काशकृत्स्न-धातुपाठः/भ्वादिगणः (१)(आत्मनेपदिनः)

विकिस्रोतः तः
← भ्वादिगणः (१)(परस्मैपदिनः) काशकृत्स्न-धातुपाठः
भ्वादिगणः (१)(आत्मनेपदिनः)
[[लेखकः :|]]
भ्वादिगणः (१)(णिजन्ताश्च) →

60
(२)1
अथ आत्मनेपदिनः
३७३. एध वृद्धौ--वर्धने । एधते--वर्धते । एधमानः--वर्धमानः। एत् , एध् , एधनम् , एधस् , एद्धिः, एद्धम् , एध्धिः2 --सप्तैते वृद्धौ।
३७४. स्पर्श संघर्षे–परेषां विजयस्येच्छा। स्पर्धते--स्पर्धां करोति । स्पर्धमानः--स्पर्धां क्रियमाणः । स्पर्धनम् , स्पर्धा, स्पर्धिः, स्पर्धनीयम्--चत्वारः स्पर्धायाम् ।
३७५. गाधृ गाथृ प्रतिष्ठालिप्सयो3 र्ग्रन्थे च--आस्पदे, कथाश्रावणे च । प्रतिष्ठेच्छायामकर्मकः, ग्रन्थने च सकर्मकः। गाधते--प्रतिष्ठितो भवति । गात्, गाध् , गाधनम् , गाधा, गाधिः--पञ्चैते कथानके । गाधमानः--कथायाः श्रावकः । गाथते--कथां श्रावयति । गाथमानः--कथायाः श्रावकः। गाथिः--विश्वामित्रस्य पिता । गात् , गाथनम् , गाथा, गाथनीयम् , गाथ्यम्--पञ्चैते कथायाम् ।
३७६. बाधृ लोटने--पीडायाम् । बाधते--पीडयति । बात् , बाधकः, बाधमानः--त्रयः पीडके । बाधनम् ; बाधा, बाधिः, बाधनीयम्--चत्वारः पीडायाम् ।

टिप्पणी


१. कर्नाटकलिपिमुद्रितानुसारं संख्यानिर्देशः ।।
२. अत्र जश्त्वं कथं न भवति । जश्त्वे सति एद्धिरूपे षडेवावशिष्यन्ते । तस्मात्, जश्त्वाभाव इष्ट इति प्रतीयते । यभ्भिः जभ्भिः इत्यनयोः टिप्पणं द्रष्टव्यम् (१।३५८ पृ० ५७) ।
३. द्वित्वनिर्देशाद् द्वौ पृथगर्थौ । वृत्तिकारस्तु 'प्रतिष्ठेच्छायामकर्मकः, इति वचनादेकत्वं स्वीकरोतीति ज्ञायते ।

61
३७७. दध धारणे--घर्षणे । दधते--घर्षयति । धत्, दधकः, दधानः --त्रय संघर्षके । दधि--पयोविकारविशेषः । दधनम् , दधनीयम् , दध्यम् , दधा, दद्धम् , दद्धिः--षडैते घर्षणे ।
३७८. स्कुदि आप्रवणे--कूर्दने । स्कुन्दते--कूर्दते । स्कुन्दः, स्कुन्दकः, स्कुन्दमान:--त्रयः कूर्दके। स्कुन्दनम् , स्कुन्दिः, स्कुन्दनीयम् , स्कुन्दा--चत्वारः कूर्दने ।
३७९, स्विदि शैत्ये--शीतीभावे । स्विन्दते--शीतीभवति । स्विन्दः, स्विन्दकः, स्विन्दमानः--त्रयः शीतीकर्तरि । स्विन्दिः, स्विन्दनम् , स्विन्दनीयम् , स्विन्दा--चत्वारः शीतीभावे ।
३८०. वदि अभिवादनस्तुत्योः--नमस्कारे प्रशंसायां च । वन्दते--नमस्करोति, स्तौति वा । वन्दकः, वन्दी, वन्दमानः, वन्दासः--चत्वारः स्तावके । वन्दिः, वन्दनम् , वन्दनीयम् , वन्दा--चत्वारो नमस्कारे स्तुतौ च ।
३८१. भदि कल्याणे सौख्ये च--आनन्दे शुभे च । भन्दते--शुभं भवति । भन्दः, भन्दमानः, भन्दकः--त्रयः शुभंभावुके, सुखिनि च । भन्दिः, भन्दनम् , भन्दनीयम्--त्रयः सुखे ।
३८२. मिदि स्तुतिमोदमदस्वप्नकान्तिगतिषु--स्तुतौ, आनन्दे, मदे, स्वप्ने, कान्तौ, गतौ च । मिन्दते--स्तौति । मिन्द्रः, मिन्दः, मिन्दकः मिन्दमानः--चत्वारः प्रशंसके । मिन्दनम् , मिन्दिः, मिन्दनीयम् , मिन्दा--चत्वारः स्तुतौ ।
३८३. स्पदि किश्चिञ्चलने--अल्पगतौ । स्पन्दते--अल्पं गच्छति । स्पन्दः, स्पन्द्रः, स्पन्दकः, स्पन्दमानः--चत्वारः किञ्चिद्गन्तरि । स्पन्दिः, स्पन्दनम् , स्पन्दनीयम्--किञ्चिद्गतौ।
३८४. क्लिदि परिदेवने--दुःखे । क्लिन्दते--दुःख्यति । क्लिन्दः, क्लिन्दकः, क्लिन्दमानः--त्रयो दुःखके ( दुःखिते )। क्लिन्दिः, क्लिन्दनम् , क्लिन्दनीयम्--त्रयो दुःखे ।
३८५. मुद हर्षे----प्रसन्नतायाम् । मोदते--हर्षितो भवति । मोदकः--हर्षिता, भक्ष्यविशेषश्च । मुत् , मुदम् , मोदम् , मोदनम्, मोदितव्यम् , मोदनीयम् , मुदितम् , मुदिः, मुत्तम् , मुत्तिः, मुद्रा, मोद्यम् ,--द्वादशैते हर्षे ।
३८६. दद दाने--ददते--ददाति । ददः, ददकः, ददानः--त्रयो दातरि । ददिः, ददनम् , ददनीयम्--त्रयो दाने ।
३८७. हद पुरीषोत्सर्गे--मलत्यागे । हदते--पुरीषमुत्सृजति । हदकः, हदः, हदानः--त्रयो मलोत्सर्जके । हदिः--(?)। हादिः--मार्गः। हादलिः--वृक्षविशेषः। हादरः--(?)। हदनम् , हदनीयम्--द्वौ शौचे। हदम्--वर्षणम् , मिश्रणम् ।
62
३८८. ष्वद स्वाद स्वर्द--आस्वादने--रोचने । स्वदते--रोचते । स्वदः, स्वदकः, स्वदमानः--त्रयो रोचितरि । स्वदिः, स्वत्, स्वदनम् , स्वदनीयम्--त्रयो रुचौ । स्वादते--रसं गृह्णाति । स्वादः, स्वादकः, स्वादमानः--त्रयो रसग्रहीतरि । स्वात् , स्वादनम्, स्वादिः, स्वादुः, स्वादनीयम्--पञ्च आस्वादने । स्वर्दते--लेढि । स्वर्दकः, स्वर्दमानः--द्वौ लेहके ( चाटने वाले में)। स्वर्दिः, स्वर्दनम्, स्वर्दनीयम्--त्रयो लेहनकर्मणि ( चाटने में)।
३८९. उर्द माने क्रीडायां च--परिमाणे, क्रीडायाम् , चादास्वादने । उर्दते5 --माति ( मापता है) क्रीडति, आस्वदते । उर्दः, उर्दकः, उर्दमानः --त्रयो--मायके ( मापने वाले में )। उर्दनं, उर्दनीयम् , उर्दः--त्रयो माने, क्रीडने, आस्वादने च । उर्दुः2--माषाणां दालः3 ।
३९०. कुर्द खुर्द गुर्द घुर्द क्रीडायामेव--कुर्दते--क्रीडति । कुर्दः, कुर्दकः कुर्दमान:--त्रयः क्रीडके । कुर्दः, कुर्दुः, कुर्दनीयम्--चत्वारोः क्रीडने । खुर्दते--क्रीडते । खुर्दः, खुर्दकः, खुर्दमानः--त्रयो नटे। गुर्दते--नृत्यति । गुर्दः, गुर्दकः, गुर्दमानः--त्रयो नर्तके। गुर्दम्--गुदम् । गुर्दा--वृद्धा गौः, काकः । गुर्दनम् , गुर्दनीयम्, गुदिः--त्रयो नर्तने । घुर्दते-- ध्वनिं करोति । घुर्दः, घुर्दकः, घुर्दमानः--त्रयः शब्दकर्तरि । घुर्दः (?) घुर्दा, घुर्दनम्--त्रयो मेघशब्दे ।
३९१. षूद क्षरणे--अस्वीकारे । सूदते--न स्वीकरोति । मधुसूदनः--विष्णुः । सूदकः, सूदमानः, सूत्--त्रयोऽस्वीकर्तरि । सूदनीयम् , सूद्यम् , सूदि----त्रयोऽस्वीकारे।
३९२. ह्राद अव्यक्ते शब्दे--अस्पष्टध्वनौ, मेघध्वनौ। ह्रादते--मेघः

टिप्पणी


१. उर्दते, उर्दः आदिषु दीर्घत्वं कथं न भवतीति न व्यक्ती भवति । एवं कुर्दादिधातुरूपेष्वपि । पाणिनीयास्तु 'र्वोरुपधाया दीर्घ इकः, हलि च' (८।२।७६, ७७) इति दीर्घत्वमामनन्ति ।
२. माषाणां वाचकस्य 'उर्द' अथवा 'उड़द' शब्दस्येदमेव मूलम् ।
३. दल विदारणे इत्यस्मात् घञि साधु ।

63
शब्दयति । ह्रादः--मेघः । ह्रदिनी--मेघध्वनिः । ह्रादक:--मेघः शब्दकर्ता । ह्रादिः, ह्रात् , ह्रादनम्, ह्रादनीयम्, ह्रादमानम् , ह्राद्यम्--षडैते मेघध्वनौ ।
३९३. ह्रादी सौख्ये च--मेघध्वनौ, सुखे च । ह्रादते--मेघो ध्वनति । ह्लादकः, ह्लादमानः-- द्वौ सुखभोक्तरि । प्रह्लादः, विह्लादः, सुह्लादः, निह्लादः --चत्वारो हिरण्यकपिशुपुत्राः । ह्लात् , ह्लादिः, ह्लादनम् , ह्लादनीयम्--चत्वारो मेघध्वनौ सुखे च ।
३९४. पर्द कर्द गर्द शर्द कुत्सिते शब्दे--निन्दिते शब्दे । पर्दते--निन्दितं शब्दयति । पर्दकः, पर्दमानः--द्वौ निन्द्यशब्दके । पर्दुः--पक्षिविशेषः। पर्दिः, पर्दनम्, पर्दनीयम्--निन्दिते शब्दे । पर्दमानः--निन्द्यशब्दकर्ता। कर्दते--फेनः संहतो भवति (फेन ऊपर जमता है) । कर्दम्--पङ्कः । यक्षकर्दमम्--सुगन्धि--द्रव्यम् । कर्दमः--ब्रह्मणः पुत्रः । कर्दलिः--वृक्षः । कर्दकः, कर्दमानः--द्वौ भीरुके। कर्दः, कर्दिः, कर्दनम्, कर्दनीयम्--चत्वारोऽपानवायुशब्दे । शर्दते--अपानं त्यजति । शर्दकः, शर्दमानः-- द्वौ अपानस्य मोक्तरि । शर्दिः, शर्दुः, शर्दनम्, शर्दनीयम्-- चत्वारोऽपानत्यागे।
३९५. यती प्रयत्ने--उद्योगे । यतते--कार्यं करोति । यत्नः, यत्नवान्, यतमान:--त्रय उद्योगकर्तरि । यतिः--ऋषिः । यातना--पीडा । यतनीयम् , यत् , यत्यम् , यात्यम्--चत्वार उद्योगे । ।
३९६. युत जुतृ1 भाषणे--शब्दने । योतते--वदति । योतः, योतकः योतमानः--त्रयो वदितरि । योतनम, युतिः, योतनीयम् , योत्यम् , यौत्यम् , युत् षडेते--भाषणे । जोतते--वदति । जोतकः, जोतः, जोतमान:--त्रयो वदितरि । जोतनम् , जौत्यम् , जुतिः, जोतनीयम्, जुतू, जोत्यम्, जौत्यम्--षडैते भाषणे ।
३९७. वीथृ वेथृ याचने--भिक्षणे । वीयते--भिक्षते । वीथः, वेथकः,2 वेथमान:--त्रयो भिक्षुके । वीथ् , वीथिः, वेथनम्, वेथनीयम्, वेथ्यम् वैथ्यम्--षडेते भिक्षणे । वीथी, वीथिका--द्वौ मार्गे। वेथते--मिश्रयति (?)। वेथः, वेथकः, वेथमान:--त्रयो याचके । वेथ्, वेथिः, वेथनम्, वेथनीयम् , वेथ्यम्, वैथ्यम्--षड्याचने ।

टिप्पणी


१. युतृ जुतृ द्वयोः पृथक् निर्देशोऽन्यत्र यकारस्य जत्वानापत्तौ लिङ्गम् ।
२. 'वेथकः' इत्यादिषु दीर्घोपधस्य कथं गुण इति न ज्ञायते । इह १।११३ धातुसूत्रटिप्पण्यपि द्रष्टव्या ( पृष्ठ १५, टि. १)

