति--सिञ्चति । मिव्वः2 मिव्वनम् मिव्वु मिव्वि--जलावरोधे । निन्वति--बिन्दुं त्यजति । निव्वः2--बिन्दुसेचकः । निव्वनम् , निव्वु, निव्वि--बिन्दुपाते ।
२७०, हिवि दिवि जिवि प्रीणने--शीतीभावे । हिन्वति--शीतीकरोति । हिव्वः3--शीतीकर्ता। हिव्वनम् , हिव्वु, हिव्वि--त्रयः शीतीभावे। दिन्वति--नृत्यति । दिव्वः3--नृत्यकर्ता । दिव्वनम् , दिव्वु, दिवि--त्रयो नृत्ये। जिन्वति--रोचते । जिव्वः3--रोचकः । जिव्वनम् जिव्वु जिव्वि--त्रयः प्रिये ।
२७१. अव रक्ष पालने--अवति--पालयति । अवकः--रक्षकः। अवनिः--पृथिवी। अवन्ती अवन्तिका--द्वे उज्जयिन्या नाम्नी । अविः--'भेड़' इति भाषायाम् । अवुः--प्राणिविशेषः । अवनम्--रक्षणम् । आवु:--गौः। आवुकम्(?)। आवु:--रक्षकः। आवी--रक्षिका । अविनी--रक्षिका। रक्षति--त्रायते । रक्षकः--त्रायकः। रक्षः--राक्षसः । रक्षा--पालनम् , विभूतिः । राक्षसः--रक्षः । राक्षसी--रक्षःपत्नी ।
२७२, इवि व्याप्तौ--इन्वति--व्याप्नोति । इव्वः4--व्यापकः। इव्वनम् , इव्वि, इव्वु--त्रीणि व्याप्तौ।
२७३. अक्षु संघाते च--चाद् व्याप्तौ च । अक्षति--व्याप्नोति । अक्षः--इन्द्रियम् । अक्षि नेत्रम् ।
२७४. घुषिर् शब्दे--ध्वनौ। घोषति--शब्दयति । घोषः--पशुपालकानां ग्रामः । घोषणम्--ध्वनिः ( उच्चैर्ध्वनिना विज्ञापनम् )।
२७५. तक्षु त्वक्षु तनूकरणे--तक्षति--तक्षणं करोति । तक्षन्--तक्षणकर्ता । तक्षकः--सर्पविशेषः । त्वक्षति--तक्षणं करोति । त्वक्षन्--तक्षणकर्ता ।

टिप्पणी


१. अत्र 'पिंवति मिंवति निंवति' इत्यादिषु वृत्तिपाठेऽनुस्वारनिर्देशश्चिन्त्यः। एवमुत्तरत्रापि ।
२. अत्र 'पिव्वनम्' आदि कृदन्तेषु नुमाभावो वकारस्य द्वित्वं च कथमिति न ज्ञायते। वयं तु पश्यामः, अत्र सर्वत्र पिन्वति पिन्वः पिन्वनम् पिन्वु पिन्वि, मिन्वति मिन्वः मिन्वनम् मिन्वु मिन्वि, निन्वति निन्वः निन्वनम् निन्वु निन्वि इत्यादयो यथायथं शुद्धाः पाठाः स्युः, लेखकप्रमादादेव नकारस्यानुस्वारत्वं वत्वं च समपद्यत इति । एवमुत्तरधातुसूत्रोदाहरणेष्वपि ज्ञेयम् ।


आदि विषये एतत् पृष्ठस्था द्वितीया टिप्पणी द्रष्टव्या ।

विषये द्वितीया टिप्पणी द्रष्टव्या।

41
२७६. णिक्ष चुम्बने--निक्षति--चुम्बयति । निक्षः--चुम्बकः।
२७७. तृक्ष सृक्ष णक्ष गतौ--गमने । तृक्षति--चलति । तृक्षकः--गन्ता । सृक्षति--गच्छति । सृक्षकः--गन्ता । नक्षति--आयाति । नक्षकः--आगन्ता ।
२७८. वक्ष रोषे--क्रोधे । वक्षति--क्रुध्यति । वक्षः--उरः।
२७९. मुक्ष संघाते--मुक्षति--संघीभवति । मुक्षः--संघः ।
२८०, तक्ष वचने--तक्षति--वदति । तक्षः--वदिता ।
२८१. सूर्क्ष अनादरे--निरादरेऽप्रीतौ वा । सूर्क्षति--अप्रियो भवति । सूर्क्ष:--अप्रियः।
२८२. काक्षि वाक्षि माक्षि काङ्क्षायाम्--इच्छायाम् । काङ्क्षति--इच्छति । काङ्क्षा--इच्छा । वाङ्क्षति--इच्छति । वाङ्क्षा--इच्छा । माङ्क्षति--इच्छति । माङ्क्षा--इच्छा।
२८३. द्राक्षि ध्राक्षि जाक्षि ध्वाक्षि घोरवासिते च--रौद्रभाषणे चात् काङ्क्षायां च । द्राङ्क्षति--कठोरभाषणं करोति । द्राङ्क्षः--काकः । ध्राङ्क्षति--कटुशब्दयति । ध्राङ्क्षः--(?)। जङ्क्षति1--अस्पष्टं भाषते । जक्षः2--पक्षिविशेषः । ध्वाङ्क्षति--घोरं ध्वनति । ध्वाङ्क्षः--जटायुः3 ।
२८४. चुष पाने--पान क्रियायाम् । चुषादेदीर्घः४–चुष इत्येवमादीनां धातूनां [ उपधाया ] दीर्घो भवति सार्वधातुके परतः । चूषति--पिबति । चोषकः4 --पानकर्ता । चोष्यम्--पातुं योग्यम् ।
२८५, तुष तुष्टौ--तृप्तौ। तूषति--तृप्तो भवति, आनन्दितो वा । तोषः--संतोषः । तुष्टिः5--संतोषः। तुष्यम्--संतोषयितुं योग्यम् । तोषा--आनन्दः।
२८६. पुष वृद्धौ--पूषति--वर्धते । पोषः--वृद्धिशीलः। पोषकः--वर्धकः । पोषणम्--रक्षणम् । पुष्यम्--रक्षितम् । पुष्टिः--रक्षा । पूषा6--सूर्यः ।

टिप्पणी


१ धातुसूत्रानुसारमिह 'जाङ्क्षति' रूपं शुद्धं स्यात् ।
२. धातुसूत्रानुसार 'जाङ्क्षः' इति शुद्धं रूपं द्रष्टव्यम् । 'जङ्क्षति' आख्यातानुसारं 'जङ्क्षः' इति । नुमाभावस्तूभयथा न संभवति ।
३. जटायुस्तु गृध्र इति उच्यते। ध्वाङ्क्षः काकपर्यायत्वेन प्रसिद्धो लोके ।
४. पाणिनीय धातुपाठे 'चूष तूष पूष मूष षूष' इत्येवं दीर्घोकारवन्त एव पठ्यन्ते । तेन कृदन्तप्रत्ययेषु गुणाभावात् 'चूषकः' इत्यादीनि रूपाणि सिद्ध्यन्ति ।
५. 'तुष्टिः' इति पाणिनीये दैवादिकस्य ह्रस्वोपधस्य । एवमुत्तरत्रापि द्रष्टव्यम् ।
६. अत्रासार्वधातुकेऽपि कथं दीर्घत्वम् इति न व्यक्तीकृतं कन्नडवृत्तिकृता।
। अक्षः

42
२८७. मुष स्तेये--मूषति--चोरयति । मूषिकः1–'चूहा' इति प्रसिद्धः । मोषः--चुरा । मोषणम्--चौर्यगुणम् । मुष्टिः--बद्धाङ्गुलिः, ग्रहणम् । मुष्यम्--ग्रहीतुं योग्यम् ।
२८८. षुष प्रसवे--प्रजनने । सूषति--प्रसूते। सुषा--स्नुषा ( पुत्रवधूः)। सोषणम्--प्रसवः । सुष्यम्--प्रसूतम् । सुष्टिः--प्रसवः ।
२८९. तसि भूष अलङ्कारे--शृङ्गारे । तंसति--अलङ्करोति । तंसः--आभरणम् । तंसनम्--अलङ्करणम् । तंसितम्--अलङ्कृतम् । भूषति--अलङ्करोति । भूष्यम्, भूषणम्, भूषा--त्रीण्याभरणे । भूषितम्--अलंकृतम् ।
२९०. उष ऊष2 रुजायाम--रोगे, पीडायां वा । उषति3--पीडयति । उषर्--(?)। उषर्बुधः--अग्निः । उषणम्--पीडा । उष्णः--घर्मः। ऊषती --उष्णं करोति । ऊषः--'उबलना' इति भाषायां प्रसिद्धम् । ऊषरः--क्षारमृत्तिको देशः (ऊषर इत्येवं प्रसिद्धः) । ऊषरा--उष्णप्रदेशः । ऊषणम्--वाष्पम् ।
२९१. इष ईष उञ्छे--इच्छायां परिचालने । इषति--परिचालयति । इषम्--इष्टार्थम् । इष्टम्5 --इच्छा । इष्टिः5--यज्ञः । इष्टिका5--ईंट इति भाषायां प्रसिद्धा। ईषति--चर्वयति । ईषः--चर्बकः । ईषणम्--रुचिः। ईषा--यानचक्रे निहितं लोहकीलकम् ।
२९२. कृष विलेखने--भूमिकर्षणे । कर्षति--हलेन भूमिं विलेखयति । कर्षः--विलेखनम् । कर्षणम्--आकर्षम् । कार्ष्यम्--लेखनम् । कृष्णः--कृषकः, कृष्णगुणः, विष्णुर्वा । कार्षा--पणम् , हलेनोत्पादिता भूलेखा।

टिप्पणी


१. अत्राप्यसार्वधातुके कथं दीर्घत्वमिति न व्यक्तीकृतम् । औणादिके 'मुषेर्दीर्घश्च' ( २।४२ ) इति दीर्घत्वविधानं ह्रस्वोपधत्व एव घटते, न तु 'मूष' इति दीर्घोपधत्वे । क्र्यादिकस्य ह्रस्वोपधस्यापि दीर्घविधानमकिञ्चित्करं 'मूष' इत्यनेनैव सिद्धत्वात् ।
२. 'उष ऊष' इति धातुद्वयस्य पाठात् चुषादयः चूषादयश्च उभयथा विभिन्ना एव धातव इति सुव्यक्तम् । तत्र काशकृत्स्नेन चुषादयः पठिताः, पाणिनिना च चूषादयः ।
३. 'उषति' इत्यत्र गुणाभावः कथमिति न ज्ञायते । एवं कृदन्तेष्वपि ।
४. 'ऊषति' इत्येवमादीनि रूपाण्यग्रेऽपि प्रदयन्ते (द्र० १।२९९ ) । तत्र धातुसूत्रे तु 'ऊष' न पठ्यते, परं वृत्तौ व्याख्यायते ।
५. पाणिनीयाः 'इष्टम् , इष्टिः, इष्टिका' इत्येवमादीन् यजधातोः सम्प्रसारणं कृत्वा साधयन्ति । वस्तुतः कृतसम्प्रसारणरूपाः 'इष उप उष' इत्यादयः, अकृतसम्प्रसारणाश्च 'यज वप वस' इत्यादयः स्वतन्त्रा एव धातवः । अत एवोक्तम् भगवता यास्केन--तद्यत्र स्वरादनन्तरान्तस्यान्तर्धातुर्भवति तद् द्विप्रकृतीनां स्थानमिति प्रदिशन्ति ( निरुक्त २।२ )।

43
२९३. कष शिष जष झष वष मष रुष रिष युष यूष [ सजुष]1 जुष जूष हिंसायाम्--कषति--मारयति । कषम्--मलिनम् । कषायः--रसविशेषः । काषायः--रागविशेषः, ओषधिरसः। कषिः--(?)। कष्टम्--दुःखम् । कषणम्--दुःखम् । कषाणम्--अवस्था स्थितिर्वा । काष्ठम्--दारु । काष्ठकम्--दारु । शेषति--अवशिष्यते । शिष्यः--अन्तेवासी। शिष्यकः--अनुकम्पितो निन्दितो वा शिष्यः । शेषः--सर्पः, अवशिष्टो भागः। शिष्टम्--अवशेषः । जषति--भक्षयति । जषः--मत्स्यः । जषिः--ग्रासः। जष्यम्--ग्रासः । जषणम्--दशनम् । झषति--भक्षयति, निगिरति । झषः--मत्स्यः । वषति--भक्षयति । वषिता--उदरम्भरिः (पेटू इति भाषायाम् )। वष्यम्--भक्षितम् । वषिः--खाद्यम् । मषति--दशति । मषकः--दंशः (डांश मच्छर इति प्रसिद्धः)। मषिः--कार्ष्ण्यम् । मष्यम्--अतिपक्वं फलम् । मषीतिः--बुद्धालयः । मष्टिः--(?)। रोषति--विवदते । रोष्या--रोष्टा, विवदिता । रुट्--क्रोधः। रोषः--क्रोधः । रुषिः--क्रोधः । रुष्यम्--कलहितम् । रूषणम्2--(?)। रुषमः--अग्निः, वृषभः । रुष्टिः--रोटिका । रेषति--हिनस्ति । रेष्टा, रिषिः, रिषः । रेषः--श्लेष्मा । रेषणम--हिंसनम । योषति--हिनस्ति । योषा--स्त्री । योषित्--पत्नी। युष्टम् , युष्टिः, युषिः, योषणम्--विवादः। युष्मत्--( सर्वनाम)। यूषति--मारयति । यूषिता--घातकः । यूषिः--घातककृत्यम् । यूष्टम्--मारितम् । यूषणम्--ताडनम् । यूषम्--(?) । सजोषति--मिश्रयति । सजोषस्--( ? ) सजोष्टा--मिश्रकः । सजुष्टम्--मिश्रितम् । सजोषः--सम्मेलनम् । सजुष्टिः--मिश्रणम् । सजुषिः--मिश्रणम् । सजुट्--मिश्रितो मानवः (?)। जोषति--भक्षयति । जोष्टा--भक्षयिता । जुष्टम्--भक्षितम् । जुष्टिः--खाद्यम् । जोषः--खाद्यम् । जूषति--ददाति । जूषिता--समर्पकः । जूष्टम्--समर्पितम् । जूट्--लोहदण्डः । जूषिः--समर्पितम् । जूषः--भोजनम् । जूषणम्--आहारः।
२९४. भष भर्त्सने--निन्दायाम् । भषति--गालिं ददाति, निन्दति3 । भषिता--निन्दिका । भषकः--निन्दकः । भषणम्--निन्दा । भषितम्--निन्दितम् ।
२९५, जिषु णिषु विषु मिषु पृषु वृषु उक्ष सेचने--घर्षणे । जेषति--घर्षयति । जेष्टा--घर्षकः । जिष्ट्वा4 --घर्षयित्वा । जेषित्वा4 --घर्षयित्वा । नेषति--

टिप्पणी


१. अयं धातुरपठितोऽपि वृत्तौ 'यूष' धातोरनन्तरं व्याख्यायते, तदनन्तरं च 'जुष' इति ।
२. दीर्घत्वमत्रकथम् ? । 'रूसना' इत्यख्यैवापभ्रंशः ।
३. भषतिः श्वरवे प्रयुज्यते--श्वा भषति ।
४. उदित्त्वादिह क्त्वायामिड्विकल्पः । द्रष्टव्यम् 'उदनुबन्धादिड वा' सूत्रम् (पूर्वत्र १।२२३ वृत्तौ, पृष्ठ ३०)

44
सिंचति । नेषिता, नेष्टा1, निषः2, निषक:2 निषुः2--एते पञ्च संघर्षयितृषु । निष्टम्--घर्षितम् । निषाणः--घर्षकः । वेषति--वपति ( भूमौ)। वेष्टा, वेषिता, वेषकः, वेषः, वेषुः--पञ्चैतै वप्तृषु । विषाणम्--शृङ्गम् । विषम् , विषः, विषिः--भूम्यन्तर्गतः कीटविशेषः । विष्टिः--बलम् । विष्टा--मलम् । मेषति--चालयति । मेषः--बर्करः (?, मेंढा इति प्रसिद्धः )। निमेषः, निमेषणम् , निमिषम्--त्रीणि चक्षुरुद्धाटने । मिष्टा, मिषिता, मिषाणः, मिषकः, मिषुकः,--एते पञ्च वप्तृषु (?) । पृषति3–वपति । पृषिता, पृष्टा, पृषन् , पृषाणः, पृषकः--एते पञ्च घर्षयितृषु । पृषत्--वर्णविशेषः ( चितकबरा इति प्रसिद्धः)। पृष्टम्--उप्तम् । पृष्टिः--वपनम् । पृषिः, पृषुः, पार्षुः, पर्षणम् , पुपृषाणम्--एते पञ्च वपने । वर्षति--मेहति । वर्षा, वृष्टिः, वर्षम्--एते वर्षायाम् । वृषणम्--अण्डकोशः। वृषाणः--घर्षकः । वृष्टम्--सिंचितम् । वृट् , वृषिः, वृषा, वृषभः, वार्षुः, वर्षकः--एते पञ्च वप्तृषु ( ?) । उक्षति--वपति । उक्षा--वप्ता । उक्षितम्--उप्तम् । उक्षणम्--बीजम् । उक्षिता, उक्षाणः, उक्षकः, उक्षुः, ऊक्षु4--एते पञ्च वप्तृषु ।
२९६. मृषु हसने5 च--हर्षे, धर्षणे । मर्षति--हसति, धर्षयति । मर्षः--धर्षकः । अघमर्षणम्--पापनाशकम् । परामर्शः--विचारः, मन्त्रणा ।
२९७. पषु पाषु दृषु धृषु धारणे--पषति--घर्षयति । पाषाणः6 --अश्मा । पष्टम्--घृष्टम् । पषिः, पष्टिः, पषः, पषुः, पषणं, पषकम् एते षट्7 घर्षणे । पाषति--सहते । पाषाण:--अश्मा । पाषिः, पाषः, पाषुः, पाष्टिः, पाषणम् , पाषकम् --एते षट् सहने । दर्षति--वहति । दृषत् , दर्षाणः--एते द्वे पाषाणनाम्नी । दृषिः, दृषः, दृषु, दृष्टिः, दर्षणम् , दर्षकम् , दृट्--एते सप्त सहने । धर्षति--कर्षति । धर्षः, धर्षकः, धृष्णुः--त्रीणि आकर्षक8 नामानि । धृषिः, धृष्टिः, धर्षणम् , धृषः, धृषुः, धृट्--एते कर्षणे ।

टिप्पणी


१. अत्र उत्तरोदोहरणेषु च तृचि उदित्त्वादिड् विकल्पः (द्र० पृष्ठ ४३, टि० ४)।
२. 'निषः निषकः निषुः' इत्यत्र गुणाभाव उदाह्रियते, उत्तरत्र च 'वेषकः, वेषः, वेषुः' इत्यत्र गुणः । किमत्र नियामकमिति न विद्मः ।
३. तिपि कृदन्तेषु च गुणाभावः कथमिति न ज्ञायते ।
४. दीर्घत्वमत्र कथमिति न ज्ञायते ।
५. पाणिनीयाः सहने इति पठन्ति ।
६. पाषाणपदम् उत्तरधातोः पाषतेरपि साध्यते ।
७. कन्नडटीकायाम् एते पञ्च' इत्येवं पठ्यते, षट् च तत्रोदाह्रियन्ते। उत्तरधातुकृदन्तोदाहरणेषु 'षट' संख्या स्पष्टमुच्यते।
८. निकषः (कसौटी) इत्यर्थः ।