64
३९८. णाधृ णाथृ उपतापाश्चर्याशीःषु च--शासने आश्चर्ये [ आशिषि] चाद् याचने च । नाधते--शास्ति । नाधः, नाधकः, नाधमानः--त्रयः शासके । नाधा--शासिका । नाध् , नाधिः, नाधनम्, नाधनीयम्, नाध्यम्--पञ्चैते शासने । नाथते1--रक्षति । नाथः, नाथकः, नाथमानः--त्रयो राजनि । नाथ् , नाथिः, नाथनम्, नाथनीयम्, नाथ्यम्--पञ्च प्रभुतायाम् ।
३९९. शृथि (?; श्रथि) शैथिल्ये--शिथिलतायाम् । श्रन्थते--शिथिलो भवति । श्रन्थः, श्रन्थकः, श्रन्थमानः--त्रयः शिथिले । श्रन्थिः, श्रन्थनम्, श्रन्थनीयम्, श्रन्थ्यम्--चत्वारो शैथिल्ये।।
४००. ग्रथि वकि कौटिल्ये--कुटिलतायाम् । ग्रन्थते--सन्दृभ्णाति (ग्रन्थं लिखति ) । ग्रन्थः, ग्रन्थकः, ग्रन्थमान:--चत्वारः सन्दभलेखके । ग्रन्थिः, ग्रन्थनम्, ग्रन्थनीयम्, ग्रन्थम्, ग्रन्था--पञ्चैते सन्दर्भे । वङ्कते--वक्री भवति । वङ्कः, वङ्ककः, वङ्कमानः--त्रयः कुटिलगन्तरि । वङ्किः--वक्रम् । वङ्कनम् , वङ्क्यम् --त्रयः कौटिल्ये । वङ्का, वङ्किः द्वौ नगरे।
४४१. कत्था श्लाघायाम्--प्रशंसायाम् । कत्थते--प्रशस्यो ( योग्यो) भवति । कत्थः, कत्थकः कत्थमानः--त्रयः प्रशंसके ( योग्ये ) । कत्थिः, कत्थनम् , कत्थनीयम् , कत्थ्यम् , कत्था--त्रयः प्रशंसने ।
४०२. सीक सेचने–घर्षणे । सीकते--घर्षयति । सीकः, सीककः, सीकमानः--त्रयो घषके । सीक् , सीकिः, सीकनम् , सीकनीयम्, सीक्यम्--पञ्च घर्षणे । सीका--शीका । सीकुः--शर्करा ( गिट्टी)।
४०३. लोकृ लोचृ2 दर्शने--लोकते--पश्यति । लोकः, लोककः, लोकमानः--त्रयो द्रष्टरि । लोकः, लोकिः लोकनम्, लोकनीयम्, लोक्यम्--पञ्च दर्शने । लोचते--पश्यति । लोचः, लोचकः, लोचमानः--त्रयो द्रष्टरि । लोचः, लोचिः, लोचनम् , लोचनीयम् , लोच्यम्--पञ्चैते दर्शने । लोचुः--नग्नं शिरः ( कोशरहितः)।
४०४. श्लोकृ संघाते--सहभावे । श्लोकते--सहगच्छति । श्लोकः, श्लोककः, श्लोकमानः--त्रयः सार्थे । श्लोक् , श्लोकिः, श्लोकनम् , श्लोक्यम्--चत्वारः सहभावे ।

टिप्पणी


१. इह 'आशिषि नाथः' (वा० १।३।२१) इव न कश्चिदात्मनेपदनियम इति प्रतीयते।
२. लोकृ लोचृ द्वयोर्धात्वोः पाठात् कवर्गवन्तश्चवर्गवन्तश्च स्वतन्त्राः समानार्थका शब्दाः इति विज्ञायते।

65
४०५. द्रेकृ ध्रेकृ शब्दोत्साहयोः--ध्वनौ उत्साहे च । शब्दोत्साहे इति पाठान्तरम् । तस्यार्थः--अस्पष्टार्थके वाक्ये )। द्रेकते--ध्वनयति । द्रेकः, द्रेककः, द्रेकमानः--त्रयोऽस्पष्टार्थवाक्यस्य वक्तरि । द्रेक् , द्रेकः, द्रेकनम् , द्रेकनीयम् , द्रेक्यम्--पञ्चास्पष्टार्थके वाक्ये । ध्रेकते--स्पष्टं वदति । ध्रेकः, ध्रेककः, ध्रेकमानः--त्रयः स्पष्टवक्तरि । ध्रेक्, ध्रेकिः, ध्रेकनम् , ध्रेकनीयम् , ध्रेक्यम्--पञ्च स्पष्टे वाक्ये।
४०६. एकृ शकि शङ्कायाम्--विचारे । एकते--विमृशति । एकः, एककः, एकमानः--त्रयो विमर्शके। एक्, एकिः, एकनम्, एक्यम्--चत्वारो विचारे। शङ्कते--विचारयति । शङ्कः, शङ्ककः, शङ्कमानः--त्रयो विचारके। शङ्किः, शङ्कनम् , शङ्कनीयम् , शङ्क्यम्--चत्वारो विचारे शङ्कायां च । शङ्कः--शङ्कमानः। शङ्का--विचारः, मारः।
४०७. अकि लक्षणे--परिचये। अङ्कते--परिचिनोति । अङ्कः--परिचयः, जङ्घा (क्रोडः--गोद इति भाषायाम् )। अङ्कालयाम्बा--गुरुनाथस्य पत्नी । अङ्ककः, अङ्कमानः--द्वौ परिचायके । अङ्किः, अङ्कुः, अङ्कनम् , अङ्कनीयम् , अङ्कितम्, अङ्क्यम्--षड् लक्षणे ।
४०८. मकि मण्डने---- भूषणे । मङ्कते--भूषयति । मङ्कः, मङ्ककः, मङ्कमानः--त्रयो भूषयितरि। मङ्किः--उष्ट्रः । मङ्कुः--प्रमत्तवेशधारी संन्यासी। मङ्करी, मङ्कणी--द्वौ ( ?)। मङ्क्यम् , मङ्कनम् , मङ्कनीनम्--त्रयो भूषणे ।
४०९. कक कक्क कर्क लौल्ये--संचारे (?)। ककते--संचरति । काकः--ध्वाङ्क्षः, राक्षसः। काकुः--दुःखम् , भयम् । कक , ककिः, ककुः, ककनम् , ककनीयम्, कक्यम्, काक्यम्--सप्तैते संचारे। कककः, काककः, ककमानः--त्रयः संचारके । कक्कते--भ्रमति । कक्कः--संन्यासी, भ्रमणशीलः (घुमक्कड़), कक्कमल्लेश्वरश्च । कक्का--2जुः । कक्कुः--(?)। कक्किः, कक्कनम् , कक्कनीयम् , कक्यम् , काक्यम्--पञ्च संचारे। कक्ककः, काक्ककः1 कक्कमानः--संचारौ। कर्कते--कठोरतामाचरति । कर्कः--कण्टकः। कर्कं धुनोति (= कण्टकं सहते) कर्कन्धुः--वृक्षविशेषः । कर्का--(?)।
४१०. कुक कुक्क कुर्क वृक बृक अर्क अलर्क मर्क अग जग मग बग आदाने--ग्रहणे । कोकते--नयति । कोकः--एतन्नामा पक्षी । कोकिलः--पिकः । कोककः, कोकमानः--द्वौ ग्रहीतरि । कुक् , कुकिः, कोकनम् , कोक्यम् ,

टिप्पणी


१. अनुपधस्याप्यकारस्य कथं वृद्धिरिति न ज्ञायते ।

66
कोकनीयम्--पञ्चैते ग्रहणे । कुक्कते--भक्षति । कुक्कः--श्वा, पक्षिविशेषः, दत्तस्य प्रतिग्राहकः । कुक्का--(?)। कुक्ककः, कुक्कमानः द्वौ बलाद् ग्रहीतरि । कुर्कते--दशति । कुर्कुर:--कुक्कुरः । वर्कते--निकृन्तति । वृक्कः--वृकासुरः, वृकः (भेड़िया)। बर्कते--कूर्दते । बर्करः--अजः, राक्षसः। बर्करी--अजा। अर्कते--प्रकाशते । अर्कः--सूर्यः, वृक्षविशेषः ('आक' इति प्रसिद्धः )। अलर्कते--भषते । अलर्कः-- श्वा, राजा। मकते--कूर्दते । मर्कः, मर्कटः--वानरः । अगते--पिबति । पुल्यगिभ्यामस्त्योऽस्तिश्च1--पुल अग आभ्यां धातुभ्यां अस्त्योऽस्तिश्च प्रत्ययो भवति ।२ अगस्त्यः, अगस्तिः--द्वौ मित्रावरुणयोरपत्ये । आगा, आगस्--पापम् । जगते--घर्षते । जगलिः--उष्णम्, विधुरो वा। जागुः--प्लुतगमनम्। जागम्--स्थानम् । जगिः--चर्वणम् । जाग्यम्--जागरितम् । मगते--क्रीडते । मगः--पुत्रः । मगा--हस्तभाजनम् । मागी--शीतः। वगते3--वहति । वागुः--नदी । वागता (?)--जीवनम् ।
४११. चक चक्क चर्क तृप्तौ प्रतिघाते च--शीते, प्रतिमारणे, ताडने, चलने । चकते--चलति । चकोर:--एतन्नामा पक्षी। चक्रम्--रथाद्यङ्गम् । चकितम्--भीतम् (भयम् )। चकः, चकमानः--द्वौ भीरौ। चाकः, चाकिः, चाकलः--त्रयो रजके । चक् , चकिः, चकनम् , चकनीयम् , चक्यम् , चाक्यम्--षट् शीतीभावे । चक्कते--उन्मृदयति (धुलाता है)। चक्कः चेक्कुः (?, चक्कुः)--कर्पाससंघाते । चेक्कः--(?)। चक्ककः, चकमानः--द्वौ धावके (?)। चर्कते--प्रतिघातयति, ताडयति । चर्कः, चकमाणः, चर्ककः--प्रतिघातके । चर्किः, चर्कणम् , चर्कणीयम् , चर्क्यम् , चार्क्यम्--पञ्च प्रतिघाते ।
४१२. ककि बिकि विकि ष्वकि त्रकि कुकि वेकि ढौकृ त्रौकृ ष्वष्क पुष्क णिष्क बष्क वष्क मष्क मुष्क तिकृ टिकृ4 टीकृ सीकृ स्रेकृ श्रेकृ चिकृ5 शेखृ खृ शक्वृ स्रकि श्रकि खिकि4 विकि4 स्लकि श्लकि लघि रघि लघ6 रघ6 लिघि रिघि गतौ--कङ्कते –

टिप्पणी


१. असमस्तनिर्देशो यथासंख्याभावाय । तेनोभाभ्यां धातूभ्यामुभौ प्रत्ययौ भवतः ।
२ इतोऽग्रे 'पोलते चूषयति पुलत्स्यः, पुलस्तिः,--द्वौ ब्रह्मणः पुत्रे' इत्यधिकः पाठः। अयं चेह सूत्रानुरोधात् पठितः, नेहास्य प्रसंगः, पुलधातोरत्रादर्शनात् । षुलस्त्यः, पृ० ३५ द्र०।
३. पञ्जाबीभाषायां 'वगना' क्रियाऽस्यैवापभ्रंशः।
४. अयं धातुरन्यथा व्याख्यायते वृत्तौ ।
५. चिकृ शेखृ खृ शक्वृ--एषां चतुर्णामृकारो नानुबन्धः ।
६. एतौ दण्डकान्ते व्याख्यायेते ।

67
उत्पाटयति । कङ्कः--जटायुः। कङ्काळः--पृष्ठम् ( अस्थिपञ्जरम् )। कङ्करिः--वृद्धः। कङ्कणम्--कटकम् । बिङ्कते--नश्यति । बिङ्कणिः--मत्तः (मदयुक्तः) । बिङ्कः--मदम् । कलं विङ्कत--अल्पं ध्वनयति कलविङ्कः--गुदगुदी' इति भाषायाम ( कोशेषु चटकादिपक्षिविशेषाः, सम्पा० )। स्वङ्कते--गच्छति । स्वङ्कः--हंसः। त्रङ्कते--वक्रो भवति । त्रङ्कः--उष्ट्रः । कुङ्कते--दुर्गन्धम् (?, सुगन्धम् ) आगच्छति । कुङ्कुमः--केशरः। कुङ्किः--( ? )। कुङ्कुणः--एतन्नाम नगरम् । कुङ्कुलम्--पार्श्वम् । वेङ्कते--मन्थनस्य रज्जुर्भवति । वेङ्कटः--मन्थनरज्जुः, शेषाद्रिः । ढौकते--शब्दयति । ढौका--नदी। त्रौकते--(क्षेत्रादिषु पतति )। त्रौकः--सस्यविनाशकः 'टिड्डी' नामा क्षुद्रप्राणी । पुष्कते--पिबति । पुष्कलम्--समूहः (भीड़)। निष्कते--वहति । निष्कम्--एतन्नाम्नी मुद्रा । बष्कते--भषति । बाष्कलः--भषकः। वष्कते--शपथं गृह्णाति । वष्कल:--शपथग्रहीता। मष्कते--त्यजति । मष्करिः--विरक्तः । मुष्कते--घर्षयति । मुष्कः--वृषणम् ( अण्डम् )। तेकते--(डकार आता है)। तेकः--( डकार लेने वाला )। तेकुः, तेकी--(डकार )। तिकुरः--भ्रमणशीलं वस्तु । टीकते--क्रीडति । टीकः1--शाकादीनां मुष्टिः (गड्डी--भाषायाम् ) पक्षी। टीकते--वर्णयति2 । टीकुरः--वर्णयिता । टीका, टीकुः--वर्णनम् । सीकते--कूर्दते । सीकरः--जलबिन्दुः। स्रेकते--वपति । स्रेकरः--[बीजादीनां] वापकः। श्रेकते--(?)। श्रेकरः--(?)। चिकरते3--पल्लवितो भवति । चिकरः--पल्लवम् , केशः। शेखरते--संगृह्णाति ( जमा करता है )। शेखरः--संग्राहकः--(जमा करनेवाला )। खरते--प्रकाशयति । खरः--एतन्नामासुरः, सूर्यरश्मिः । शक्वरते--वृषभ इव शब्दयति । शक्वरः--वृषभः। शक्वरी--गौः, छन्दोविशेषः । स्रङ्कते--प्रवहति । स्रङ्कः--जलम् । श्रङ्कते--वपति । श्रङ्कः--वप्ता । [खिङ्कते--.... । विङ्कते--...]। स्लङ्कते--अन्तर्गच्छति । स्लङ्कः--कीलकम् । श्लङ्कते--सीव्यति । श्लङ्कः--सूचिका (सूई )। लङ्घते--कूर्दते । लङ्घकः, लङ्घमानः--द्वौ कूर्दितरि । लङ्घिः, लङ्घः, लङ्घनम् , लङ्घनीयम् , लङ्घ्यम् , पञ्च--अल्पभारे । रङ्घते--कूर्दते । रङ्घकः, रङ्घमाणः--द्वौ कूर्दितरि । रङ्घिः, रङ्घः, रङ्घणम् , रङ्घणीयम् , रङ्घ्यम्--पञ्च कूर्दने । लिङ्घते--नृत्यति । लिङ्घकः, लिङ्घमानः -- द्वौ नर्तके । लिङ्घिः, लिङ्घः, लिङ्घनम् , लिङ्घनीयम् , लिङ्घ्यम्--पञ्च नर्तने । रिङ्घते--अवनतो भवति ( झुकता है)। रिङ्घकः,

टिप्पणी


१. टिकृ--धातोष्टेकते, टेकः इति पाठेन भाव्यम् । टीकतेस्त्वग्रे व्याख्योपलभ्यते ।
२. वर्णनमिह व्याख्यानमभिप्रेतम् ।
३. चिकृ, शेखृ, खृ, शक्वृ धातूनामृकारो नानुबन्धः, अन्येषां त्वृकारोऽनुबन्धरूपः । कथमत्र वैषम्यमिति नोक्तं वृत्तिकृता ।