45
२९८. पुषु पुष्टौ--धारणे । पोषति--पालयति । पोषकः--पालकः । पोषणम् , पोषाणम् , पुष्टिः, पुषिः, पुषः, पुषु--एते षट् धारणे पालने च।
२९९. श्रिषु श्लिषु प्रुषु प्लुषु [ ऊष]1 दाहे--श्रेषति--दाहेन पीड्यते श्रेषिता, श्रेष्टा, श्रेषकः, श्रेषः--एते चत्वारः दाहकर्तृषु । श्रेष्टम्--दाहेन तप्तम् । श्रिषिः श्रिष्टिः, श्रिषः, श्रिषु, श्रयणम् , श्रयाणम् , श्रिट्--एते सप्त दहने । श्लेषति--सहते श्लेषिता, श्लिष्टा2 श्लेषकः--एते त्रय सोढृषु । श्लिट् , श्लिषिः, श्लिषुः, श्लिषः श्लयनम् , श्लयानम् , श्लयत्--एते सप्त सहने । प्रोषति--द्रवीकरोति । प्रुषत्--द्रवम् । प्लुष्टम्--द्रवीकृतम् । प्रुष्टिः--द्रवम् । प्रुषिः, प्रुषकम् , प्रुषणम् , प्रुषाणम्--एते चत्वारो द्रवीभावे । प्लोषति--द्रवति । प्लोषिता, प्लुष्टा, प्लोषकः--त्रीणि द्रवीभूते। प्लुट् , प्लुष्टिः, प्लुषिः--एते त्रयो द्रवीभावे । ऊषति--वाष्पयति । ऊष्मा--वाष्पम् । ऊषरा--मरुप्रदेशः । उट् , उषिः, उष्यः, उष्टिः, ऊषत् , ऊषणम् , ऊषाणम्--एते सप्त वाष्पे ।
३०० घृषु संघर्षे–घर्षति--संघर्षं करोति । घर्षकः, घर्षिका, घृष्टा3 एते त्रयः संघर्षके । घृषिः घृष्टिः, घृषत् , घर्षणम् , घृषाणम्--एते पञ्च4 आतपे सूकरे च । घृष्टम् -- संघृष्टम् ।
३०१. हृष अलीके--आनन्दे । हर्षति--आनन्दितो भवति । हर्षिता , हृष्टः, हृषकः--त्रयः संतोष्टरि । हृष्टम्--सन्तुष्टम् । हृष्टिः, हृषिः, हर्षः, हर्षणम् हृषाणम् , हृषत् , हृट्--सप्त आनन्दे ।
३०२. तुस ह्रस ह्लस रस शब्दे--ध्वनौ । तोसति--ध्वनयति । तोसकः --ध्वनयिता । तुसारः, तुसः, तुस्यः, तुस्ति, तुस् , तुसितम्--एते षट् अल्पे। ह्रसति--तनूभवति । ह्रस्वः--तनु लघु । ह्रसितम् , ह्रसिः, ह्रसः, ह्रस् , ह्रसु--पञ्चैते तनूभावे । ह्लसति--कठिनो भवति । ह्लसितम् , ह्लसः, ह्लसिः, ह्लसुः, ह्लस--एते पञ्च काठिन्ये । रसति--रसयुक्तो भवति । रसः । रसना--जिह्वा । रासभः –

टिप्पणी


१. अयं धातुसूत्रे तु नोपलभ्यते, परं कन्नडवृत्तौ व्याख्यायते । धातुरयं १।२९० सूत्रे ऽपि पठ्यते व्याख्यायते च ।
२. बहुत्र तृचि गुणाभाव उदाह्रियते--यथा श्लिष्टा, प्लुष्टा, घृष्टा ( १।३०० सूत्रे), बहुत्र च गुणः-- यथाऽत्रैव श्रेष्टा इति । किमत्र तत्त्वमिति न जानीमः, काशकृत्स्नव्याकरण --स्थानुपलम्भात् ।
३. एतत् पृष्ठस्था द्वितीया टिप्पणी द्रष्टव्या।
४. 'त्रयः' इति कन्नडटीकायाम् ।

46
गर्दभः। रासिमा--रसता। रसिकः--सहृदयः। रसालः--मधुरमाम्रम् । रसितम् , रसिः, रसुः, रसकम् , रसत् , रसानम् , रसायनम्, रस्--एतेऽष्टौ रसीभावे ।
३०३, लस श्लेषणक्रीडनयोः--सहने (?) क्रीडने च । केल्यां लसति कउभ्य म् (?) शिवः शक्तिभिः क्रीडति कैलासः--रजतपर्वतः । लासतम् , लसिः, लसुः, लस्तिः, लसः, लसालम् , लसनम्--एते सप्त क्रीडने ।
३०४. जर्च चर्च झझ छछ--परिभाषणतर्जनयोः--जर्चति--गप्पयति1 ( गप्पं वदति)। जर्चनम्--गप्पवदनम् । चर्चति--विमर्शयति । चर्चा, चर्चिका--विमर्शः, गौरी । झर्झति--झर्झरशब्दं करोति । झर्झरः--जलप्रवाहध्वनिः, 'ताली वा सीटी बजाना' इति । छछति--बिभेति । छर्छा--भयम् । छर्छरः--अग्निः ।
३०५, हस हसने--हसति । हासकः--हास्यकारः । हसः, हसनम्, हसिः, हसुः, हसितम्, हास्यम्--एते षट् हास्ये। अट्टहासः--उच्चैर्हासः। हसन्ती--हास्यकारी । हासङ्गी--नग्नः, मार्गः, चदरंग (?)। हासिका--विष्टरः, कान्तिश्च । चन्द्रहासः--चन्द्रिका, रावणस्य खड्गः । हसिः--अपक्कम् । हासुः--कटम्, तन्तुनिर्मिता स्थूला रज्जुः ।
३०६. णिश समाधौ--तृषाशान्त्याम् । नेशति--तृषा न भवति (?)। निशा, निशीथिनी, निशुः--एतानि त्रीणि रात्रिनामानि । निशितम् , निशातम् , निशातनम्--इमानि त्रीणि तमोनामानि । निशाकरः, निशापतिः--एते द्वे चन्द्रमसि । नेशनम्--सूर्यः।
३८७.मिश मश शब्दे रोषे च--मेशति--ध्वनिं करोति । मेशः--भ्रमरः । मिक् , मिशिः, मिशः, मिशुकम्, मेशनम् , मेशानम् , मिशितम्--(?)। मशति--ध्वनति । मशकम् , मश् , मशितम् , मशिः, मशः, माशः, माशुः, मशु--एतेऽष्टौ ध्वनौ।
३०८. शव शब पिसृ पेसृ गतौ। शवति--विकृतो भवति ( 'सड़ता है' इति भाषायाम् ) । शवः--प्राणरहितं शरीरम् । शबृ (?), शविः, शवुः, शवितम् , शावम् , शावनम् , शवत्, शवानम्--एतेऽष्टौ विकारे । शबति--अग्रे गच्छति । शबरः--व्याधः । शबम्--शवः । शबरी--व्याधा। शाबः--(?)। पेशति--लगति । पिशितम्--अङ्गारकम् । पिशङ्गम्--रक्तवर्णम् । पिशमञ्चति (अङ्गारं भक्षयति)

टिप्पणी


१. धातुपाठेषु साक्षादपठितोऽपि 'बहुलमेतन्निदर्शनम्' इति सूत्रेण संगृह्यते। तथा चोक्तं स्वामिदयानन्देन--'गपृ मिथ्यापरिभाषणे, तस्मात् पः प्रत्ययः गपयते (?, गप्पते) यत्तत् गप्पम् ।' द्र. स्वामी दयानन्द सरस्वती के पत्र और विज्ञापन, पृष्ठ २ ।

47
पिशाचः, रेतः । पिशुन:--अपकारप्रयुक्तसूचनाप्रदायकः ('चुगली खानेवाला' इति भाषायाम् )। पैशुन्यम्--अपकारप्रयुक्तं सूचनम् । पिक्, पिशिः, पिशुः, पैश्यम्--एतानि पञ्चाङ्गारनामानि । पेशति--भरति । पेशलम्--भरणम् । पेशी--मांसम् । पिक्, पेशनम् , पेशुः, पैश्यम्--एतानि चत्वारि अङ्कुरधारणे ।
३०९. शश प्लुतगतौ--कूर्दने । शशति--कूर्दते । शशः, शशकः--'खरगोश' भाषायां प्रसिद्धः । शशी--चन्द्रः । शक्, शशिः, शशितम् , शाश्यम्--एते पञ्च कूर्दने।
३१०. शसु हिंसायाम्--विकर्तने । शसति--कृन्तति । शस्त्रम्--विकर्तनसाधनम् । शसिः, शसुः, शसितम् , शसनम्--एते चत्वारो विकर्तने । शसकः--विकर्तकः, घातकः।।
३११. शंसु स्तुतौ--शंसति--स्तौति । शंसकः--स्तावकः । शंसा, शंसनम् , शंसिः, शंसुः, शंसितम्--एते पञ्च स्तुतौ।
३१२. मिह सेचने--घर्षणे । मेहति--घर्षति । हो ढ:--धातोर्हकारस्य ढकारो भवति--'मिढ तृ' । सतवर्गयोः शचवर्गयोगे शचवर्गौ--सकारस्य तवर्गस्य शकारटवर्गयोर्योगे शकारः चवर्गश्च भवति । [ षटवर्गयोगे षटवर्गो--सकारस्य तवर्गस्य षकारटवर्गयोगे षकारः टवर्गश्च भवति ] 'मिढ् ढृ' । ढो ढे लोपः पूर्वस्य समानस्य दीर्घः--ढकारस्य ढकारपरे लोपो भवति, पूर्वस्य समानसंज्ञकस्य च वर्णस्य दीर्घो भवति--'मीढृ' । नामनो (?, नामिनो) गुणः सर्वधातुकासार्वधातुकयोः--नामिसंज्ञकानां3 गुणो भवति सार्वधातुके असार्वधातुके च परतः--'मेढृ' । 'मेढृ सि’--सेर्डा--सेः प्रथमैकवचनस्थाने डा आदेशो भवति 'सेढृ डा' अनुबन्धे स्तनादेलोपः4 (?) अनुबन्धे परतः अन्तस्तो (?) लोपो भवति मेढ् आ =

टिप्पणी


१. कोष्ठान्तर्गतः पाठो कन्नडटीकायां नोपलभ्यते । विनाऽनेन सूत्रेणेह कार्यसिद्धिर्न भवति इत्यत ऊहितोऽयं पाठोऽस्माभिः ।
२. 'दश समानाः' इति कातन्त्रसूत्रेण (१।१।३) अ आ इ ई उ ऊ ऋ ऋ लृ लृ स्वराणां समानसंज्ञा भवति । प्रातिशाख्येषु क्वचित् दीर्घलकारवर्जं नवानां समानसंज्ञा विधीयते, क्वचित् ऋकारस्य दीर्घप्रभेदमपि परित्यज्याष्टानामेव ।
३. अकारवर्जमन्ये स्वरा नामिसंज्ञका भवन्ति । द्र० स्वरोऽवर्णवर्जो नामी ( कातन्त्र १।१।७)।
४. अस्य सूत्रस्य पाठो वृत्तिपाठश्चोभावपि भ्रष्टौ। प्रक्रियानुसारं तु 'डा' आदेशस्य अनुबन्धलोपेऽनेन सूत्रेण अन्त्यस्य ऋकारस्य लोप इष्यत इति प्रतीयते। तुलना कार्या--डित्यभस्याऽप्यनुबन्धकरणसामर्थ्यात् इति पाणिनीयवचनेन सह । कातन्त्रे तु सि परतः ऋकारस्याकारादेशः सेश्च लोपो विधीयते (द्र० २।१।७०,७१ )।

48
मेढा--परिभावकः ( दबाने वाला ) । मेढः, मेहः, मेहनम् । मीढुस् --सेचकः । मीढुष्टमः--सेचकेषु श्रेष्ठः । मीढम्--घर्षकः। मीढ्वा--परिभूय । मिहिका--अवश्यायः । ३१३. मजि णजि भजि कजि जिजि कुजि पजि हुजि षजि कलजि हिंसागत्योः--हिंसायां गत्यां च । मञ्जति--हिनस्ति । मञ्जरः--विडालः । मञ्जु--हिमम् । मञ्जुळम्--स्वादिष्टम् । मञ्जाडिः--मद्यविशेषः । मञ्जी--तृणम् । मञ्जीरम्--( ? )। नञ्जति--विस्मरति, नाशयति । नञ्जम् , नञ्जु, नञ्जि, नञ्जनम्--चत्वारि विषे । नञ्जुरुळः--भूनागः । नञ्जडम्--मांसम् । भञ्जति--क्रीडति । प्रभञ्जनः--वायुः । सालभञ्जा, सालभञ्जिका--क्रीडनकम् (? क्रीडाविशेषः)। कञ्जति--कृन्तति । कञ्जरम--यमस्यास्त्रम् । कञ्जम--कमलम् । कञ्जी--दुग्धविशेषा (?)। जिञ्जति--कष्टायते । जिञ्जिरी--(?)। जिञ्जा, जिञ्जिका, जिञ्जि--त्रीणि लताविशेषे । कुञ्जति--प्रसरति । कुञ्जः, निकुञ्जः--कन्दरा। कुञ्जिः कुञ्जुः कुञ्जनम्--त्रीणी कुञ्जविशेषे । कुञ्जरः--हस्ती। पञ्जति--प्रकाशते । पञ्जः--महादीपः ( बड़ा दीवा)। पञ्जरम्--गृहम् । हुञ्जति--पतति । हुञ्जा--कुक्कुटी। हुञ्जः--कुक्कुटः, सूक्ष्म सूत्रम् । सञ्जति--सन्ध्या भवति । सञ्जा--तमः। सञ्जी--यवनिका ('पड़दा' इति भाषायाम् )। कळञ्जति--विस्मरति । कळञ्जः--भङ्गक्षुपविशेषः । कळञ्जा, कळञ्जिकारी--द्वे मद्ये । कळञ्जः--फलविशेषः ।
३१४. दह भस्मीकरणे--दहति--दग्धं करोति । दहनम्--अग्निः । धक् , दग्धम् , दग्धि, दाहः--चत्वारि घर्मे ( तापे )। दहनम्--श्मशानम् ।
३१५. चह चुह डह डिह डुह परिकल्कने--धौर्त्ये । चहति--धौर्त्यम् आचरति । चाहकः--धूर्तः । चहनम् , चग्लम् , चग्लिः (?), चाहः, चक--एतानि पञ्च धौर्त्ये । चोहति--वञ्चयति । चोहः--बहुरूपः ('बहुरूपिया' इति भाषायाम् ।। छक् (?, चुक) चोहकः--द्वे सूचके । डोहति5 --चर्म सीव्यति । डेहारः--चर्मसीवकः । ढक् ( ? डक ) डेहनम्--द्वे सीवने । डहुः--पुष्पविशेषः ।
३१६. कुह गह गहि गुह गूह ष्णिह बह षिहि अह ष्णुह तुह कह जह हिंसागत्योः । कोहति--नाशयति । कोहळम्--शिरोवस्त्रम् (टोपी इति प्रसिद्धम् ) कुहकः--वञ्चकः (ऐन्द्रजालिकः)। कुहरम्--अवश्यायः । गहति--भीषयति । गहनम्--वनम् । गेहति--कम्पयति । गेहनम्--गम्भीरम् । गोहति –

टिप्पणी


१. धातुसूत्रे 'डह डिह डुह' त्रयो धातवः पठ्यन्ते । इह तु कस्यचित् किञ्चित् रूपम् , कस्यचिद् अपरं रूपम् इत्येवं मिश्रीकृतः पाठ उपलभ्यते ।

49
गोपयति । गुहः--षण्मुखः । गुहा--कन्दरा। गुह्यम्--रहस्यम् । गुह्यकः--यक्षः । गूहति--सहते । गूहनम्--सहनम् । स्नेहति--लगति । स्नेहः--तैलम् । बहति--चलति ( पवनचलन क्रिया )। बाहुः, बाहा--द्वे भुजायाम् । बहुः, बहलम्--द्वे आधिक्ये। बहुलम्--कृष्णपक्षः। बहिर्--बहिर्भावे । सिंहति--विदारयति । सिंहः1--वनराजः । सिंहळ:--लङ्का । अहति--नाशयति । अहस्--दिनम् । अहिः--सर्पः । तोहति--शीतं करोति । तुहिनम्--हिमम् । तोहुः--व्याधदृष्टिः । स्नोहति--पतति । स्नुहिः--(?)। कहति--शब्दयति । कहळा--(?) जहति--प्रसरति । जाहरः--नगरम् ।
३१७. रह त्यागे--रहति--त्यजति । रहस्--एकान्तः । राहुः--मुरासुरस्य शिरः । रहितः, राढा, राहकः--त्रयस्त्यक्तरि । रहणम् , रहिः, रहुः, राढम् , राढिः--एते पञ्च त्यागे।
३१८. रहि गतौ--रंहति--चलति । रंहस् , रंहणम् , रंहिः, रंहुः, रंहितम् , रण्ढम् , रण्ढिः--सप्तैते शीघ्रस्य वाचकाः । रण्ढा, रंहकः द्वौ शीघ्रगमके ।