68
रिङ्घमाणः--द्वा अवनन्तरि । रिङ्घः, रिङ्घिः, रिङ्घणम् , रिङ्घणीयम्, रिङ्घ्यम्--पञ्च अवनमने । लघते1--अल्पभारवान् भवति ( हलका होता है)। लघकः, लघमानः-- द्वौ अल्पभारयुते । लघः, लघुः, लघनम् , लघनीयम् , लघ्यम्--पञ्च लघुनि । रघते--शास्ति । रघुः--सूर्यवंशी राजा । रघिः, रघः, रघणम् , रघणीयम्, रघ्यम्--पञ्च शासने।
४१३. अघि अघ वघि वघ गत्याक्षेपे--गतित्यवरोधे । अङ्घते--वैकल्येन गच्छति (लंगड़ाता है)। अङ्घकः, अङ्घमानः--द्वौ पादविकले । अङ्घिः, अङ्घः, अङ्घुः अङ्घनम् , अङ्घनीयम् , अङ्घ्यम्--षट् गतिवैकल्ये। अघते--पतति । अघकः, अघमान:--द्वौ स्खलितरि । अघम्, अघी, अघू, अघनम् , अघनीयम्, अघ्यम्--षट् स्खलने ( गिरने में )। वङ्घते--स्खलति । वङ्घकः, वङ्घमानः--द्वौ स्खलितरि । वङ्घः, वङ्घी, वङ्घू, वङ्घनम् , वङ्घनीयम् , वङ्घ्यम्--षट् स्खलने । वघते--उत्तिष्ठति । वघकः, वघमानः--द्वौ उत्थातरि । वघम् , वघी, वघू, वघनम् , वघनीयम् वघ्यम्--षट् उत्त्थाने।
४१४. मघि मघ कैतवे च--खनने, गतिविघ्ने च । मङ्घते--खनति । वङ्घकः, वङ्घमानः--द्वौ खनितरि । मङ्घम् , मङ्घी, मङ्घू , मङ्घनम् , मङ्घनीयम् , मङ्घ्यम्--षट खनने । मघते--ऐश्वर्यवान् भवति । मघवन्--देवेन्द्रः। मघकः, मघमानः--द्वौ धनिनि । मघम्२, मघी, मघू, मघनम् , मघनीयम् , मध्यम्--षट् ऐश्वर्ये । मघा--एतन्नाम नक्षत्रम् । माघः--मासविशेषः ।
४१५. राघृ लाघृ सामर्थ्ये--शक्तौ । राघते--समर्थो भवति । राघः, राघकः, राघमानः--त्रयः समर्थे, ज्ञानिनि । राघिः, राघुः, राघणम् , राघणीयम् , राघ्यम् , राघरम्--षट् सामर्थ्ये ज्ञाने च । लाघते--प्राप्नोति । लाघरते3 --प्राप्नोति । लाघः, लाघकः, लाघरः, लाघमानः--चत्वारः प्रापितरि । लाघिः, लाघुः, लाघनम् , लाघनीम् , लाघ्यम् , लाघनम्4 --षट् प्राप्तौ।

टिप्पणी


१. लघ, रघ धातू सूत्रपाठे लघिरघिभ्यामुत्तरं पठ्येते ।
२. 'मघमिति धननामधेयम् , मंहतेर्दानकर्मणः' इति निरुक्तम् (१।७) अर्थप्रदर्शनपरम् , न व्युत्पत्तिनिदर्शनपरम् ।
३. किं लाघृधातोर्ऋकारो नानुबन्ध इति पक्षान्तरमुपन्यस्यते वृत्तिकृता ? एवं राघृधातोः कृदन्तेषु 'राघरः' पदमपि द्रष्टव्यम्, लाघृधातौ च लाघरम् । अपि च 'राघरम्' भावे प्रयुक्तम् , लाघरस्तु कर्तरि । भेदोऽयं कथमिति न ज्ञायते ।
४. लाघनम् इहैव पूर्वं निर्दिष्टम् , पुननिर्देशः पाठाशुद्धिं द्योतयति । अन्यथा ‘पञ्च' इत्येव ब्रूयात् ।

69
४१६. द्राघृ आयासे--पीडायाम् ऋजुभावे च । द्राघते--पीडितो भवति, ऋजु भवति । द्राघकः, द्राघणः, द्राघमाणः--त्रयः सूचके । द्राघूया--ऋजुः । द्राघम् , द्राघि, द्राघु, द्राघणम् , द्राघणीयम् , द्राघ्यम्--षट् सूचने, ऋजुभावे च ।
४१७. श्लाघृ कत्थने--उत्कर्षे । श्लाघते--प्रशंसायोग्यो भवति । लाघ्यः, श्लाघकः, लाघमानः--त्रयः पूज्ये । श्लाघम् , श्लाघि, श्लाघु, श्लाघनम् , श्लाघनीयम्--पञ्च पूजायाम् ।
४१८. षच सेचने--घर्षणे । सचते--घर्षयति । सचकः, सचमानः, सक्तुः--घर्षयितरि। सचि, सचु, सचम् , सचनम् , सचनीयम् , सच्यम् -- षडैते घर्षणे ।
४१९, शच व्यक्तायां वाचि--स्पष्टवाक्ये । शचते--स्पष्टं वदति । शचिः (शची)--------इन्द्राणी । शचम् , शचि, शचु, शचनम् , शचनीयम् , शच्यम्--षट् स्पष्टवचने ।
४२०. कच बन्धने--कचते--बध्नाति । कचः--केशः। काचम्--दर्पणम् । काचुः1 --ताम्बूलस्यैकं साधनम् । कचि, कचु, कचनम् , कचनीयम् , कच्यम्--पञ्च बन्धने । काचिः--तृणम् । काचकः, काचमानः (?, कचमानः)--बन्धनकर्तरि।
४२१. मच मचि कल्कने--ऋणप्रदाने । मचते--ऋण ददाति । मचम् , मचि, मचु, मचनम् , मचनीयम् , मच्यम्--षट् ऋणप्रदाने । माचकः,--रजकः, कायः, संन्यासी, ऋणदाता । माची--पर्णम् , देवकन्या, शरीरम् । मञ्चते--बध्नाति, धारयति । मञ्चुः--हिमम् । मञ्चिः--पत्रम् । मञ्चः--खट्वा । मञ्चिका--मञ्चः ( मचान ) । मञ्चकः, मञ्चमानः -- द्वौ धारके, परिधारयितरि । मञ्चनम् , मञ्चनीयम्--द्वौ धारणे । ४२२. मुच मुचि धारणोच्छ्रायपूजनेषु--घर्षणे, ऐश्वर्ये, पूजायाम् । मोचते--घर्षयति । मोचकः--मेघः, वृक्षविशेषः, संन्यासी । मोचिः--विधवा । मुचुः--मुचुकुन्दो राजा । जलमुक्--मेघः। मोचनम् , मोचनीयम् , मोच्यम् , मुक्तम् , मुक्तिः--पञ्च पूजायाम् । मुक्ता--जलजः ('मोती' इति भाषायाम्)।

टिप्पणी


१. किं पञ्जाबी भाषायां लवितरि (चाकू अर्थ में ) प्रयुज्यमानः 'काचु' शब्दोऽस्मादेव धातो निष्पन्नः ? तथा सति हिन्दीभाषायां प्रयुज्यमानः 'चाकु' इति तस्यैव वर्णव्यत्ययेन निष्पन्नो विकारः स्यात् ।

70
मुञ्चते--पूजनीयो भवति । मुञ्चः, मुञ्चकः, मुञ्चमानः--त्रयः पूज्ये । मुञ्चुः--पूर्वजः । मुञ्चिः, मुञ्चनम् , मुञ्चा, मुञ्चनीयम्--चत्वारो महति ।
४२३. पच पचि व्यक्तीकरणे--प्रकाशने । पचते--जीर्णो भवति । पचः, पक् , पचकः, पाचकः, पचमानः--पञ्च जीर्णभवितरि । पचिः, पचुः, पच्यम् , पचनम् , पाचनम् , पाचुः, पाचनीयम् --सप्तैते व्यक्तीकरणे । पञ्चते--व्यवहरति । पञ्चकः--व्यापारी। पञ्चा--गृहस्य चतसृषु दिक्षु भवः स्थानविशेषः (बरांडा, बरण्डा इति वा भाषायां प्रयुज्यमानः)। पञ्चम्--अपूर्वम् । पञ्ची--'थैला' इति प्रसिद्धम् । पञ्चाळः--देशविशेषः । पञ्चकः, पञ्चमानः द्वौ व्यावहारिके । पञ्चनम् , पञ्चनीयम्--द्वौ व्यवहारे।
४२४. ष्टुच प्रसादे--प्रसन्नतायाम् । स्तोचते--प्रसन्नो भवति । स्तुक, . स्तोचः, स्तोचकः, स्तोचमानः--चत्वारः प्रसन्ने। स्तोचनम् , स्तोचनीयम् , स्तोच्यम्--त्रयः प्रसादे ।
४२५. श्वच श्वचि इज ईजी ऋज षर्ज ऊर्ज गतौ--श्वचते--चलति । श्वक्, श्वचकः, श्वचमानः--त्रयश्चलितरि । श्वचिः, श्वचुः, श्वचनम् , श्वचनीयम् , श्वच्यम्--पञ्च चलने । श्वञ्चते--धावति । श्वञ्चकः, श्वञ्चमानः--द्वौ धावके । इजते1--समयं जानाति । ऋत्विक्--ऋतुकालज्ञः । इजकः, इक् , इजमानः--त्रयो निपुणे । इजिः, इजनम् , इजनीयम् , इज्यम् , इज्या--पञ्च प्रस्तुतपूजायाम् । ईजते--चलति । ईक् , ईजकः, ईजमानः--त्रयो गन्तरि । ईजिः, ईजुः, ईजनम् , ईजनीयम् , ईज्यम्--पञ्च चलने । ऊर्जते--समर्थयति । ऊर्क्, उर्जकः, ऊर्जमानः--त्रयः समर्थे । ऊर्जिः, ऊर्जुः, ऊर्जम् , ऊर्जनम् , ऊर्जितम् , ऊर्जनीयम् , ऊर्ज्यम् -- सप्तैते सामर्थ्ये । अर्जते--समाहरति । ऋक्--वेदः, रोगः। ऋजकः, ऋजमानः--द्वौ सत्यवति । ऋजः, ऋजि, अर्जनम् , अर्जनीयम् , आर्जनम् , आर्ज्य॑म् , अर्ज्यम्--षट् (?, सप्त ) ऋजुत्वे । सर्जते--त्यजति । सर्जः, सर्जकः, सर्जमानः --त्रयस्त्यक्तरि । सर्ज्यः--सिंहः (?)। सर्जनम् , सर्जनीयम् , सर्जिः, सर्जुः, सर्गःपञ्च त्यागे । सर्जरसः--धूपवृक्षः।
४२६. ऋजि भृज भर्जने--[ भ्राष्ट्र ]पाके । ऋञ्जते--पचति (सेकता है)। ऋञ्जकः, ऋञ्चमानः--पाचकः ( भर्जकः ) । ऋञ्जनम् , ऋञ्जम् , ऋञ्जनीयम् , ऋञ्जिः, ऋञ्जः--पञ्च भर्जने । भर्जते--ज्वलयति (पाचयति)। भृक् , भर्जकः, भर्गः, भर्जमानः--चत्वारः पक्तरि । भर्जिः--शुक्तम् । भृजिः, भृजः, भुक्तिः (?), भुक्तम् (?)

टिप्पणी


१. तिङि कृदन्तेषु च गुणः कथं नेति न ज्ञापते।

71
भर्जनम् , भर्जनीयम् , भर्ज्यम् , भार्ज्यम् , भृष्टम् , भृष्टिः--दश पचने (सेकने में)।
४२७. चर्च, कचि, भ्रेजृ, एजृ, भ्राजृ दीप्तौ--प्रकाशे । चर्चते--शङ्कते। चर्चकः, चर्चमानः--शङ्किता। चर्चा--गौरी, शङ्का । मं चर्चते मचर्चा, मचर्चिका--द्वौ प्रशस्तवाचकौ। चर्चम् , चर्चिः, चर्चुः, चर्चनम् , चर्चनीयम् , चर्च्यम्--षट् विचारणे। कञ्चते--व्यवहरति । कञ्चि--एकाग्रनाथस्य नगरम् । कञ्चिः कञ्चवाळम्--द्वौ लोध्रवृक्षे । कञ्चीदाम--आभरणम् । काञ्चनम्--सुवर्णम् । कञ्चकः, कञ्चमानः--द्वौ प्रकाशितरि । एजते--प्रकाशते । एक्, एजकः, एजमानः--त्रयो महति दीपके । एजिः, एजुः, एजनम् , एजनीयम् , एज्यम् , ऐज्यम्--षट् प्रकाशे । भ्रेजते--अल्पं प्रकाशते (टिमटिमाता है)। भ्राजकः, भ्राजमानः--द्वौ प्रकाशितरि । भ्राट् , भ्राजिः, भ्राजुः, भ्राजनम् , भ्राजनीयम् , भ्राज्यम्--षट् प्रकाशे।
४२८, तितिक्षा1 शातने क्षमायां च--तीक्ष्णीकरणे, सहने, प्रकाशने च । तितिक्षते--तीक्ष्णीकरोति, सहते, प्रकाशते । तितिक्षकः, तितिक्षमाणः--द्वौ तीक्ष्णीकर्तरि, सोढरि, दीपवोढरि । तितिक्षिः, तितिक्षुः, तितिक्षणम् , तितिक्षा--चत्वारः सहने।
४२९. ष्वञ्ज परिषङ्गे--सहने (? )। स्वजते--धन्यवादं करोति (?)। स्वजकः२ स्वजमानः--[ द्वौ] धन्यवादस्य दातरि (?)। स्वजिः, स्वजुः, स्वजनम्--त्रयः सहने।
४३०. अदि अति क्रमहिंसयोः----क्रमे हिंसायां च । अन्दते--क्रमेण चलति, हिनस्ति वा । अन्दकः, अन्दमानः--क्रमेण चलितरि । अन्दुः--पूर्वकालः । अन्दुका--पादभूषणम् । अन्दः--सौन्दर्यम् । अन्दलम् , अन्दोलिका--शिविका । अन्दिः, अन्दनम् , अन्दनीयम्--त्रयः क्रमे । अन्तते--हिनस्ति । अन्तकः--