टिप्पणी


१. हिंसेराद्यन्तवर्णव्यत्ययेन सिंह इति यास्कः ( निरुक्ते ३।१८) पतञ्जलिश्च ( महा० ३।१।१२३, अन्यत्रापि च )। नित्याः शब्दा इति चोभौ संगिराते । नित्येषु च शब्देषु वर्णव्यत्ययो न सम्भवति । तस्मादनयोः को वास्तविकोऽभिप्राय इति गवेषणीयम् । वयं तु पश्यामः--हिंसधातोराद्यन्तवर्णविपर्यये कृते यो लोकेऽप्रयुक्तः 'सिंह' धातुः सम्पद्यते तस्मात् सिंह इति पदं सिद्ध्यति । निरुक्तव्याकरणशास्त्रयोर्यत्र कुत्रापि वर्णलोपो वर्णागमो वर्णविपर्यय आदेशो वा विधीयते तत्र सर्वत्रापि धातुप्रातिपदिकयोस्तत्कार्यं कृत्वा यत् रूपं सम्पद्यते तस्मात् मूलभूतप्रकृतेः प्रत्ययो भवतीत्येवाभिप्रायः। प्रक्रिया चेयं नैरुक्तैर्वैयाकरणैश्च तत्रैवाश्रीयते यत्र कस्याश्चिन्मूलभूतायाः प्रकृतेः प्रयोगस्तस्मिन् काले लोकप्रयोगे नोपलभ्यते, तन्निष्पन्नाश्च शब्दाः कृदन्तास्तद्धितान्ता वा प्रयुज्यन्ते । तत्राचार्या अप्रयुज्यमानायाः प्रकृतेः शब्दतोऽर्थतश्च सदृशीं कांचिदपरां लोकप्रयुक्तां प्रकृतिमुपादाय तस्यां लोपागमविकारादीन् कृत्वा अप्रयुज्यमानाया मूलप्रकृतेः स्वरूपं निष्पाच तन्निष्पन्नानां शब्दानामन्वाख्यानं कुर्वते । इत्थं चैते आचार्या एकेनैव प्रयत्नेन लोकेऽप्रयुक्ताया लुप्ताया वा मूलभूतायाः प्रकृतेः स्वरूपम्, अप्रयोगादज्ञायमानं चार्थमन्वाचक्ष्य तन्निष्पन्नानां शब्दानां साधुत्वमपि ब्रुवते । सुरभारतीयमादिकाले शब्दतोऽर्थतश्चातिविशालाऽऽसीत् । उत्तरकालमस्या उत्तरोत्तरं ह्रासः समजनि । तेन केषांचिच्छब्दानां प्रकृतयो नष्टाः, कासांचिच्च प्रकृतीनां तन्निष्पन्नाः शब्दाः। तदेवमाकुलीभूतायां सुरभारत्यां तत्कालिकैर्वैयाकरणैर्लोपागमवर्णविकारादिप्रक्रियामाश्रित्य विद्यमानाभ्य एव प्रकृतिभ्यो लुप्तप्रकृतिकानां शब्दानां साधुत्वविज्ञापनायेयं व्यवस्था प्रवर्तिता । एतद्विषयेऽस्माभिः स्वीये 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नो ग्रन्थस्य 'संस्कृत भाषा की प्रवृत्ति विकास और ह्रास' नाम्नि प्रथमाध्याये विस्तरेण प्रतिपादितम्, तत्तत एव द्रष्टव्यम् ।

50
३१९. अहि कलुषे--मथने । अंहति--मथति । अंहस् , अंहिः, अंहनम् , अंहितम्--चत्वारि मन्थने।
३२०. दृहि, बृहि, बृह, ब्रह्म1 वृद्धौ--दृंहति--वर्धते । दृंहस् , दृंहिः, दृंहुः, दृंहणम् , दृंहितम्-- एतानि पञ्च वृद्धौ । बृंहति--वर्धते स्थूलो वा भवति । बृंहस , बृंहिः, बृंहुः, बृंहणम् , बृंहितम्--पञ्चैतानि दार्ढ्ये (?, वृद्धौ)। बर्हति--वर्धते । बर्हे रु रो मनि--बृहधातोर्ऋकारस्य रो भवति मनि परतः। ब्रह्मन् , बृहत् , बृहण्म् , बृहि, बृहुः, बृहितम्--एतानि षट् वृद्धस्य । बृहती--महती, वीणा, बुद्बुदः, छन्दोविशेषश्च __
३२१. बृहिर शब्दे--ध्वनौ वृद्धौ वा (? ) । बर्हति--शब्दयति । बर्हिणः, बर्ही--एते द्वे मयूरे । बर्हम्--पुच्छम् । बर्हिस्--होमद्रव्यम् ( कुशारूपम् )।
३२२. तुहिर दुहिर् अर्दने--याञ्चायाम् । तोहति--भिक्षयति । तुहिता--पुत्री । दोहति--गच्छति । दुहिता--पुत्रिका ।
३२३. अर्ह मह पूजायाम्--अर्हति--पूजायोग्यो भवति । अर्हन्--पूज्यः, जिनः। अर्हः, अर्हिः, अर्हुः, अर्हणम्--चत्वारि पूज्ये । महति--वर्धते । महः--जनसंघः ( 'जुलूस' इति प्रसिद्धः)। मही, महः--द्वे भूमौ । मट्, महनम् , महनीयम् , महितव्यम् , माह्यम् , माहितम् , महत्, महितम् , महिमन्--एतानि नव पूज्ये । महन्ती, महती--पूज्यायाम् । महकः, महान् , महन्तः, महिष्ठः--चत्वारि महति ।
३२४. ग्लै हर्षक्षये--कष्टे । सन्ध्यक्षराणामाकार:--धातूनाम् ए ऐ ओ औ एतेषां स्थाने आकारो भवति । आतो युः--आकारान्तानां धातूनां 'यु' आगमो भवति अन्विकरणे परे2 । ग्लायति--कष्टं भजते । ग्लैः3, ग्लानिः, ग्लानम्--त्रीणि कष्टे ।

टिप्पणी


१. अयं धातुर्वृत्तौ न व्याख्यायते । तत्र तु बृहेरेव ऋकारस्य रभावमुक्त्वा ब्रह्मन् पदं साध्यते।
२. पाणिनीयास्तु शिद्विकरणेषु आत्त्वं न विदधते--आदेच उपदेशेऽशिति ( अष्टा० ६।१।४५ ) तथा सति आयादेशेन ग्लायति रूपं निष्पद्यते । ग्लैरूपं पठित्वा आकारं विधाय सार्वधातुकलकारेषु पुनः यकारागमविधानरूपं प्रयत्नगौरवं कस्मादादृतं भगवता काशकृत्स्नेनेति न ज्ञायते।
३. अत्रात्वं कस्मान्न इति न व्यक्तीकृतं कन्नडटीकाकर्त्रा, एवमुत्तरत्र म्लौः नौः इत्यादिष्वपि।

51
३२५. ग्लौ हर्षे--ग्लायति1--हर्षितो भवति । ग्लौः--हर्षः।
३२६. म्लै गानविनामे--देहालस्ये । म्लायति--शरीरमलसायते । म्लैः, म्लानिः, म्लानम्--त्रयो म्लाने ( मुरझाने में)।
३२७. णौ प्लवने--नायति1--तरति । नौः नावम् , नावा--त्रीणि नौकायाम् । नः--प्लावकः । न, ना--निषेधे ।
३२८. द्यै न्यक्करणे--धिक्कारे। द्यायति--धिक्करोति । द्यैः द्यानं द्यानिः --त्रीण्येतानि धिक्कारे।
३२९. द्रै स्वप्ने----निद्रायाम् । निद्रायति--स्वपिति । द्रैः--निद्रा। द्राणम् , द्राणः--द्वौ निद्रायाम् । विनिद्रितम्--जागृतम् ।
३३०. ध्रै तृप्तौ--शीतीभावे । ध्रायति शीतो भवति । ध्रैः, ध्राणम् , ध्राणिः--एते त्रयः शैत्ये।
३३१, कै गै रै शब्दे--ध्वनौ। कायति--प्रशंसयति । कैः--वेदः । काया--तनूः। कै लासति आलिङ्गति कैलासः--रजताद्रिः । कैलासः--रोटिका । कायः--शरीरम् । काननम् , कायनम्, कानिः, कीतम्--एते चत्वारः प्रशंसायाम् । कायकः, कायिता--द्वौ गायके । क:--ब्रह्म । गायति--गानं करोति । गायकः, गायिता--द्वौ गायके । गायित्री (?, गायत्री)--शक्तिः, छन्दः, तुरीयः। गयः, गायकः, गैः, गायनम् , गीतम् , गानम् , गीतिः, गीता--अष्टौ गाने । रायति--गायति । रायकः, रायिता--द्वौ गायके । रात्रिः--निशा। ईदातः कानुबन्धे--आकारस्य ईकारो भवति कानुबन्धे प्रत्यये परतः। रीति:--क्रमः, शृङ्गारः। रीतम्, रीता--द्वावलङ्कारे । रायिः, रैः--द्वौ सुवर्णे । रायणम्--ध्वनिः । रायः--राजा । रः--(?)।
३३२. ष्ट्यै ष्यै2 स्त्यै शब्दसंघातयो--ध्वनौ संहाते च । ष्ट्यायति3 -- ध्वनिं करोति सह वा गच्छति । ष्ट्यायकः ष्ट्यायिता--द्वौ ध्वनिकर्तरि, सहगन्तरि च । ष्ट्यैः, ष्ट्यायनम् , ष्ट्यानम् , ष्ट्यानिः--चत्वारः कोलाहले । स्त्यायति--

टिप्पणी


१. अत्र पाणिनीयमते कातन्त्रमते चात्त्वाभावे 'ग्लावति' रूपमिष्यते । एवं नौ इत्यस्य 'नावति' रूपम् ।
२. सूत्रे पठितोऽप्ययं धातुर्न व्याख्यायते कन्नडटीकाकृता।
३. पाणिनीयसम्प्रदाये क्षीरस्वामी दन्त्यादेशं नादिशति । पुरुषकारस्तु स्वामिमतं निराकृत्य दन्त्यादेशं स्वीचकार । सायणोऽपि तमेवानुससार । शाकटायनस्तु 'ष्ट्यायति' इत्येव प्रतिपेदे।

52
सह गच्छति । स्त्यायी--सहगन्त्री । स्त्यायकः, स्त्यायता (?, स्त्यायिता)--द्वौ सहगन्तरि । स्त्री--योषित् । स्त्यायकः स्त्यायिता--गायिका (?)। स्त्यैः, स्त्यानम् , स्त्यायनम् , स्त्यानिः--चत्वारः शब्दे ।
३३३. खै खादने--अदने । खायति--अत्ति । खायकः, खायिता--द्वौ अत्तरि । खैः, खानम् , खातम्, खानि, खातिः, खीतम्--इमे षट् अदने । परिखा, खेयम्--परिखायाम् ('खाई' इति भाषायाम् ) खः--अत्ता। खम्--इन्द्रियम् , सुखम् , आकाशः।
३३४. क्षै जै षै क्षये--नाशे। क्षायति--नश्यति (क्षीणो भवति )। क्षायकः--क्षययुक्तः। क्षैः, क्षायः, क्षीणकः, क्षायणम्, क्षः--पञ्चैते क्षये । जायति--अल्पीभवति । जायमानः--अल्पीकृतः । जैः, जः, जानिः, जानम् , जीनम्--पञ्च क्षये। जाया, जायी--पत्नी। जानुः--जङ्घाया अधःपर्व ('घुटना' इति भाषायाम् )। जातु--एकवारम् । सायति--क्षीणो भवति । सायम्--सूर्यास्तानन्तरः कालः । सायकः--इषुः। षैः, षः, सायनम् , सायमानम्, सानम्, सातम् , सीतम, सीनम्--एतेऽष्टौ क्षये।
३३५. श्रै स्नै पाके--पचनक्रियायाम् । श्रायति--पचति । श्रायकः--पाचकः । श्रायणम् , श्रायम् , श्रातम् , श्राणम् , श्रीणम् , श्रीतम् , श्रैः, श्रेः (?, श्रः)--अष्टौ पाके । स्रायति--पचति । स्रायकः--पाचकः। स्रैः, स्रः, स्रायणम् , स्राणम् , स्रातः, स्त्रीणम् (?, स्रीणम् ), स्त्रीतम् (?, स्रीतम् )--सप्तैते पाके ।
३३६. पै उ1 वै शोषणे--पायति--शुष्यति । पायकः--शुष्यमाणः । पायनम्, पानम्, पातम्, पीतम् , पीनम्, पैः, पः--एते सप्त शुष्कीभावे । अवति1--शुष्यति । अवक:--शुष्यमाणः। उः--लघु । उत--समुच्चये। वायति--श्राम्यति (श्रान्तो भवति)। वायकः--श्राम्यमाणः । वानम् , वातम् , वीनम् , वीतम्, वायनम् , वैः, वः--एते सप्त श्रमे खेदे । वै--निश्चये।
३३७. ष्टै वेष्टने--बन्धने ('लपेटना' इति भाषायाम् )। स्तायति--बन्धयति । स्तायकः--वेष्टकः। स्तैः, स्तः, स्तायनम् , स्तायम् , स्तानम् , स्तातम् , स्तीतम् , स्तीनम्--सप्तैते परिवृत्तौ = वेष्टने ।
३३८. देष् (?, दैष् ) शोधने--दायति--परिशोधयति । दायकः--परिशोधकः । देः (?, दैः), दः, दायनम्, दायम्, दानम् , दातम् , दीनम्, दीतम्--अष्टावेते शोधने।
53
३३९. धेट पा पाने--धेटो यः (?, धयः)--धेटो धातोर्धय आदेशो भवति । धयति--पिबति । धायकः--पायकः । धैः (?, धेः), धः, धायनम् , धातम् , धीनम् , धीतम्, धयनम् , धम् , धयत्--एते दश पाने । पः पिबः--पाधातो पिबादेशो भवति । पिबति--धयति । पायकः, पाता--पानकर्तरि । पाः, पः, पानम् , पेयम् , पिबत्--पञ्चैते पेये (?, पाने)। द्विपः--हस्ती। पादपः--वृक्षः । पीतम्--पानक्रियया गृहीतम् । पीतिः, पानकम्--द्वौ पानीये।
३४०. घ्रा गन्धोपादाने--घ्राणे । घ्रो जिघ्रः--घ्रा धातोर्जिघ्रादेशो भवति । जिघ्रति--गन्धं गृह्णाति । घ्रायकः, जिघ्रन् , जिघ्राणः--त्रयो गन्धग्रहीतरि । घ्रातम्, घ्राणम् , घ्रीतम् , घ्रीतिः, घ्रेयम्, घ्रातव्यम्, घ्राणीयम् , घ्राः, घ्रः--नवैते घ्राणे।
३४१. ध्मा शब्दाग्निसंयोगयोः--ध्वनौ अनिसंयोगे च ('धौंकना' इति भाषायाम् )। ध्मो धमः--ध्मा धातोर्धमादेशो भवति । धमति--शब्दयति मुखेनाग्निं ज्वलयति । शङ्खध्माः--शङ्खस्य धमकः1 । अग्निध्माः--अग्नेर्मुखेन प्रज्वालकः। ध्मः, ध्माः, ध्मानम् ध्मानीयम् , ध्मेयम् , ध्मातव्यम् , ध्मीतम् , ध्मीनम्--ओष्ठौ संयुज्य शब्दने ।
३४२. ष्ठा गतिनिवृत्तौ--गत्यवरोधे आसादने । स्थस्तिष्ठः--स्थाधातोस्तिष्ठादेशो भवति । तिष्ठति--आसीदति । तिष्ठन् , तिष्ठानः, स्थायिता, स्थानकः, स्थानिकः, स्थापकः--एते षट् आसीदितरि । स्थानम् , स्थापनम्, स्थेयम्, स्थानीयम् , स्थितम् , स्थितिः, स्थः, स्थाः --एतेऽष्टा उपवेशने।
४४३. म्ना अभ्यासे--पुनःपुनरावृत्तौ । म्नो मनः--म्नाधातोर्मनादेशो भवति । मनति--पठति अभ्यसते। म्नाः, म्नः, म्नाता मायकः--चत्वार एते पाठके, विदुषि । म्नानम् , म्नेयम्, म्नानीयम् , म्नातव्यम् , म्नितम् , म्नितिः, आम्नायः, समाम्नायः--अष्टावेते विद्यासु।
३४४. दाण् दाने--दाणो यच्छुः2-- दाण् धातोर्यच्छु--आदेशो भवति । यच्छति--ददाति । दः, दाः, दाता, दायकः, दानी--पञ्चैते दातरि । दानम् , देयम् दापनम् , दातव्यम् , दानीयम् , दायम् ,दितम् , दितिः--एते अष्टौ दाने ।

टिप्पणी


१. औणादिकः क्वुनन्तः। अत्र क्षीरतरङ्गिण्यां १३६ तमस्य पृष्ठस्यास्मदीया द्वितीया टिप्पणी द्रष्टव्या।
२. उकार इत्संज्ञक उच्चारणार्थो वा । यद्वा 'यच्छः' इत्येव शुद्धः पाठः स्यात् । कातन्त्रेऽपि 'दाणो यच्छः' (३।८।७५) इत्येव सूत्रं दृश्यते ।

54
३४५. ह्वृ कौटिल्ये--अनार्जवे । ह्वरति--कुटिलमाचरति । ह्वर्ता, ह्वरकः, ह्वरः,--त्रय एते कुटिलव्यवहारकर्तरि । ह्वः, ह्वरणम् , ह्वृतम् , ह्वृतिः, ह्वरणीयम् , ह्वर्तव्यम, ह्वर्यम्, ह्वार्यम्--एतेऽष्टौ कौटिल्ये।
३४६. स्वृ शब्दोपतापयोः--ध्वनौ उपतापे (खेदे ) च । स्वरति--सप्त स्वरान् प्रकाशते वीणा । कोष्ठपालश्चोरं स्वरति--निस्त्रिंशधारी1 चोरं हन्तीत्यर्थः । स्वर्--स्वर्गः । स्वरकः, स्वर्ता--द्वावेतौ शब्दयितरि । स्वरः, स्वरितः, स्वरणम्, स्वृतिः, स्वृतम्, स्वृ--षडैते शब्दविशेषे । स्वर्ता, स्वारकः, स्वारः--त्रयो ध्वनौ ।
३४७. स्मृ ध्यै चिन्तायाम्--विचारे । स्मरति--चिन्तयति । स्मरः--मन्मथः । स्मृ, स्मरणम् स्मृतिः, स्मृतम् , स्मरणीयम् , स्मर्तव्यम् , स्मार्यम् -- सप्तैते स्मृतौ। स्मर्ता, स्मरकः, स्मारः--चिन्तयितरि । स्मृत्वा--चिन्तित्वा । ध्यायति--ध्यानं करोति (विचारयति)। ध्याता, ध्याः, ध्यायकः--त्रयश्चिन्तके । ध्यानम् , ध्येयम् , ध्यातव्यम् , ध्यानीयम्--चत्वारो ध्याने ।
३४८. द्वृ ह्वृ2 वरणे--आच्छादने, स्वस्थाने । द्वरति--छिद्रं करोति । द्वारम्--गमनमार्गः । द्वर्ता, द्वरकिः (?, द्वरकः )--आच्छादनकर्तरि । द्वरणम् , द्वृतिः, द्वृतम् , द्वृ, द्वर्तव्यम् , द्वरणीयम् , द्वार्यम्--सप्तैतानि स्वस्थाने । ह्वरति--निवसति । ह्वर्ता, ह्वरकः -- द्वौ निवसितरि । ह्वरणम् , ह्वृ, ह्वरणीयम् , ह्वर्तव्यम्, ह्वार्यम्--पञ्च स्वस्थाने ।
३४९. सृ गतौ--चलने । सरति--चलति । सर्ता, सरकः -- द्वौ गन्तरि । सरस् , सर--द्वौ सरोवरे । ह्रस्वस्य तोऽन्तः (?,न्ते) पानुबन्धे3--ह्रस्वस्य धातोरन्ते 'त्' आगमो भवति पकारानुबन्धे प्रत्यये परतः । सृत् , सृ, सरणम् , सरस्वत् , सारम् , सारः, सरिः, सरः, सारुः, सारणम् , सार्यम् , सर्तव्यम् , सरणीयम् , सृतिः, सृतम् , सरत् , सर्यमाणम्--सप्तदशैते चलने । सरणिः--मार्गः। सरस्वती--एतन्नाम्नी नदी देवता च । सारस्वतः--एतन्नाम ऋषिः, कविः।