टिप्पणी


१. पाणिनीयास्तु 'गुप्तिकिद्भ्यः सन्' (अ० ३।१।५) इत्यनेन सनि व्युत्पादयन्ति । 'तिजेः क्षमायाम् च' (वा० ३।२।५) इत्यैवं चार्थं निर्दिशन्ति । काशकृत्स्नीयपाठेनास्य धातोरन्येषां च स्वार्थसन्नन्तानां प्रकृत्यन्तरत्वं द्योत्यते।
२. स्वजक आदिषु कृदन्तेषु अनुषङ्गलोपः कथमिति न व्यक्तीकृतं वृत्तिकृता। 'दंश दशने' (१।३७१ ) इत्यत्र 'अनुषङ्गलोपोऽनुनासिकानाम्' इत्यनेन 'दशति' इत्यत्रानुषङ्गलोपो दर्शितः । तथैवेहापि 'स्वजते' इत्यत्र भाव्यम्, न तु कृदन्तेषु । पाणिनीयास्तु 'दंशसञ्जस्वञ्जांशपि' (६।४।२५) इति स्पष्टं शप्येवानुनासिकलोपमाचक्षते ।

72
अन्तमानः--द्वौ हिंसके । अन्तुः--प्रकारवाक्ये (?)। अन्तम्--समाप्तिः । अन्तिः, अन्तरम् , अन्तनीयम्--त्रयो हिंसने ।
४३१. घुट्ट चलने--गतौ। घुट्टते--चलति । घुट्टः, घुट्टकः, घुट्टमानः[त्रयो गन्तरि । घुट्टिः, घुट्टुः, घुट्टनम् , ] घुट्टनीयम्--चत्वारश्चलने ।
४३२. स्फुट विकसने--वृद्धौ विकासे वा । स्फोटते--श्वयति (फूलता है)। स्फोटकः, स्फोटमानः--द्वौ श्वयितरि (फूलने वाले में )। स्फोटकम्--'फोड़ा इति भाषायाम्', भक्ष्यविशेषश्च । स्फुटम् , स्फुटितम् , स्फुटनम् , स्फुटनीयम्--चत्वारः श्वयथौ।
४३३. चेष्ट चेष्टायाम्----व्यवहारे। चेष्टते--व्यवहरति (क्रियां करोति)। चेष्टकः, चेष्टमानः--द्वौ व्यवहर्तरि । चेष्टिः, चेष्टुः, चेष्टनम् , चेष्टा, चेष्टनीयम्--पञ्च चलनादिक्रियासु ।
४३४. योष्ट, लोष्ट1, हुडि, पिडि संघाते--सहभावे । योष्टते--सहभावं गच्छति । योष्टकः, योष्टमानः--द्वौ सार्थे । योष्टिः योष्टुः, योष्टम् , योष्टनम् , योष्टनीयम्--पञ्च सहभावे । [लोष्टते--.... । ] हुण्डते--पराजयते । हुण्डकः, हुण्डमानः--द्वौ पराजेतरि । हुण्डा, हुण्डि:--पराजयः । पिण्डते--पिबति । पिण्डकः पिण्डमानः--द्वौ पातरि । पिण्डम्--गर्भः, संघातः । पिण्डिः--'गठरी' इति भाषायाम् प्रसिद्धा, पिण्याकम् (तिलादीनां निष्पिष्टं तैलरहितं चूर्णम् )।
४३५, अडि गतौ2--गमने । अण्डते--चलति । अण्डम्--कुक्कुटादीनां गर्भः।
४३६. हिडि अनादरे च----तिरस्कारे चाद् गतौ च । हिण्डते--पीडयति । हिण्डकः, हिण्डमानः--द्वौ पीडयितरि । हिण्डा--गोमयः, कुक्कुटश्च । हिण्डम्--मदिरा, मदः । हिण्डिः--पिण्याकम् । हिण्डुः--समूहः ।
४३७. वठि एकचर्यायाम्--एकान्ते । वण्ठते--एकान्ते वसति । वण्ठः, वण्ठकः, वण्ठमानः--त्रय एकान्ते निवसितरि । वण्ठिः, वण्ठुः, वण्ठनम् , वण्ठनीयम्--चत्वार एकान्तक्रियायाम् ।

टिप्पणी


१. नायं धातुर्वृत्तौ व्याख्यायते।
२. सर्गादौ प्रकृतेः परिणामभूतं यद्धिरण्यं महदण्डं समुदपद्यत, तद् आपरिपाकमाभेदनमप्सु पर्यप्लवत् प्रासर्पद्वा। तदुक्तम्--तासु ( अप्सु ) तप्यमानासु हिरण्यमाण्डं सम्बभूव । तदिदं................. यावत्संवत्सरस्य वेला तावत् पर्यप्लवत् । शत० ११।१।६।१--२॥ सोऽस्मिन्नन्धे तमसि प्रासर्पत। तां० १६।११॥ अस्य महदण्डस्योत्पत्तिसमकालमेव या गतिः समुदपद्यत सैव 'अण्डते' इत्याख्यातेनोच्यते ।

73
४३८. मठ (?, मठि) कठि शोके--दुःखे । मण्ठते--दुःखितो भवति । मण्ठः, मण्ठकः, मण्ठमान:--त्रयो दुःखिनि । मण्ठिः, मण्ठुः, मण्ठा, मण्ठनम् , मण्ठनीयम्--पञ्च दुःखक्रियायाम् । कण्ठते--शब्दं करोति । कण्ठः--गलम् , लेखनी । कण्ठीरवः--सिंहः । कण्ठीमणिः--कण्ठाहारः, कण्ठमणिः । कण्ठकः, कण्ठमानः--द्वौ शब्दकर्तरि। कण्ठिः, कण्ठुः, कण्ठनम्, कण्ठनीयम् चत्वारश्शब्दने । विसकण्ठिका--बलाका।
४३९. मुठि पलायने----मुण्ठते--पलायते । मुण्ठः, मुण्ठकः, मुण्ठानः1--त्रयः पलायनकर्तरि । मुण्ठिः, मुण्ठुः, मुण्ठा, मुण्ठनम्, मुण्ठनीयम्--पञ्चैते तोडने (पलायने )।
४४०. हेठ एठ विबाधायाम् ------स्थविरे (?, गत्यवरोधे ) । हेठते--स्थिरो भवति (गत्यवरुणद्धि) । हेठः, हेठकः, हेठानः त्रयः--स्थिरे (गत्यवरोधकर्तरि)। हेठा--कुक्कुटीः । हेठिः, हेठुः, हेठनम् , हेठनीयम्--चत्वारः स्थविरे ( स्थैर्ये ) । एठते2--आत्वरति (आतुर होता है)। एठः, एठकः, एठानः--चत्वार आतुरे । एठुः--ताडनम् । एठनम् , एठनीयम्--द्वा आतुरतायाम् ।।
४४१. कुडि दाहे--तृषायाम् (?)। कुण्डते--दहते। कुण्डः, कुण्डकः, कुण्डानः--त्रयो दहनकर्तरि । कुण्डा--गुदा । कुण्डिः, कुण्डः, कुण्डनम् , कुण्डनीयम्--चत्वारो दाहे ।
४४२. वडि मडि वेष्टने------परिवेष्टने ( लपेटने में )। वण्डते--परिवेष्टयति वण्डः, वण्डकः, वण्डानः--त्रयः परिवेष्टरि । वण्डा--लता, पाकः। वण्डिः, वण्डुः, वण्डनम् , वण्डनीयम्--चत्वारः परिवेष्टने । इल्लं मण्डते--तिलान् वपति इलमण्डिका--तिलभक्ष्यः। मण्डा--मण्डूकी, शिरः । मण्डोदरी--रावणपत्नी । मण्डा--शीकायः (?, शीकाकाई नाम्ना प्रसिद्धा, आमलकी वा)। मण्डिः--जानोरधोभागः । मण्डुः, मण्डूकः--प्राणिविशेषः (मेंढक)। मण्डनम् , मण्डनीयम्--द्वावाभरणे ।
४४३. भडि परिभाषणे--गप्पकर्मणि3, हास्ये । भण्डते--( ताना मारता

टिप्पणी


१. इत आरभ्य शानचो मुण्ठमान--आदि शब्दानां स्थाने मुग्रहिता 'मुण्डान' आदि शब्दाः समुपलभ्यन्ते । तत्र केन नियमेन मुगाभाव इति न ज्ञायते ।
२, भाषायां प्रयुज्यमाना 'ऐंठना' क्रिया 'एठ' धातोरेव विकारभूता । 'ऐंठना' क्रिययाऽपि कस्मिंश्चित् कर्मणि बाधा उत्पद्यत एव ।।
३. 'गप्प' शब्द विषये पूर्वत्र ४६ तमे पृष्ठे प्रथमा टिप्पणी द्रष्टव्या।

74
है)। भण्डः,1 भण्डकः, भण्डानः--विकृतहास्यकर्तरि । भण्डिः--यानम् ('गाड़ी' इति प्रसिद्धा)। भण्डुः--पुष्पचूर्णम्, विकृतहास्यम् । भण्डनम् , भण्डनीयम् , भण्ड्यम्--त्रयो भषणे । भाग्यम् (?, भाण्ड्यम् )--उपहारः।।
४४४. मुडि मज्जने--स्नाने । मुण्डते--निमज्जति ( डुबकी लगाता है)। मुण्डः--जलकुक्कुटः । मुण्डवासः--लघूपवस्त्रम् ('रूमाल' इति प्रसिद्धम् )। मुण्डकः, मुण्डानः--द्वौ निमज्जितरि । मुण्डनम्, मुण्डनीयम्, मुण्डिः, मुण्डुः, मुण्ड्यम्--पञ्च जले निमज्जने । ___
४४५. त्रुडि त्रुड2 त्रोडने--मारणे । त्रुण्डते--मारयति । त्रुण्डः, त्रुण्डकः, त्रुण्डाणः--त्रयो हन्तरि । त्रुण्डुः--तुण्डम् ( पक्षियों की चोंच ) । त्रुण्डिः, त्रुण्डणम् , त्रुण्डणीयम्--त्रयो हिंसायाम् । [त्रोडते--.........।
४४६. भुडि भरणे--परिधाने । भुण्डते--परिदधाति (पहनता है), स्वीकरोति । भुण्डः, भुण्डकः, भुण्डानः--त्रयः परिधातरि । भुण्डिः, भुण्डुः, भुण्डनम् , भुण्डनीयम्--चत्वार आभरणे, स्वीकारे।।
४४७. चडि कोपे--क्रोधे । क्रुध्यति । चण्डः--राक्षसः । चण्डी, चण्डा, चण्डिका--त्रयो गौर्याम् , कोपाविष्टायाम् । चण्डमारुतः--झञ्झावातः । चण्डालः--कपिञ्जलमुनिगोत्रजश्चाण्डालः।
४४८. शडि रुजायाम्----पीडायाम् । शण्डते--पीडामनुभवति । शण्डः--नपुंसकः । शण्डिलः--मुनिः, ऋग्वेदशाखी । शण्डकः, शण्डमानः--पीडानुभवितरि । शण्डा, शण्डी, शण्डुः, शण्डनम् , शण्डनीयम्--पञ्च पीडने ।
४४९. तडि तोडने--खण्डने । तण्डते--त्रोटते, खण्डयति । तण्डकः, तण्डानः--द्वौ खण्डयितरि । वितण्डः--हस्ती, कुतर्कः । तण्डुलः--ओदनप्रकृतिः (चावल)। तण्डरुः --(चिमटा इति प्रसिद्धम् )। तण्डम्--संख्यायोगः । तण्डः-- राजा, जिनमुनिः। तण्डा--लता। तण्डी--तृणम् , क्षेत्रैकदेशः ('क्यारी' इति प्रसिद्धः) । तण्डनम् , तण्डनीयम् , ताण्डवम्--त्रयो नृत्ये ।
४५०. पडि गतौ--पण्डते--प्रसरति । पण्डकम्--प्रसरणशीलः । पण्डुः--फलम् । पण्डा--बुद्धिः । पण्डितः--विद्वान् । पण्डिः, पण्डनम् , पण्डनीयम्--त्रयश्चलने । पाण्ड्यः--एतन्नामा देशः, राजा। पण्ड्यम्--धान्योत्पत्तिः (?) । पण्डारः पण्डारि--द्वौ संचालके । पाण्डुः, पाण्डुरः--द्वौ श्वेतवर्णे, रोगे, राज्ञि ।

टिप्पणी


१. अस्यैव भ्रंशो हिन्दी भाषायां 'भाँड' इति प्रयुज्यते ।
२. अयं धातुर्नैव व्याख्यायते वृत्तौ।

75
४५१. कडि मदे--उन्मादे । कण्डते--मत्तो भवति । कण्डलः, कण्डकः, कण्डान:--त्रयो मत्ते । कण्डुः--चर्मरोगविशेषः (खुजली)। कण्डिः--छिद्रम् । कण्डिका--खण्डिका ( मन्त्रसूत्रादिसमूहविशेषः)। काण्डम्--तीरम् , परिच्छेदः, विभागविशेषः।
४५२. खडि मन्थे----अवहनने (कूटने में) । आखण्डते--सर्वत्र खण्डनं करोति । आखण्डलः--इन्द्रः । खण्डितः, खण्डकः, खण्डानः--त्रयः खण्डनकर्तरि। खण्डम्--अर्धम् । खण्डनम् , खण्डनीयम् , खण्डिः, खण्डुः--चत्वारः समभागे । खण्डेयम्--असिः।
४५३. हेडृ होडृ अनादरे--तिरस्कारे । हेडते--बिभेति । हेडकः, हेडानः--कायरः1 । हेडः--सोपानम् ( सीढ़ी इति भाषायाम् ) । हेडुः--'छत' इति भाषायाम् । हेडिः--कायरा। हेडनम् , हेडनीयम्--भये । होडते--हिंसयति (असिना गात्रं विच्छेदयति ) । होडः, होडकः, होडानः--त्रयो गात्रविच्छेदके । होडिः--(?) । होडिका--भक्ष्यविशेषः। होडुः--(?) । होडा--ताडनम् । होडनम् , होडनीयम्--द्वौ कष्टप्रदाने ।
४५४. वाडृ अप्लावे (?, आप्लवे)--तरणे । वाडते--तरति । वाडम्--महानौका (जहाज इति भाषायाम् )। वाडकः, वाडानः--तरिता । वाडा--(?)। वाड् , वाडिः, वाडुः, वाडनम् , वाडनीयम् , वाड्यम्--षट् तरणे ।
४५५. द्राडृ ध्राडृ विशरणे--तक्षणे ( छीलने में)। द्राडते--तक्षति । द्राड्, द्राडः, द्राडकः, द्राडानः--चत्वारस्तक्षके । ध्राडते--विभजति । ध्राड्, ध्राडः, ध्राडकः, ध्राडानः--चत्वारो विभाजके । ध्राडनम्, ध्राडनीयम् , ध्राड्यम्--त्रयो विभजने ।
४५६. शाडृ श्लाघायाम्--पूजायाम् । शाडते--पूज्यो भवति । शाड् , शाडः, शाडकः, शाडानः--चत्वारः पूज्ये । शाड्वलम्--(नवतृणबहुलो देशः)। शाडिः, शाडुः, शाडनम् , शाडनीयम्--चत्वारो मान्ये ।
४५७. तिपृ ष्टेपृ शिपृ शेफृ क्षरणे--तेपते--[सिञ्चति । तेपकः, तेपानः--[सिञ्चकः] । तिप् , तिपिः, तेपुः, तेपनम् , तेपनीयम्--[ सेचने] । तेपा--(?)। स्तेपते--[क्षरति] । स्तेपकः, स्तेपानः, स्तिपः, स्तिपितः, स्तेपः--पञ्च [क्षरितरि]। स्तेपनम् , स्तिपिः, स्तेपुः, स्तेपनीयम्--चत्वारः [क्षरणे] । शेपते--विकर्तितुं योग्यो भवति । शिपिः--शिविः, चर्म, शिविराज्ञो नगरम् , यागण्टि--