टिप्पणी


१. एतदर्थानुसारं 'कोष्ठपाल' स्थाने 'कोश्यपाल' इति साधु स्यात् (कोशे भवः कोश्यो निस्त्रिंशः)।
२. ह्वृ कौटिल्ये पूर्वं ( १।३४५) गतः ।
३. यद्यप्यत्र सूत्रे तकारागमस्य विकल्पो नोक्तः, तथापि इहोदाहरणे 'सृत् सृ' उभयोः निर्देशात् पूर्वत्र च 'स्वृ' (३४६), 'स्मृ' ( ३४७ ), 'द्वृ' (३४८) आदिषु तकारागमरहितोदाहरणाच्च विकल्पोऽत्र द्रष्टव्यः । पाणिनीयास्तु नित्यं तुकमाहुः ( अष्टा. ६।१।७१ )। यदि तत्रापि पूर्वसूत्राद् बहुलग्रहणानुवृत्तिः स्यात्तर्हि उभयथा सिद्धिः संभवति ।

55
३५०. ऋ प्रापणे च--गतौ। ऋ ऋच्छ:--ऋ धातोर्ऋच्छादेशो भवति । ऋच्छति--चलति । अर्तः (?, अर्ता), आरकः, आरः--त्रयो गन्तरि । अरम्--अलम् । अरकम्--लाक्षा । अरा--अर्थः (?) । अरिः--वैरी, चक्रम् , अक्षिपीडा । अरुस्--मूलव्याधिः । अरण्यम्--वनम् । आरणम्--वनवासः । अरणम् , ऋ, ऋतम् , ऋतिः--एते चत्वारश्चलने । अरणिः--काष्ठविशेषः, येन यज्ञेऽग्निरुत्पाद्यते, शुकपत्नी । अरुणः--सूर्यसारथिः । आरुणिः--अरुणपुत्रः, वेदपुरुषः (एतन्नामा ऋषिविशेषः ) । अर्यः--वैश्यः । आर्यः--श्रेष्ठपुरुषः । आर्या--पार्वती, महाराष्ट्रः (?) ।
आरुः--बलीवर्दयुग्मम् ।।
३५१. ऋ गतौ1--चलने । अरति--गच्छति । ऋ, ऋतम् , ऋतिः--त्रयः सत्ये । ऋणम्--उत्तमर्णाद् गृहीतं धनम् ।
३५२. गृ घृ सेचने--घर्षणे । गरति--घर्षयति । गरकः--सर्पः । गृ, गरम् , गारम् , गरळम्--चत्वारो विषे। गारः--(?)। गरुत्, गरि--द्वौ पक्षिणि । गरु, गारु--कठिनम् । गरुडः--विष्णुवाहनः । गरुडम्--इन्द्रपालः। गरुडी--धनुर्विद्यागृहम् । गरणम्--मुखे निक्षिप्तं भक्ष्यम् ('कौर' इति भाषायाम् ) । गारणम्( ? )। गर्ता--विवादः । गृतं, गृतिः, गर्तव्यम् , गरणीयम् , गार्यम् , गृ--एते षट् घर्षणे । गरत् , गरन्--सपत्नीकः । गरती--मुनिस्त्री । गरासः--(?)। गारकम्(चूना लगाना) । गरिका--दूर्वा । गर्मः--स्वेदः । घरति--सिंचति । घर्मः--औष्ण्यम् । घृ, घृतम् , घृतिः2--त्रय आज्ये । घर्ता, घरकः, घारकः--त्रयः पर्जन्ये । घर्घरः--एतादृशी ध्वनिः । घर्ता--गर्तः। घर्तव्यम् , घरणीयम् , घार्यम्--त्रयः सिञ्चनयोग्ये द्रव्ये । घारकम्--शोधकम् । घरिका--दूर्वा । घर्घरी--दुर्गस्य अवयवविशेषः ( 'बुर्ज' इति भाषायां प्रसिद्धः)।
३५३. धृ हूर्छने3--कौटिल्ये । धरति--धारयति । धरः--पर्वतः । धरा, धरित्री, धरणी, धारणी, धरिः, धृत्--षडैते पृथिव्याम् । धारा--अजस्रप्रवाहः ।

टिप्पणी

{{{1}}}

56
धारिः--मार्गः । धारम्--सूत्रम् । धरुः--तरुविशेषः । धरुवा, धारकः द्वौ शृङ्गे। धरणम्--(?)। धारणम्--सहनम् । धृतम् , धर्तव्यम्, धरणीयम् , धार्यम्--चत्वार एते सहने ।
३५४. श्रु श्रवणे--श्रवति1--शृणोति । श्रो, श्रावकः, श्रुत्--त्रयः श्रवणकर्तरि । श्रवणम्--तारकम्, कर्णम्, किंवदन्ती । श्रावणः--एतन्नामा मासविशेषः, शब्दश्च । श्रुतिः--वेदः। श्रुतम् , श्रोतव्यम् , श्राव्यम्, श्रवणीयम्--चत्वारः श्रवणयोग्ये ।
३५५. षू स्रू सू दृ दू (?, दु द्रु)2 ऋच्छ रच्छ अच्छ कच्छ मच्छ गम्लृ सृप्लृ गतौ--सवति--सर्वदेहेषु चलति । सूः, सविता, सावकः--एते त्रयः शिवे सूर्ये च । सवनम्, सावनम्--द्वे चलने । सव्यम्--दक्षिणभागे। अपसव्यम्--वामभागे । सविः--स्वादः । सोतव्यम् , सवनीयम्--द्वौ श्रवणीये (?, गमनीये)। स्रवति--पतति । स्रूः, स्रवणम् , स्रावणम् , स्राव्यम् , स्रुतिः, स्रुतम् , स्रोः स्रवणीयम्--एतेऽष्टौ जलध्वनौ । स्रोतस्--जलप्रस्रवणम् । स्रोता, स्रावकः--द्वौ मेघे । दवति--सुगन्धमागच्छति । दवनम्--पत्रम् (दलम्)। दोता, दूः, दावकः, दवः, दावः--पञ्चैतेऽग्नौ । दावम्--वनाग्नौ । दोतव्यम् , दवनीयम् , दाव्यम्--त्रयो वाष्पे । द्रवति--विलीनो3 भवति (पिघलता है)। दृः (?, द्रुः), द्रोता, द्रावकः--त्रयो मेघे । द्रवणम् , द्रावणम् , द्रुवम् , द्रोतव्यम् , द्राव्यम् , द्रवणीयम् , द्रव्यम्--जलप्रवाहे । ऋच्छति--गच्छति । ऋच्छा--सेना। रच्छति--एकत्रितो भवति । रच्छा--संमर्दः (भीड़ इति भाषायाम् ) । अच्छति--सत्यं भवति । अच्छम्--सत्यम् । मच्छति--परिचिनोति (पहचानता है)। मच्छम्4 --लक्षणम् , मत्स्यः4 ।

टिप्पणी


१. पाणिनीयास्तु 'श्रुवः शृ च' (३।१) इति सूत्रेण शपः स्थाने इनुविकरणं 'श्रु'स्थाने च 'शृ' आदेशं कृत्वा 'शृणोति' इत्याद्युदाहरन्ति सार्वधातुकेषु। काशकृत्स्नास्तु 'श्रवति' इत्येव । तेन ज्ञायते श्रु--शृ च स्वतन्त्रौ धातू । पाणिनीयमतेऽपि श्रु धातोर्भ्वादिषु पाठात् शब्विकरणोऽप्येषितव्य एव । अन्यथा श्रुधातोर्भ्वादिषु पाठो व्यर्थः स्यात्, स्वादिषु पठित्वा 'शृ' आदेशविधानेनापि सर्वमुपपद्यत एव । एवं च कृत्वा भ्वादिपाठो व्यर्थः सन् ज्ञापयति शबषि पक्षे भवति । तेन श्रवति इत्यादयो वैदिकाः प्रयोगा अपि सिद्ध्यन्ति ।
२. वृत्तौ 'दवति द्रवति' आद्युदाहरणात् दु द्रु इत्येव युक्तः पाठः। कान्तत्रेऽपि दु द्रु इत्येव पाठः।
३. विलीनशब्दो द्रवीभावे प्रयुज्यते । तथा च श्रुतिः--स्वयं विलीनमाज्यम् भवति ।
४. नायं मत्स्यशब्दस्यापभ्रंश इति मच्छधातोः पाठात् स्पष्टं भवति । हेमचन्द्रोऽपि मत्स्यार्थकं मच्छशब्दमुणादौ व्युत्पादयति (द्र० उणादिवृत्तिः १२४ )।

57
गमो गच्छः1--गम धातोर्गच्छादेशो भवति । गच्छति--याति । गन्ता--गमकः । गम् , गमनम् , गमकम् , गन्तव्यम् , गमनीयम् , गाम्यम् , गम्यम् ; लोपोऽनुनासिकानां कानुबन्धे--मकारस्य लोपो भवति कानुबन्धे प्रत्यये परत:--गतिः, गतम्--नवैते2 गमने । सर्पति--दशति । सर्पः--अहिः । सर्पिस्--घृतम् । सर्प्यम्--अल्पलवणम् ? । सर्पणम्--वक्रगतिः।
३५६. ज्विदा3 अव्यक्ते शब्दे--अव्यक्त ध्वनौ । ज्वेदति--शनैः (अव्यक्तं ) वदति । ज्विण्णः--शनैर्भाषकः ।
३५७. स्कन्दिर गतिशोषणयोः--चलने शुष्कीभावे च । स्कन्दति--चलति । स्कन्दः--सुब्रह्मण्यः ।
३५८. यभ जभ मैथुने--मैथुनकर्मणि । यभति--मैथुनं करोति । यम्भा4 (? यब्धा ), यभकः -- द्वौ मैथुनकर्तरि । यभ् , यभनम् , यम्भिः ( ? यब्धिः ), यम्भम् (?, यब्धम् ), यम्भव्यम् (?, यब्धव्यम् ), यभनीयम् , यभ्यम् , याभ्यम् --एते मैथुने । जभति--विनोदयुक्तं वाक्यं वदति । जभ्भा ( ?, जब्धा), जाभकः--विनोदवाक्यवक्तरि । जभ् , जभनम् , जभ्यम् , जाभ्यम् , जम्भव्यम् (?, जब्धव्यम् ), जभनीयम्--एते षट् विनोदे ।
३५९. कभि ष्कभि,ष्टभि स्तम्बने--स्थापने । कम्भति--तिष्ठति । कम्भः --स्तम्भः। विष्कम्भति--उच्छ्र्यति । विष्कम्भम्--वृक्षविशेषः । स्तम्भति--गर्ते रोहयति । स्तम्भः--गर्ते रोपितो वृक्षः । उत्तम्भः--कीलम् , वृक्षः।
३६०. अभि द्रवणे--द्रवीभावे । अम्भति--द्रवीभवति । अम्भः--जलम् ।
३६१. जृभि जभि कुभि दभि गर्वे--(अभिमाने ) जृम्भति--अवलम्बयति । जृम्भकः--अवलम्बकः। जृम्भणम्--अवलम्बनम् । जम्भति--अभिमत्तो भवति । जम्भः--राक्षसः । कुम्भति--सहते । कुम्भः--घटः । दम्भति--मिश्रयति । दम्भकः --मिश्रकः।

टिप्पणी


१. गमो गच्छादेशविधानात् गच्छः स्वतन्त्रो धातुर्ज्ञेयः पिबादिवत् । तेन वेदेषु प्रयुक्ताः 'गमति' आदिप्रयोगा अप्युपपद्यन्ते ।।
२. 'गम्' इत्यारभ्य 'गतम्' इत्यन्ताः ।
३. 'ञिक्ष्विदा' इति पाणिनीयाः, कातन्त्रधातुपाठेऽप्येवमेव।
४. यभ्भादिषु जम्भादिषु च कथं प्रत्ययतकारस्य भभाव इति न व्यक्तीकृतं वृत्तिकृता। पाणिनीयास्तु धभावं ब्रुवन्तो 'यब्धा' 'जब्धा' इत्यादीन् रूपान् प्रदर्शयन्ति । अत्र एब्धि इत्यस्य टिप्पणमप्यग्रे ( १।३७३ पृष्ठ ६० ) द्रष्टव्यम् ।

58
३६२. रभि लभि डुभि डिभि रिभि कुभ1 धारणे--घर्षणे । रम्भति--घर्षति । रम्भः--प्राणवायुः । लम्भति--धारयति । लम्भनम्--धारणम् । डुम्भति--क्रीडते । डुम्भ:--क्रीडकः । डिम्भति--याति । डिम्भ:--शवः । रिम्भति--धारयति । रिम्भः--तिलः । लिम्भति2--वहति ( ढोता है)। लिम्भः--बर्करः ।
३६३. तॄ प्लवनतरणयोः--पारगमने तरणे च । तरति--पारं गच्छति । तरिः --नौका । तरः--परिधिः । तारम्--यशदधातुः, रजतम्, ओंकारः । तारकः--एतन्नामाऽसुरः, प्रणामः । तरणिः--सूर्यः । तारणः--वर्षः, सालवृक्षः। तरुः--वृक्षः । तरुणः--युवा । तरुणी--युवती। तार्यम्--पारगन्तुं योग्यम् । उत्तरणम्--जलादिमग्नस्य उपर्य्यागमनम् ('उबराना' इति भाषायाम् )। तारणम्--पारगमनम् । उत्तरणा--पत्रम् ( दलम् )। तीरम्--तटम् । तीर्णम्--पारं गतम् । तारा--बृहस्पतेः पत्नी, बालेः पत्नी, तारा ( तारकम् ), वृक्षः । तारकितम्--ताराभिर्मण्डितं) नभः।
३६४. षु प्रसवे--जनने । सवति--जनयति । सविता--शिवः, पिता, सूर्यः । सावित्री--सन्ध्या, सरस्वती, आदिशक्तिः, जननी ।
३६५. ध्रुव गतिस्थैर्ये--निश्चलचलने (?) । ध्रुवति--कम्परहितो भवति । ध्रुवम्--निश्चलम् । ध्रुवः--उत्तानपादपुत्रः।।
३६६. जि अभिभवे--विजये । [जयति--शत्रुमभिभवति = विजयते । ] जयः--विजयः । जयन्तः--देवेन्द्रपुत्रः । जेता, जित् , जीयः--त्रय एते विजयिनि । जेयम् , जयनम् , जय्यम् , जेतव्यम् , जयनीयम्--पञ्चैते विजययोग्ये । जिष्णुः--देवेन्द्रः, विजयी । जितम् , जितिः--विजयः । जयविजयौ--जयः विजयश्च, एतन्नामकौ संवत्सरौ, जयविजयनामानौ द्वारपालौ।
३६७ त्यज हानौ--त्यागे । त्यजति--जहाति । त्यक् , त्यक्ता, त्यक्तवान् , त्याजकः, त्याजी (?, त्यागी )--पञ्चैते त्यागकर्तरि । त्यजनम् , त्यजनीयम् , त्याज्यम् , त्यक्तम् , त्यक्तिः--पञ्चैते त्यागे।
३६८. षब्ज ष्वञ्ज सङ्गे--सहभावे । सञ्जति--मिलति । सङ्गः--मेलकः । सञ्जनम् , सञ्जनीयम् , सङ्क्तव्यम् , सङ्क्तम् , सङ्क्तिः , साञ्ज्यम्--एते षट् दाने (?)। चजोः कगौ--चकारजकारयोः स्थाने ककारगकारौ भवतः । स्वञ्जति--मिलति । स्वङ्गः, स्वञ्जकः द्वौ मेलके ।

टिप्पणी


१. अयं धातुर्नैव व्याख्यातः कन्नडटीकाकृता।
२. नायं धातुर्धातुसूत्रे पाठ्यते ।

59
३६९. दृशिर् प्रेक्षणे--अवलोकने । दृशेः पश्यः--दृशिस्थाने पश्यादेशो भवति । पश्यति--अवलोकयति । पश्यन्--द्रष्टा । पश्यन्ती--द्रष्ट्री। दृशादीनां य्वॄणां यवरा अ[का]नुबन्धे--दृशादिधातूनां इ उ ऋ स्थाने य व र1 आदेशा भवन्ति कानुबन्धभिन्ने प्रत्यये परतः । छशषराजादीनां षोऽघोषे--छकारशकारषकारान्तानां राजृप्रभृतीनां च धातूनाम् अन्त्यस्य षकारादेशो भवति अघोषसंज्ञके वर्णे परतः। द्रष्टा, दृष्टवान्--द्वौ प्रेक्षके। दिशादीनां कः--दिशादीनां धातूनां शकारस्य ककारादेशो भवति अघोषे घोषे च वर्णे परतः2 । दृक्, दृश्यम् , दृष्टिः, दृश्यमानम् , द्रष्टव्यम् , दर्शनम् , दर्शनीयम् , दार्ष्य्शम्--एते नव द्रष्टुं योग्ये । दर्श्यः--सूर्यचन्द्रदर्शनम् ।
३७०. --कशिर दीप्तौ--प्रकाशते । कशेर्यप इपुश्च कशधातोर्यप प्रत्ययो भवति इपुश्च । कश्यपः--ब्रह्मणः पुत्रः । हिरण्यकशिपुः--एतन्नामा राक्षसः।
३७१. दंश दशने--क्षते कर्तने ('काटने में' इति भाषायाम् ) । अनुषङ्गलोपोऽनुनासिकानाम्--अनुनासिकानामनुषङ्गस्य लोपो भवति । दशति--कृन्तति ( काटता है)। दक् , दष्टवान् , दष्टा--एते त्रयो दशके । दशनः--दन्तः । दशन्--दश संख्या । दन्दशूकः--क्षतकर्ता सर्पादिः । दंशम् , दंशनीयम् , दंश्यम् , दांश्यम्, दष्टम् , दष्टिः--एते षट् दशने ।
३७२ कित विनासे (?, निवासे ) रोगापनये च--गृहे, पीडानिवारणे च । निकेतति--निवसति । निकेतनम्--गृहम् । कलकेतः--ब्रह्मशरणम् । केतुः--मुरासुरस्य शिरोरहितः कायः, पक्षिणः पर्णम् । कित्, केतकः, केतिका. केतितवान--चत्वार एते वासके । कैतवम्--कपटम् । केतिः, केतकी--सुगधिक्षुपविशेषः ('केवड़ा' इति प्रसिद्धः)। चिकित्सा--रोगपरीक्षा (?, रोगनिवारणम् )। चिकित्सुः--वैद्यः । चकारात् दशनेऽपि--कितवः--दंशक, प्रमत्तः, धुस्तुरवृक्षः (धतूरा इति प्रसिद्धः)।

टिप्पणी

{{{1}}}

60
भूते भव्ये वर्तमाने भावे कर्तरि कर्मणि ।
प्रयोजके गुणे योग्ये धातुभ्यः स्युः किबादयः ॥
भूते--अतीते काले, भव्ये--भविष्यत्काले, वर्तमाने--विद्यमाने काले, भावे--क्रियार्थमात्रे, कर्तरि--स्वतन्त्रे कारके, कर्मणि--कर्मकारके, प्रयोजके--प्रयोजककर्तरि, गुणे--अप्रधानकर्मणि, योग्ये--अर्हाद्यर्थे, धातुभ्यः--भूप्रभृतिभ्यः क्विबादयः--क्विप् प्रभृतयः प्रत्ययाः स्युः--भवन्ति ।
[इति काशकृत्स्नधातुपाठे भ्वादिगणे परस्मैपदिनः समाप्ताः]