टिप्पणी


१. काये एव रमते कायरः, ( रोमत्वर्थीयः), भीरुवाचकं संस्कृतभाषापदमिदम् ।

76
प्रान्तस्य कोकिलाकुण्डम् । शेफते--वपति । शेफस्--मेढ्रम् । शेफकः, शेफालः--द्वौ वप्तरि । शेफः--वृक्षः । शेफी, शेफू, शेफ् , शेफनम् , शेफनीयम्--पञ्च वपने ।
४५८. वेपृ कम्पने च--कम्पने चात् क्षरणे । वेपते--कम्पते । वेपथुः, वेपमानः, वेपनः, वेपकः, वेप्--पञ्च कम्पनशीले । वेपः--वृक्षविशेषः, निम्बवृक्षः । वेपिः, वेपुः, वेपनीयम्--त्रयः कम्पने ।
४५९. ग्लैपृ दैन्ये--दाने (?)। ग्लैपते--याचते । गैप् (?, ग्लैप् ), गैपकः (? ग्लैपकः), ग्लैपमानः--चत्वारो याचके । ग्लैपिः, ग्लैपुः, ग्लैपनम् , ग्लैपनीयम्--चत्वारो याचने।
४६०. वुख ष्टृख मृख कखि चलने--वोखते--कम्पते । वोखः, वोखकः, वोखमानः, वुख्--चत्वारः कम्पितरि । वुखिः, वुखुः, वोखनम् , वोखनीयम्--चत्वारः कम्पने । स्तर्खते--विस्मरति । स्तर्खः, स्तर्खकः, स्तर्खमाणः--त्रयो विस्मर्तरि । स्तृखिः, स्तृखुः, स्तर्खणम् , स्तर्खणीयम्--चत्वारो विस्मरणे । मर्खते--विवदते । मूर्खः (?, मर्खः), मर्खकः, मर्खमाणः--चत्वारो विवदितरि मूर्खे । म्राख (?, मर्खः), मर्खणम् , मर्खणीयम् , मृखिः--चत्वारो विवादे । कङ्खते--कूर्दते । कङ्खः, कङ्खकः, कङ्खानः--त्रयः कूर्दितरि । कङ्खिः--धान्यस्य पतितं स्तबकम् । कङ्खुः, कङ्खनम् , कङ्खनीयम्--त्रयः कूर्दने ।
४६१. केपृ गेपृ ग्लेपृ गतौ च1 ----गतौ चलने च । केपते--गच्छति, चलति । केपः, केपकः, केपानः--त्रयो गन्तरि । केपिः, केपुः, केपनम् , केपनीयम्--चत्वारो गमने । गेपते--लघु भवति । गेपः, गेपकः, गेपानः--त्रयो लघौ (वामने )। गेपिः, गेपुः, गेपनम् , गेपनीयम्--चत्वारो लघुकरणे । ग्लेपते--(पराधीनो भवति)। ग्लेपः, ग्लेपकः, ग्लेपानः--(पराधीनभवितरि)। ग्लेपिः, ग्लेपुः, ग्लेपनम् , ग्लेपनीयम्--चत्वारः--(पराधीनभवने )।
४६२. त्रपूष् लज्जायाम्--त्रपते--लज्जितो भवति । त्रप्ता, त्रपिता, त्रपकः, त्रपमाणः--चत्वारो लज्जितरि । त्रपिः, त्रपुः--यशदधातौ । त्रपणम् , त्रपणीयम् त्रपा--त्रयो लज्जने।
४६३. अबि शब्दे----अम्बते--शब्दयति । अम्बनम् , अम्बनीयम्--शब्दने ।
४६४. लबि अवस्रंसने--अधोलम्बने (लटकने में)। लम्बते--अधोनमति (लटकता है)। लम्बा--शुष्कमलाबूफलम् । लम्बिः, लम्बनम् , लम्बनीयम्--त्रयोऽधोलम्बने।

टिप्पणी


१. चादत्र चलनमुपरिनिर्दिष्टं गत्या सह समुच्चीयते । एतेन गतिचलनयोर्भेदो द्रष्टव्यः ।

77
४६५. कबृ1 वर्णे----सौन्दर्ये । कबरते--शृङ्गारं करोति । कबरी--(केशवेशयुता)। कबरः, कबरकः, कबरमाणः--त्रयो वर्णकर्तरि ( रंगने वाले में )। कबरणम् , कबरणीयम्--द्वौ रजने ।
४६६. क्लीबृ अधार्येट्न् --कोमले (मुलायम में )। क्लीबते--कोमलो भवति । क्लीबः, क्लीबकः, क्लीबानः--त्रयो नपुंसके । क्लीबनम् , क्लीबनीयम्--द्वौ कोमलभवने ।
४६७. क्षीबृ मदे--स्थौल्ये । क्षीबते--स्थूलो भवति । क्षीबः, क्षीबकः, क्षीबाणः--त्रयः स्थूले पुरुषे । क्षीबिः, क्षीबुः, क्षीबणम् , क्षीबणीयम्--चत्वारः स्थौल्ये मेदोवर्धने ।
४६८. शीभृ, चीभृ कत्थने--पूजने । शीभते--पूज्यो भवति । शीभः, शीभकः, शीभानः--त्रयो पूज्ये । शीभिः--वृक्षः, मार्जारः । शीभुः--(?) शीभनम् , शीभनीयम्--पूजने । चीमते--मान्यो भवति । चीभः, चीभकः, चीभानः--त्रयो मान्ये । चीभिः, चीभनम् , चीभनीयम्--त्रयो मानने।
४६९. रेभृ भर्त्सने--गर्जने । रेभते--गर्जति । रेभः--हस्ती। रेभकः, रेभाणः--द्वौ गर्जितरि । रेभिः, रेभुः, रेभणम् , रेभणीयम् , रेभ्--पञ्च गर्जने ।
४७०. अभि रभि शब्दे--ध्वनौ । अम्भते--आह्वयति, शब्दयति । अम्भः--[ जलम् ] । अम्भकः, अम्भानः--शब्दयितरि । रम्भते--गायति । रम्भा--देवस्त्रीकन्या (अप्सरा)। रम्भिः, रम्भुः, रम्भणम् , रम्भणीयम्--चात्वारो गानकर्मणि | रम्भः--मनोवायुः । आरम्भः--बुद्धिवायुः । विरम्भः--चित्तवायुः। सुरम्भः--अहंकारवायुः । संरम्भः--आत्मवायुः।
४७१.ष्टभि स्कभि प्रतिबन्धे--अवरोधे । स्तम्भते--तिष्ठति । स्तम्भः--कम्भः ( खम्बा इति भाषायाम् )। स्तम्भकः, स्तम्भानः--स्थातरि । स्तम्भिः, स्तम्भः, स्तम्भनम् , स्तम्भनीयम्--स्थितौ । स्कम्भते--चतसृषु दिक्षु बध्नाति । स्कम्भः--परिमातृ काष्ठम् (नापने वाली लकड़ी)। स्कम्भकः, स्कम्भानः--मापके । स्कम्भिः, स्कम्भुः, स्कम्भनम् , स्कम्भनीयम्--चत्वारो माने ।
४७२. जभि जृभि गात्रविनामे--शरीरालस्ये । जम्भते--अलसो भवति । जम्भः--राक्षसः। जम्भाः--वृक्षः। जम्मकः, जम्भानः--द्वौ अलसे। जम्भिः , जम्भनम् , जम्भनीयम्--त्रय आलस्ये। जृम्भते--अलसो भवति (ऊँघता है)।

टिप्पणी


१. ऋकारोऽनुबन्ध इति पाणिनीयाः । तेषां मते कबते रूपम् । द्र० पृ० ६७, टि० ३।

78
जृम्भा--पञ्चमढुः (?) पत्न्या जृम्भणम् । जृम्भकः, जृम्भाणः--द्वौ अलसे ( ऊँघने वाले में)। जृम्भिः, जृम्भुः, जृम्भणम् , जृम्भणीयम्--चत्वार आलस्ये (ऊँघने में)।
४७३. शल्ल1 कत्थने--वचने । शल्लते--वदति । शल्ला--वदित्री । शल्लकः, शल्लानः द्वौ कथयितरि । शल्लनम् , शल्लनीयम्, शल्लिः, शल्लुः--चत्वारः कथने ।
४७४. वल्ल2 भोजने--अदने । वल्लते--अत्ति । वल्लः, वल्लकः, वल्लानः, वल्लालः--चत्वारो भक्षयितरि । वल्लिः--लता, दीपश्च । वल्लनम्, वल्लनीयम्--द्वौ भक्षणे | वल्लभः--पतिः । वल्लभा--पत्नी
४७५. गल्भ अधार्ष्ट् -- दार्ढ्ये। गल्भते--जानाति । गल्भः, गल्भकः, गल्भानः--त्रयश्चतुरे विदुषि । गल्भनम् , गल्भनीयम् , गल्भिः, गल्भुः--चत्वारश्वातुर्ये । ४७६. ष्टुभ ष्टुभि स्तम्भने--स्थित्याम् । स्तोभते--तिष्ठति । स्तोभकः, स्तोभानः द्वौ स्थातरि । स्तुभिः, स्तुभुः, स्तोभनम् , स्तोभनीयम्--चत्वारः स्थितौ । अनुष्टुप् --छन्दोविशेषः । स्तुम्भते--तिष्ठति । स्तुम्भकः, स्तुम्मानः--द्वौ स्थातरि । स्तुम्भिः, स्तुम्भुः, स्तुम्भनीयम् -- चत्वारः स्थापने । कुस्तुम्भरम्-- धान्यकम् (धनिया)। । ४७७. खुण घुण घिणि घुणि घृणि ग्रहणे--खोणते--गृह्णाति । खोणः, खोणकः, खोणानः--त्रयो ग्रहीतरि । खुणिः--(?)। खोणनम् , खोणनीयम्--ग्रहणे । घोणते-- गृह्णाति । घोणकः, घोणानः--द्वौ ग्रहीतरि। खुणिः, घुणिः--द्वौ सर्पे, पूज्यपादमुनौ । घोणा--नासिका। घोणी--वराहः। घोणनम्, घोणनीयम्--द्वौ ग्रहणे । घिण्णते--विभजति (?)। घेण्णुः,--( ?)। घिण्णकः, घिण्णानः--द्वौ विभजितरि । घिण्णनम्, घिण्णनीयम्--द्वौ विभागे । घुण्णते--पीडयति । घुण्णा--(?)। घुण्णकः, घुण्णानः--द्वौ पीडयितरि । घुण्णनम् , घुण्णनीयम्--नासिकामलम् । घृण्णते--(धक्का देता है)। घृण्णः, घृण्णकः, घृण्णानः--त्रयः ( धक्का देनेवाले में)। घृण्णनम् , घृण्णनायम्--द्वौ ( धक्का देने में )। घृणः3--कीटः । घृणः1--रश्मिः ।

टिप्पणी


१. इह भान्तप्रकरणे शल्ल--वल्ल धात्वोः पाठोऽप्रासङ्गिकः । काशकृत्स्नीयस्य संक्षेपे कातन्त्र--धातुपाठ इह 'शल्भ कत्थने, वल्भ भोजने' इत्येवं पठ्यते । अतः काशकृत्स्नीयः पाठ इह भ्रष्टः स्यात् । कन्नडटीकाकृता तु यथोद्धृतानि पदानि तथा तत्समये 'शल्ल वल्ल' इत्येव पाठ आसीदिति निश्चीयते ।
२. द्रष्टव्या इतः पूर्वा टिप्पणी।
३. 'घृणः, घृणिः' अत्र नुमाभावः कथमिति न ज्ञायते ।

79
४७८ घूर्ण भ्रमणे--घूर्णते--भ्रमति । घूर्णकः, घूर्णानः द्वौ भ्रमणकर्तरि । घूर्णम्, घूर्णितम्, घूर्णनम्, घूर्णनीयम्--चत्वारो भ्रमणे ।
४७९ श्रंसु प्रमादे--विश्वासघाते । श्रंसते--वञ्चति । श्रंसकः, श्रंसानः द्वौ वञ्चके । श्रंसिः, श्रंसनम्, श्रंसनीयम्--त्रयो वञ्चने ।
४८०. पण पन व्यवहारे स्तुतौ च--पणते, पणायते1--व्यवहरति । पणिनः--मुनिः, वैश्यः। विपणः, पण्यवीधि(?, थि)का--द्वौ आपणश्रेण्याम् । पणम्--निष्कदशांशं सुवर्णम् । पाणिः--हस्तः । पणकः, पणानः द्वौ व्यवर्तरि । पणिः, पणुः, पणनम्, पणनीयम्, पण्यम्--पञ्च मूल्ये। पनत पनायते२--स्तौति । वनकः, पनानः--द्वौ स्तोतरि । पनसः--यजुवर्गः, एतन्नामा वृक्षावशेषः ('कटहल इति भाषायां प्रसिद्धः) । पनिः--कामः, जलबिन्दुः । पननम् , पन्यम् , पननीयम्--त्रयः स्तुतौ । पानम्, पानकम्--द्वौ पानक्रियायाम् । पानीयम्--जलम् ।
४८१. भाम क्रोध--भामते--क्रुद्धो भवति । भामा, भामिनी--स्त्री। भामकः, भामानः--द्वौ क्रुध्यमाने । भामिः, भामुः, भामनम् , भामनीयम्, भाम्यम्--पञ्च--क्रोधे।
४८२. क्षमूष् सहने--क्षमते--सहते (क्षमां करोति )। क्षमा, क्षामिः, क्षमणम्, क्षमणीयम्, क्षान्तिः--पञ्च सहने । क्षमकः, क्षमाणः, क्षान्तः--त्रयः सोढरि (क्षममाणे ) । क्षामम् , क्षामकम्--द्वौ ( ? )।
४८३. क्ष्मै धारणे--क्ष्मायते--सहते । क्ष्मा--भूमिः । क्ष्मायकः, क्ष्मायमाणः--द्वौ सहमाने । क्ष्मायिः, क्ष्माणम् , क्ष्माणीयम्--त्रयः सहने ।
४८४. कमु कान्तौ--कमते, कामयत3-- इच्छति । कान्तः--पतिः। कान्ता --पत्नी । कान्तिः--प्रकाशः । कामिनी--स्त्री। कामः, कामकः--विट् पुरुषः। कामनम्--इच्छा, आसक्तिः । कमिः, कमुः, कमनम् , कमनीयम् , कम्यम् , काम्यम् --षड् इच्छायाम् । कामी--व्यसनी।
४८५. अय वय षय मय चय तय रय गतौ--अयते--चलति । अयः--श्रेष्ठं कार्यम् । आयः--मर्म । अयस्--लोहः। आयुस्--जीवनम् । अयि, अये--स्त्रीसंबोधने । आयी--माता। अयनम्--मार्गः। उत्तरायणम् , दक्षिणायनम् –

टिप्पणी


१. पणते, पणायते; पनते, पनायते; कमते, कामयते----अत्र 'आयणिङौ' कथं विकल्पेते इति न ज्ञायते । पाणिनीयास्त्वार्धधातुक एव आयणिङोर्विकल्पं संगिरन्ते ।
२. द्रष्टव्या पृ० ७९, टि० १ ।
३. द्रष्टव्या पृ० ७९, टि० १।

80
सूर्यरथस्य उत्तरदक्षिणयोर्गतिः । अय्यः, आय्यः, अयकः, आयकः, अयमानः--पञ्च गन्तरि । वयते--उड्डीयते । वयस्--पक्षी, वृद्धः। वायुः--अनिलः । वयी--स्त्री। वायिः--सगोत्रः । वायः--व्यर्थः। वयनम् , वयिः, वयुः, वय्यम् , वाय्यम्, वयनीयम्--षट् चलने । वायम्--मुखम् । वयनम् , वयणम् , वयकः, वायकः, गयमानः (?, वयमानः)--[ पञ्च ] गन्तरि । पयते--रक्षति । पयकः, पायकः, पय्यः, पाय्यः, पयमानः--[ पञ्च ] रक्षितरि । पयिः, पायिः--दरिद्रः । पायुः--गुदम् । पयुः, पयनम् , पयनीयम्--[त्रयो ] रक्षणे । पयस्--जलम् , दुग्धम् । पायः--(?)। मयते--क्लिष्टं कार्यं करोति । मयः--विश्वकर्मणो ज्येष्ठभ्राता । मायः--राक्षसः माय (?)। मयुः--गन्धर्वः। मयूरः--कलापी । माया--मयस्य पुत्री, नाभिराज्ञः पत्नी, अन्तस्य (?) माता । मायिः--मयस्य पुत्री, कश्यपस्य पत्नी, सूरपद्मम् , सिंहः, वक्रतारकः, अश्वमुखिनो माता । मयकः, मायकः, मयमानः, मायावी,1मायिकः1, मायी1, मय्यः, माय्यः--एतेऽष्टौ मायाविनि। मयनम्--वृक्षजं श्लेष्मद्रव्यम् ('गोंद' इति भाषायाम् , मोम वा)। मै--शरीरम् । मायुः--नाशः । गोमायुः--शृगालः । गोमयम्2--गवां पुरीषम् । चयते--परिहासं करोति । चयकः, चायकः, चयमानः, चय्यः3, चाय्यः3:--पञ्च परिहासकर्तरि । चयिः, चयुः, चयनम् , चायम्--चत्वारः परिहासे । तयते--चुम्बति । तयः, तयकः, तयमानः, तय्यः--चत्वारश्चुम्बितरि । तयिः, तयुः, तयनम् , तयनीयम्--चत्वारश्चुम्बने । रयते--आम्ररसं निष्पादयति (अमरस बनाता है)। रयकः, रयमानः--द्वौ आम्ररसनिष्पादयितरि। रयिः, रायिः द्वौ सुवर्णे । रयः--शीघ्रम् । रायः--भाग्यवान् । रयुः, रयणम् , रय्यम् , रयणीयम्--चत्वारश्शोभने ।

टिप्पणी


१. पाणिनीयाः 'मायावी मायिकः मायी' इत्येतान् तद्धितप्रत्ययान्तान् आचक्षते। इह तु कृदन्तेषु पाठसामर्थ्यात् कृदन्ता एते इति स्पष्टं ज्ञायते । इयं च प्रवृत्तिः काशकृत्स्नधातुवृत्तावन्यत्राप्युपलभ्यते। यथा----पाणिनीयैस्तद्धितान्तत्वेन स्वीक्रियमाणाः 'वाग्मी, वाचालः वाचाटः' अत्र कृदन्तत्वेनाभ्युपगताः ( द्र० २।३० धातुव्याख्याने )। पूर्वकाले कृदन्तत्वेन परिभाष्यमाणा बहवः शब्दा औत्तरकालिकैर्वैयाकरणैस्तद्धितान्तत्वेन प्रतिज्ञाताः । तथा ह्याह क्षीरस्वामी--'काल्पनिके हि प्रकृतिप्रत्ययविभागे द्राघिमादयः कस्मिंश्चिद् व्याकरणे धातोरेव साधिताः, एवं नेदिष्ठादयो नेदत्यादेः' (क्षीरतरङ्गिणी १।८०, पृष्ठ ३३)। इह अस्मत्संस्करणेऽस्माकीना टिप्पण्यपि द्रष्टव्या।
२. द्रष्टव्येह टिप्पणी १ । चुरादौ तु धात्वन्तरम् ।
३. 'चय्यम्' यत्प्रत्ययान्तम् , चाय्यम्' ण्यत्प्रत्ययान्तम् । उभावपि प्रत्ययौ पाणिनीयानां मते कृत्यसंज्ञकौ, तौ च भावे कर्मणि च प्रयुज्यते । इह वृत्तौ तु बहुत्र यत्ण्यत्प्रत्ययान्तानां कर्तरि प्रयोग उपलभ्यते । यथेहैव कर्तरि प्रयुज्यमानानां 'चयकः, चायकः, चयमानः' आदीनां प्रकरणे चय्यः चाय्यः पदे पठ्येते, कर्तरि चार्थः प्रदर्श्यते ।

81
४८६. णय रक्षणे च--त्राणे चात् चलने च । नयते--रक्षति । नयकः नायकः, नय्यः, नाय्यः, नयमानः--पञ्च रक्षितरि । नयः, नयिः, नयुः, नायः, नयनम्, नयनीयम्--षट् रक्षणे । नाय्--श्वा । नायी--शुनी।
४८७. दय दानगतिहिंसाऽऽदानेषु--दयते--ददाति । दयाळुः, दयकः, दयमानः, दय्यः, दाय्यः, दायकः, दायी--सप्त दातरि । दयुः, दयिः, दय्यम् , दायम् , दयनम् , दयनीयम्--षड् दाने । दायमत्तीति (--फलं भुङ्क्ते ) दायादः--पुत्रादिः, दायहर्त्ता । दया--करुणा । दयिता--स्त्री।
४८८. ऊयी तन्तुसन्ताने----तन्तुसंयोगे। ऊयते--सीव्यति, संयोजयति । ऊयकः, ऊयमानः--द्वौ ऊर्णनाभौ, वस्त्रवायके । ऊयिः, ऊयुः, ऊय्यम् , ऊयनम् , ऊयनीयम्--पञ्च संयोजने।
४८९. पूयी विशरणे दुर्गन्धे च--श्वयथौ, दुर्गन्धे च । पूयते--श्वयति । पूयकः, पूयमानः द्वौ श्वयितरि । पूयम् , पूयिः, पूयुः, पूयनम् , पूयनीयम्--पञ्च श्वयथौ । पूयशोणितम्--दुष्टं दुर्गन्धं वा रक्तम् ।
४९०. क्रूयी1 शब्दे--क्रूयते--शब्दं करोति । क्रूयकः, क्रूयमाणः--द्वौ शब्दयितरि । क्रूयिः, क्रूयुः, क्रूयः, ऋयणम् , क्रूयणीयम्--पञ्च शब्दे । __
४९१. क्ष्मायी विधूनने--दाने । क्ष्मायते--ददाति । क्ष्मायकः, क्ष्मायमाणः--द्वौ दातरि । क्ष्मायिः, क्ष्मायुः, क्ष्मायणम् , क्ष्मायणीयम्--चत्वारो दाने । __
४९२. स्फायी ओप्यायी वृद्धौ--स्फायते--वर्धते । स्फायकः, स्फायमानः--द्वौ वर्धितरि । स्फायिः, स्फायः, स्फायुः, स्फायनम् , स्फायनीयम् , स्फायत्--षट् वर्धने । स्फायः स्फी--स्फायधातोः स्फी आदेशो भवति । स्फीतम्--वृद्धम् । आप्यायते--क्षुधितो भवति । आप्यायकः, [ आप्यायमानः--द्वौ क्षुधिते । प्यायिः, प्यायुः, प्यायनम् , प्यायनीयम्--चत्वारो क्षुधायाम् । प्यायः पीः--प्यायधातोः पी आदेशो भवति । पीतम् पीतिः--द्वौ क्षुधि । पीत्या सह वर्तते (क्षुधितो भवति ) सपीतिः--तृष्णा, तृषा ।
४९३. तायृ सन्तानपालनयोः--सन्ताने रक्षणे च । तायते--रक्षति । तायकः, तायमानः, तायः2, ताय्यः--चत्वारो रक्षितरि । तायिः, तायी3--द्वौ जनन्याम् । तायुः, तायनम् , तायनीयम्--त्रयो रक्षायाम् ।

टिप्पणी


१. अत्र पाठभ्रंशः प्रतीयते। 'क्नूयी शब्दे' इति युक्तः पाठः स्यात् , तथैव 'क्नूयते' इत्याद्युदाहरणेष्वपि ज्ञेयम् । कातन्त्रधातुपाठेऽपि 'क्नूयी' इत्येव पाठः।
२. हिन्दीभाषायां पितुर्ज्येष्ठभातरि प्रयुज्यमानः 'ताया' शब्दोऽस्यैवापभ्रंशः सम्भवति ।
३. पितुर्ज्येष्ठभातुर्जायायां ( बड़ी मां--इत्यर्थे ) प्रयुज्यमानः 'तायी' शब्दोऽयमेव संभवति।

82
४९४. शल शल्ल शलकि चलने--कम्पने । शलते--चलति, कम्पते । शलकः, शलमानः--द्वौ कम्पितरि । शलभः--धान्योत्पत्तिः। शालूरः--मण्डूकः । शालूकम्--कमलकन्दः । शलाका--केशः, लोहयष्टि ( सलाई इति भाषायाम् )। शालकः--देवरः। शल्यम्--अस्थि । शलितम्--जलम् । शाला--गृहम् । शलिः, शलुः, शलनम् , शलनीयम्--चत्वारः कम्पने । शलिका--लोहयष्टिः ( 'सलाई इति भाषायाम् ) । शल्लते--कम्पते । शल्लकः, शल्लमानः--दौ कम्पितरि । शल्लिः, शल्लुः, शल्लनम् , शल्लनीयम्--चत्वारः कम्पने । शलङ्कते--श्रमं करोति, तपस्यति । शलङ्कः--ब्रह्मणः पुत्रः । शालङ्कायनः--शलङ्कस्यापत्यम् । शालङ्कायिनिः--शालङ्कायनस्य सुतः । शलङ्कनम् , शलङ्कनीयम्--द्वौ तपस्यने ।
४९५. बुल बुल्ल सेचने--घर्षणे । बोलते--घर्षति । बोलः, बोलकः, बोलमानः--त्रयः संघर्षितरि । बुलिः, बोलुः, बोलनम् , बोलनीयम्--चत्वारः संघर्षणे । बुल्लते--घर्षति । बुल्लः, बुल्लमान:--द्वौ घर्षितरि । बुल्लिः--भगः । बुल्लम्--(?)। बुल्लनम् , बुल्लनीयम्--द्वौ घर्षणे ।
४९६. तुल तुल्ल द्रवणे--तोलते--परिमाति ( तोलता है)। तुला--तोलनसाधनम् (तराजू इति प्रसिद्धम् ) । तुला राशिविशेषः । तुलिः, तुलुः, तुलनम् , तुल्यम् , तौल्यम् , तुलितम्--षट् परिमाणे । तुल्लते । तुल्लकः, तुल्लमानः । तुल्लिः, तुल्लुः, तुल्लनम् , तुल्लनीयम् ।
४९७. वल वल्ल संवरणे--प्रसारे1 । वलते--विस्तारयति । वलकः, वलमानः, द्वौ विस्तारयितरि । वालम्--केशः, पुच्छम् । वालिः--देवेन्द्रस्य पुत्रः । वलितम्--(?)। वलम् , वलिः, वलुः, वलनम् , वलनीयम्--पञ्च विस्तारे । वल्लते--संवृणोति (लपेटता है)। वल्लकः, वल्लमानः--द्वौ संवरितरि । वल्ली--लता । वल्लरिः--गुच्छः । वल्लः--गोपालः ( ग्वाला), आभीरः (अहीर), देशः । वल्लनम् , वल्लम्--संवरणे ।
४९८. मल मल्ल मुल मुल्ल धारणे--घर्षणे । मलते--वर्षयति । मलकः, मलमानः--द्वौ घर्षितरि । मलम्--पुरीषम् । मलिनम्--कल्मषम् । आम्लकः--अम्लः। मला--वर्षा । माला--पुष्पादिसंग्रथनम् । मालिनी--मालासंग्रथिका, वृत्तविशेषः, समुद्रशास्त्रम् , देवकन्या । मलेयः, मलयः--पर्वतविशेषः । मालेयः, मलयजः--द्वौ श्रीगन्धे, चन्दने। माळम्--अवरोधरहितं स्थानम् , समभूमिः ।

टिप्पणी


१. वृत्तौ 'संवरणे' इत्यस्य 'प्रसारे' इत्यर्यों ज्ञापितः । परन्तु आख्यातपदनिर्देशे 'वलते' इत्यस्य 'प्रसारयति' 'वल्लते' इत्यस्य 'संवृणोति' ( लपेटता है ) इति विरुद्धावर्थौ निर्दिष्टौ।

83
माळिका--आपणम् । माळी--(?)। माळः--( ?)। मल्लते--सहते । मल्लकः, मल्लमानः--द्वौ सहनकर्तरि । मल्लः--मल्लयुद्ध कर्ता ( पहलवान )। मल्लिः, मल्लिका--द्वौ पुष्पे । मल्लनम् , मल्लनीयम्--द्वौ सहने । मोलते--सहते । मुलकः, मुलमानः--द्वौ सोढरि । मुला--स्तनम् , कीलकम् । मुल:--शशः । मुल्लते--शोचति । मुल्ला, मुल्लनम् , मुल्लनीयम्--त्रयः शोचने । मुल्लु:--कण्टकम् । मुल्लः, मुल्लकः, मुल्लानः--त्रयः शोचयितरि ।
४९९. भल भल्ल परिभाषणहिंसादानेषु--गालिप्रदाने, हिंसायां, दाने च । भलते--गालिं ददाति । भलकः, भलमानः--द्वौ गालिप्रदातरि1 । भलकः, भालुकः, भलमानः--त्रयो गालिप्रदातरि । भला, भली, भल्ला2, भल्ली२--चत्वारः स्तुतौ। भालः--( हलस्य पौत्रम्--फाल इति भाषायां प्रसिद्धम् )। भलनम् , भलनीयम्--द्वौ गालिप्रदाने । भल्लते--हिनस्ति । भल्लः, भल्लमानः--द्वौ हिंसके । भल्लू-- कः--ऋक्षः । भल्ला--(?)। भल्लनम् , भल्लनीयम्--द्वौ हिंसायाम् । भल्लातकिः--औषधविशेषः ( 'भिलावा' इति प्रसिद्धः)।
५००. भिल भिल्ल वनप्रदेशे--वनगमने । भेलते--उन्मत्तो भवति । भेलः, भेलकः, भेलमानः--त्रय उन्मते । भेलिः, भेलुः, भेलनम् , भेलनीयम्--उन्मादे । भिल्लते--वने क्रीडति । भिल्लः, भिल्लकः, भिल्लमानः--त्रयो वनचरे । भिल्लाम् (?), भिल--द्वौ धनुषि।
५०१. कल संख्याने--गणनायाम् । कलते--वयसो गणनां करोति । कालः--शिवः, यमः। काळिः, कळिका--पार्वती । कालः--चतुर्थयुगपुरुषः। कालिका, उत्कालिका--द्वौ उदाहरणगद्यभेदे । कललम्--संयोगः । कलना--गणना । कलकलः--गद्गद्स्वरः। काळिमा, कालः-- द्वौ काले। कलकः, कलमानः--गणकः । कलना--गणितम् । कालीनः, काल्यः--द्वौ काल उत्पन्नौ। कल्--पाषाणः । कलुः, कलनम् , कलनीयम् , कल्यम् , कल्यणम् , कल्याणम्--षट् शुभे ।
५०२. कल्ल अव्यक्ते शब्दे--कल्लते--उच्चैरव्यक्तं शब्दयति । कल्लकः, कल्लमानः--उच्चैः शब्दयितरि। कळ्ळः--चोरः । कळिळः--तैलपदार्थः । कल्लुः--पाषाणः । कल्लनम् , कल्लनीयम्--कोलाहले । कल्लोलः--क्रीडा ।
५०३. तेवृ देवृ देवने--दुःखे । तेवते--दुःखितो भवति । तेवकः, तेव

टिप्पणी


१. अग्रे 'भालुकः' पदेन सहायं पाठः पुनः पठ्यते ।
२. भल्लधातो रूपम् ।
३. 'भील' इति लोके प्रसिद्धोऽस्यैवापभ्रंशः ।

84
मानः--द्वौ दुःखिनि । तेवनम्--पिण्याकम् । तेवम्--आर्द्रम् । तेविः, तेवुः, तेवनीयम्--त्रयो दुःखे । देवते--पूजयति । देवलः, देवलकः--देवोपजीवी ( पुजारी इति भाषायाम् ) । देवकः, देवमानः--पूजयितरि । देवनम् , देवनीयम् , देविः, देवुः, देव्यम्--पञ्च पूजने । दैवम्--भाग्यम् ।
५०४. षेवृ शेवृ केवृ खेवृ गेवृ घेवृ ग्रेवृ ग्लेवृ मेवृ पेवृ म्लेवृ सेचने--घर्षणे । सेवते--घर्षति सेवयति । सेवकः, सेवमानः--घर्षकः, परिचारकः। सेवन्ती, सेवन्तिका--पुष्पविशेषः । सेवका--परिचारिका । सेवा--परिचर्या । सेवनम् , सेवनीयम् , सेविः, सेवुः, सेव्यम् , सैव्यम्--षट् गृहकार्ये । सेवालः--'काई' इति प्रसिद्धम् । शेवते--राजपरिषदि उपविशति । शेवः, शेवमानः, शेवः, शैवः,--चत्वारो1 राजपरिषद्युपवेशके । शेवनम् , शेवनीयम् , शेव्यम् , शैव्यः, शेविः, शेवुः, शेवा--राजपरिषद्युपवेशने । केवते--रिक्तो भवति । केवकः, केवलः, केवः, केवमानः, केव्--पञ्च रिक्ते । केविः, केवुः, केवा, केवनम् , केव्यम् , कैव्यम्--षट् रिक्तीभावे । खेवते--आतुरो भवति । खेवः, खेवकः, खेवलः, खेवमानः, खैवः--पञ्च आतुरे । खेव् , खेवी, खेविः, खेवुः, खेवनम् , खेव्यम् , खैव्यम्--षड् आतुरतायाम् । गेवते--घर्षति । गेवकः, गेवमानः--द्वौ घर्षके । गेवनम् , गेवनीयम् घर्षणे । घेवते--वपति ( बोता है) । घेवकः, घेवमानः--वप्तरि । घेवनम् , घेवनीयम् -- बीजवपने । ग्रेवते--निगिरति । ग्रेव्, ग्रेवः, ग्रेवकः, ग्रेव्यः, ग्रैव्यः, ग्रेवमानः--षट् निगरीतरि । ग्रैविः (१, ग्रेविः), ग्रेवुः, ग्रेवा, ग्रेवणम् , ग्रेवणीयम्--पञ्च मुखस्थे द्रव्ये ( कौर इति भाषायाम् ) । ग्लेवते--श्वयति (फूलता है ) । ग्लेव् , ग्लेवः, ग्लेवकः, ग्लेव्यः, ग्लैव्यः, ग्लेवमानः --षट् श्वयितरि । ग्लेवनम् , ग्लेवा, ग्लेवनीयम् , ग्लेविः, ग्लेवुः--पञ्च श्वयथौ। मेवते--(लगता है )। मेव् , मेवः, मेवकः, मेवमानः, मेव्यः, मेव्यः--षट् ( लगाने वाले )। मेविः, मेवुः, मेवनम् , मेवा, मेवनीयम्--( लगाना)। पेवते--शीतं करोति । पेव् , पेवः, पेवकः, पेवलः, पेव्यः, पैव्यः, पेवमानः--षट् शीतीकर्तरि । म्लेवते । म्लेव् , म्लेवः, म्लेवलः, म्लेव्यः, म्लेवमानः । म्लेविः, म्लेवुः, म्लेवनम् , म्लेवनीयम् ।
५०६. रेवृ प्लवगतौ--श्रमेण चलने । रेवते--श्रमेण चलति । रेव् , रेवकः, रेवळः, रेव्यः, रैव्यः, रेवमाणः--षट् श्रमेण गन्तरि । रेवणः--सत्पुरुषमुख--

टिप्पणी


१. अत्र 'शेवः' द्विः पठ्यते तेन त्रय एव, न चत्वारः। यद्वा पूर्वत्र 'शेवः' इत्यस्य स्थाने 'शेवकः' इति स्यात् ।

85
जन्मा रेणुकापुत्रः । रेवा--सोमा, मेखलपुत्री, वाणासुरपत्नी, नर्मदा । रेवती--दक्षपुत्री, चन्द्रपत्नी । रेवुः--नदी । रेविः--श्रमेण गन्त्री । रेवणीयम्--श्रमेण गमनम् ।
५०६. क्लेश बाधने--दुःखे । क्लेशते--दुःखितो भवति, श्रमं करोति । क्लेश् , क्लेशकः, क्लेशमानः, क्लेश्यः क्लैश्यः--पञ्च श्रमकतरि, दुःखिते । क्लेशिः, क्लेशुः, क्लेशनम् , क्लेशनीयम्--चत्वारः श्रमे ।
५०७. पर्ष1 स्नेहने--तैले । पर्षते--स्निग्धो भवति । पर्षः, पर्षकः, पर्षमाणः--त्रयः स्नेहयुक्ते । पर्षिः, पर्षुः, पर्षणम् , पर्षणीयम्--चत्वारः स्नेहने ।
_५०८. धुक्ष धिक्ष संदीपनक्लेशनजीवनेषु--क्षुधायाम् , श्रमे, जीवने च । धुक्षते--क्षुधितो भवति, श्रान्तो भवति । धुक्षः, धुक्षकः, धुक्षाणः--त्रयो क्षुधिते । धुक्षिः, धुक्षुः, धुक्षणम् , धुक्षा, धुक्षणीयम् -- पञ्च क्षुत्कर्मणि । धिक्षति--जीवति । धिक्षः, धिक्षकः, धिक्षणः--त्रयः प्राणधारके ( जीवितरि)। धिक्षः (?, घिक्षिः ), धिक्षुः, धिक्षा, धिक्षणः (?, धिक्षणम्), धिक्षणीयम्--जीवने ।
५०९. वृक्ष वरणे--आवरणे2 । वृक्षते--आच्छादयति । वृक्षः3, वृक्षाणः,आच्छादनकर्तरि । वृक्षिः, वृक्षः (?, वृक्षुः), वृक्षणम् , वृक्षा, वृक्षणीयम्--पञ्च आवरण ।
५१०. शिक्ष विद्योपादाने--विद्याग्रहणे । शिक्षते--पाठयति । शिक्षकः, शिक्षमाणः--द्वा अध्यापयितरि । शिक्षिः, शिक्षुः, शिक्षा, शिक्षणम् , शिक्षणीयम्--पञ्चाध्यापने।
५११. भिक्ष याञ्चायाम्--याचने । भिक्षते--याचते । भिक्षुः, भिक्षुकः, भिक्षमाणः--त्रयो याचयितरि । भिक्षा, भिक्षिः, भिक्षणम् , भिक्षणीयम् , भिक्षम् , भैक्षम् (?, भैक्ष्यम्)--षट याचने ।
५१२. दक्ष वृद्धौ शीघ्रे च--वर्धने त्वरायां च । दक्षते--वर्धते, त्वरति । दक्षः--एतन्नामा पुरुषः, शिवस्य श्वसुरः । दक्षिः, दक्षुः, दक्षणम् , दक्षा, दक्षणीयम्

टिप्पणी


१. 'स्पर्श स्नेहने' इति कातन्त्रपाठः, चान्द्रपाठश्च।
२. वोपदेवो वरणे-- स्वीकार इत्याह ।
३. अत्रार्थे मन्त्रवर्णो भवति--किंस्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । यजुः १७।२० । अत्र वनम्, वृक्षः आभ्यां पदाभ्यां सर्वस्यास्य ब्रह्माण्डस्य संभजनीयम् आच्छादकं च कारणं ( प्रकृतिभूतं) किमासीदिति पृच्छ्यते । 'वन--वृक्ष' शब्दाभ्यां वेदे ब्रह्माण्डस्य मूलभूता प्रकृतिरुच्यते ।

86
--पञ्च त्वरणे । दाक्षायणी--सती देवी, शिवपत्नी । दक्षम्--दक्षिणपार्श्वम् । दक्षिणम्--दक्षिणा दिक् । दक्षिणा--दानम् ।
५१३. ऋक्ष हिंसायां दीप्तौ च--हिंसने प्रकाशे च । ऋक्षते--कृन्तति (हिनस्ति)। ऋक्षः--भालुः, तारकम् । ऋक्षकः, ऋक्षमाणः--द्वौ विकर्तनशीले । ऋक्षिः, ऋक्षुः, ऋक्षणम् , ऋक्षणीयम्--चत्वारो विकर्तने ।
५१४, प्लक्ष छायायाम--प्लक्षते--छाया भवति । प्लक्षः--वृक्षविशेषः । प्लक्षिः, प्लक्षुः, प्लक्षणम् , प्लक्षणीयम्--चत्वारश्छायाकर्मणि ।
५१५. अक्ष खेलने--क्रीडने । अक्षते--क्रीडते । अक्षः--क्रीडनम् , इन्द्रियं च । अक्षि--चक्षुः । अक्षकः, अक्षमाणः--द्वौ क्रीडितरि । अक्षणम् , अक्षणीयम्--द्वौ क्रीडने । परोक्षः--[ इन्द्रियेभ्यः परः ] कालविशेषः।
५१६. कक्ष धारणे----कक्षते--घर्षति । कक्षकः, कक्षमाणः--द्वौ घर्षितरि । कक्षः--शरीरावयवविशेषः (बगल इति भाषायाम् )। कक्षिः--शङ्का । कक्षणम् , कक्षणीयम्--द्वौ घर्षणे ।
५१७. पक्ष विभागे--विभजने । पक्षते--विभजते । पक्षः--विभागः । पक्षकः, पक्षमाणः--विभक्ता। पक्षी--आकाशचारी प्राणीः । पक्षिणी--तिथिः । पक्षिल:--चन्द्रः, वात्स्यायनमुनिः । पक्षधरः--मासः, पक्षी ।
५१८. ऋभुक्ष घातने--मारणे । ऋभुक्षते--मारयति । ऋभुक्षाः--देवेन्द्रः। ऋभुक्षणम् , ऋभुक्षणीयम्--द्वौ मारणे ।
५१९. वक्ष पालने--त्राणे । वक्षते--रक्षति । वक्षकः, वक्षमाणः--द्वौ पालयितरि । वक्षस्--उरः । वक्षणम् , वक्षणीयम्--रक्षणम् , पालनम् ।
५२०. कुक्ष पूरणे--भरणे । कुक्षति--भरति । कुक्षकः, कुक्षमाणः द्वौ पूरयितरि । कुक्षिः--उदरम् । कुक्षणम् , कुक्षणीयम्--द्वौ भरणे ।
५२१. इक्ष आस्वादने-- इक्षते--स्वदते । इक्षकः, इक्षमाणः--स्वदितरि । इक्षुः--'ईख' इति प्रसिद्धः । इक्षणम् , इक्षणीयम्--द्वौ स्वदने ।
५२२. मक्ष दशने--मक्षते--दशति । मक्षकः, मक्षमाणः--द्वौ दंशके । मक्षुः, मक्षुकः--मक्षिका । मक्षणम् , मक्षणीयम्--द्वौ दशनकर्मणि।
५२३. तक्ष हिंसायाम्--तक्षते--हिनस्ति । तक्षकः--महासर्पः। तक्षणम् , तक्षणीयम्--द्वौ हिंसायाम् ।
87
५२४. उक्ष सहने--उक्षते--सहते। उक्षः--( वृषभः)। उक्षणम् , उक्षणीयम्--द्वौ सहने।
५२५. दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु--जीवने, यजने, उपनयने, नियमे, व्रते, आह्वाने च । दीक्षते--दीक्षां गृह्णाति । दीक्षितः, दीक्षकः, दीक्षमाणः--त्रयो दीक्षाग्रहीतरि । दीक्षितायिनि1--दीक्षितस्य पत्नी । दीक्षा, दीक्षणम् , दीक्षणीयम्--त्रयो दीक्षाग्रहणे ।।
५२६, ईक्ष दर्शने--ईक्षते--पश्यति । ईक्षकः, ईक्षमाणः -- द्वौ द्रष्टरि । ईक्षणम् , ईक्षणीयम् , ईक्षा--त्रयो दर्शने ।
५२७. ईर्षा गतिहिंसादानेषु--गतौ हिंसायां दाने च । ईर्षते--ईर्ष्यां करोति । ईर्षकः, ईर्षमाणः--ईर्ष्याकर्तरि । ईर्षा, ईर्षणम् , ईषणीयम्--त्रयः ईर्ष्याकर्मणि।
५२८. भाष व्यक्तायां वाचि--आलङ्कारिकवाक्ये । भाषते--वदति । भाषकः, भाषमाणः--द्वौ वदितरि। भाष, भाषणम् , भाषणीयम् , भाष्यम्--चत्वारो वाक्कर्मणि । भाषा--सरस्वती, वाक्यं च ।
५२९. ग्लेष अन्विच्छायाम्--अन्वेषणे । ग्लेषते--अन्विषति । ग्लेषकः, ग्लेषमाणः--अन्वेषकः । ग्लेष् , ग्लेषणम् , ग्लेषणीयम्--त्रयोऽन्वेषणे ।
५३०. येष प्रयत्ने--प्रमादपरिहारे । येषते--प्रयतते । येषकः, येषमाणः--द्वौ प्रयतितरि । येष् , येषणम् , येषणीयम्--त्रयः प्रयत्ने ।
५३१. जेष णेष एष ह्रेष गतौ--जेषते--चलति । जेषकः, जेषमाणः--द्वौ गन्तरि । जेट् , जेषणम् , जेषणीयम् , जेषा, जेष्यम्--पञ्च चलने । नेषते--कूर्दते । नेट् , नेषकः, नेषमाणः--त्रयः कूर्दके । नेषणम् , नेषणीयम्--द्वौ कूर्दने । एषते--स्खलति (फिसलता है)। एट्, एषकः, एषमाणः--त्रयः स्खलितरि। एषणम् , एषणीयम्--स्खलनम् । ह्रेषते--नृत्यति । हेट्, ह्रेषकः, ह्रेषमाणः--त्रयो नर्तके । ह्रेषणम् , ह्रेषणीयम् , ह्रेषिः--त्रयो नर्तने ।
५३२. रेष हेष अव्यक्ते शब्दे--अव्यक्तध्वनौ। रेषते--अव्यक्तं ध्वनति ( गुनगुनाता है )। रेट , रेषकः, रेषमाणः--त्रयोऽव्यक्त वक्तरि । रेषिः, रेषणम् , रेषणीयम्--अव्यक्तध्वनौ । हेषते--अश्वः शब्दयति (हिनहिनाता है)। हेट , हेषकः, हेषमाणः--त्रयोऽश्वे । हेषिः, हेषा, हेषणम् , हेषणीयम्--चत्वारोऽश्वध्वनौ।

टिप्पणी


१. 'दीक्षितायनी' शुद्धः पाठः स्यात् । अत्र स्त्रियामानुगागमो द्रष्टव्यः ।

88
५३३. कासृ शब्दकुत्सायाम--कासते--कासनं करोति (खांसता है)। कासरः--महिषः (?)। कासः, कासकः, कासमानः--त्रयः कासितरि (खांसने वाले में)। कासिः, कासुः, कासनम् , कासनीयम्--चत्वारो ध्वनिविकारे (खांसने में )।
५३४. काशृ भासृ दीप्तौ--प्रकाशे । काशते--प्रकाशितो भवति । काश् , काशः, काशमानः--त्रयः प्रकाशितरि । काशिः, काशी, काशिका--त्रयः काश्यां वाराणस्याम् । काशम्, काश्यः--पाञ्चालाः (?) | काशनम्, काशनीयम्, काशनी--त्रयः प्रकाशने । भासते--दीप्यते (चमकता है ) । भास् , भासकः, भासमानः--त्रयः दीपितरि । भासिः, भासुः, भासनम् , भासनीयम् , भासिनी (?) –चत्वारो1 दीपने।
५३५. नासृ रासृ शब्दे--ध्वनौ। नासते--ध्वनिं करोति । नासकः, नासमानः--द्वौ शब्दकर्तरि । नासा, नासिका--घ्राणेन्द्रियम् । नासनम् , नासनीयन् , नास्यम् , नासिः, नासा--पञ्च श्वासध्वनौ2 । रासते--शब्दं करोति । रासः, रासकः, रासमानः--गर्दभध्वनिकर्तरि ( रेंगने वाले में)। रासभः--गर्दभः। रासिः, रासुः, रासनम्, रासनीयम् , रास्यम्--पञ्च गर्दभध्वनि क्रियायाम् ( रेंगना क्रिया में )। रासिमः--(?) । रासक्रीडा--रासलीला ।
५३६. नस कौटिल्ये--नसते कुटिलमाचरति ( धोखा देता है )। नसकः नसमानः--त्रयः3 कौटिल्याचरितरि (धोखा देने वालों में )। नस्--नासिका । नसा4–व्यसनम् । नस्यम् , नासिः, नसुः, नसनीयम्--चत्वारः कौटिल्याचारे ।
५३७. भ्यस भये--भ्यसते--बिभेति । भ्यसकः, भ्यसमानः--भीरुः । भ्यसिः, भ्यसनम् , भ्यसुः, भ्यसनीयम् , भ्यस्यम्--पञ्च भये ।
५३८. आङः शसि इच्छायाम्--आशंसते--प्रशंसाम् इच्छां वा करोति । आशंसकः, आशंसमानः--प्रशंसकः इच्छुर्वा । आशंसिः, आशंसुः, आशंसनम्, आशंसनीयम्--चत्वारः स्तुतौ।
५३९, ग्रसृ ग्लसृ अदने--भक्षणे । ग्रसते--भक्षति । ग्रसकः, ग्रसमानः--खादकः। ग्रसिः, ग्रसुः, ग्रासः, ग्रसनम् , ग्रसनीयम्--चत्वारोऽदने । ग्लसते –

टिप्पणी


१. 'भासिनी' संदिग्धोऽयं पाठः । अनेन सह पञ्च भवन्ति न चत्वारः ।
२. नासिकया यः श्वासो गृह्यते तद्ध्वनौ (खुर्राटे भरना)।
३. द्वावेव शब्दौ पठ्येते । यद्वा 'नसः' इत्यप्यत्र स्यात् ।
४. व्यसनार्थ एव भाषायामपि प्रयुज्यते ।

89
अत्ति । ग्लसकः, ग्लसमानः--भोजकः। ग्लसिः, ग्लसुः, ग्लस्तम् , ग्लस्तिः, ग्लसनम् , ग्लसनीयम्--षड् भोजने ।
५४०. ईह चेष्टायाम्--इच्छायाम् । ईहते--इच्छति । ईहकः, ईहमानः--इच्छुकः । ईट् , ईहिः, ईहुः, ईहनम् , ईहनीयम्, ईहा--षड् इच्छायाम् ।
५४१. वहि महि वृद्धौ--वंहते--साहाय्यं करोति । वंहकः, वंहमानः--सहायकः । वंहिः, वंहुः, वंहनम्, वंहनीयम् , वंहम्--पञ्च साहाय्यकरणे । मंहते--उत्पद्यते ( अङ्कुरितो भवति )। मंहकः, मंहमानः--उत्पद्यमानः। मंहिः, मंहुः, मंहम् , मंहनम् , मंहनीयम्--पञ्च उत्पादे ( अङ्कुरीभावे )।
५४२. अहि प्लिह वक्रगतौ--कुटिलगत्याम् । अंहते--कुटिलं गच्छति । अंहकः, अंहमानः--पापः । अंहस्--पापम् । अंहिः, अंहुः, अंहनम् , अंहनीयम्--चत्वारः कुटिलगत्याम् । प्लेहते--वामनो भवति, लङ्गते । प्लेहकः, प्लेहमानः--वामनः, पङ्गुः । प्लिहिः, प्लिहुः, प्लेहनम् , प्लेहनीयम्--चत्वारो वामनीभावे, पङ्गुभावे ।
५४३. गर्ह गल्ह1 कुत्सने--निन्दायाम् । गर्हते--निन्दति । गर्हकः, गर्हमाणः--निन्दकः । गल्हते--निन्दति । गल्हकः, गल्हुकः--निन्दकः । गल्हिः, गल्हुः, गल्हनम् , गल्हनीयम्--चत्वारो निन्दायाम् ।
५४४. बल्ह मल्ह बिल्ह कल्ह प्राधान्यपरिभाषणहिंसादानेषु--मुख्ये, परिभाषणे, हिंसायां, दाने च । बल्हते--मुख्यो भवति । बाल्हिकः--देशविशेषः, अश्वः२ । बल्हणः, बल्हकः, बल्हनम् , बल्हनीयम्--त्रयो प्राधान्ये । मल्हते--कठोरं भाषते । मल्हणः--शिवभक्तः संन्यासी [ एतन्नामा ]3 । मल्हकः, मल्हमानः--दौ कठोरभाषितरि । मल्हिः, मल्हनम् , मल्हनीयम--कठोरवचने । बिल्हते--वर्णयति । बिल्हणः--मल्हणस्य मातुलः। बिल्हकः, बिल्हमान:-- द्वौ वर्णयितरि । बिल्हिः, बिल्हनम् , बिल्हनीयम्--त्रयो वर्णने । कल्हते--ददाति । कल्हणः4, कल्हकः, कल्हमानः--त्रयो दातरि । कल्हिः, कल्हनम् , कल्हनीयम्--त्रयो दानकर्मणि । कल्हारम्--(?)।

टिप्पणी


१ कन्नडमुद्रिते ग्रन्थे 'गह्ल' इत्येवं हकारलकारयोर्विपर्यासो दृश्यते तथैव 'गहृलते' इत्याद्युदाहरणेष्वपि । स प्रमादपाठः, हकारान्तप्रकरणानुरोधात्, उत्तरत्र 'बल्ह मल्ह' आदिषु सर्वसम्मतपाठस्योपलम्भाच्च ।
२. बाल्हिकदेशजः।
३. द्रष्टव्यम् अत्रैव उत्तरधातोर्बिल्हणशब्दः ।
४. राजतरङ्गिणीविरचयितारं महाकविं कल्हणं नात्र वृत्तिकृत् स्मरति, किमत्रकारणम् ?

90
५४५. बर्ह चर्ह बेहृ जेहृ वाहृ प्रयत्ने--व्यवसाये। बर्हते--क्रीडति । बर्हिणः--मयूरः। बर्हम्--( पुच्छम् ) । बर्हिस्--पूजाद्रव्यम् (कुशा)। बर्हकः, बर्हमाणः--क्रीडकः । बर्हणम् , बर्हणीयम्--क्रीडाकर्म । चर्हते--नृत्यति । चर्हः--(?) । चर्हिः, चर्हणम् , चर्हणीयम्--त्रयो नृत्यकर्मणि । चर्हकः, चर्हमाणः--नर्तकः । वेहते----उद्योगं करोति । वेहकः, वेहमानः--उद्योगी। वेहिः, वेहनम् , वेहनीयम्--उद्योगकर्मणि । जेहते--विचारयति । जेहकः, जेहमानः--विचारकः । जेहिः, जेहनम् , जेहनीयम्--विचारणा । वाहते--वहति । वाहकः, वाहमानः--वोढा । वाट्, वाहः, वाहनम् , वाहनीयम् , वाहिनी--पञ्च नद्याम् , सेनायाम् ।
५४६. द्राहृ निद्राक्षये--जागरणे । द्राहते--जागर्ति । द्राहकः, द्राहमानः--जागरिता । द्राहिः, द्राहणम् , द्राहणीयम् , द्राहा, द्राह्यम्--पञ्च जागरणे ।
५४७. ऊह वितर्क--विचारे। ऊहते--विचारयति (अनुमाति)। ऊहकः, ऊहमानः--विचारकः । ऊहिः, ऊहा, ऊहनम् , ऊहनीयम् , ऊह्यम् , ऊट्--षट् विचारक्रियायाम् ।
५४८ गाहृ विलोडने--गाहते--विलोडते। गाहकः, गाहमानः--विलोडकः। गाहिः, गाहा, गाहनम्, गाहनीयम् गाह्यनम्--पञ्च विलोडनकर्मणि ।।
५४९. घुषिर् कान्तिकरणे----अन्धकारनिवारणे । घुषते1 --स्खलनमपमार्ष्टि। घुषकः, घुषमाणः----विस्मरणत्यागो। घुषिः, घुष्टिः, घुष्टम्, घुषणम्, घुषणीयम्, घुष्यम्--षट् स्खलनपरित्यागे।
५५०. स्मिङ् ईषद्धसने----अल्पहासे ( मुस्कराने में )। स्मयते--अरूपं हसति (मुस्कराता है ) । स्मयकः, स्मयमानः--ईषद्धासकः । स्मितम्, स्मितिः, स्मयः, स्मयिः, स्मयनम् , स्मयनीयम् , स्मेरम्--ईघद्धसने।
५५१. कुङ् खुङ् गुङ् घुङ् उङ् ऊङ् ऋङ् ऋङ् लृङ् लॄङ्2 एङ ऐङ् ओङ् औङ् हुंङ् ( ? ङ्ङ्) ञुङ् णुङ् नुङ् शब्दे--ध्वनौ। कवते--

टिप्पणी


१. 'घुषते, घुषकः' इत्यादिषु गुणाभावः कथमिति न ज्ञायते ।
२. काशकृत्स्नाचार्यो द्विमात्रिकम् लॄकारं स्वीकरोति । अत एव तत्संक्षेपभूते कातन्त्रे दशानां ( अ आ इ ई उ ऊ ऋ ऋ लृ लृ लॄ ) स्वराणां समानसंज्ञ निर्दिश्यते । द्र० का० व्या० १। ३॥ आपिशलपाणिनीयास्तु द्विमात्रिकम् लॄकारं नेच्छन्ति (द्र० आ० शि०, पाणिनीया सूत्रात्मिकाशिक्षा, प्रकरण ६)। तैत्तिरीयप्रात्तिशाख्यकृत्तु द्विमात्रिकम् लॄकारं त्यक्त्वा नवानां समानाक्षरसंज्ञा विधत्ते, शौनककात्यायनौ लृकारस्य ह्रस्वदीर्घावुभौ भेदावुज्झित्वाऽष्टानामेव समानसंज्ञां ब्रूतः।

91
गर्जति । कुः--पृथिवी । कविः, कवकः, कवमानः--त्रयो वर्णयितरि। कवनम्, कवनीयम् , काव्यम् , कव्यम् ,--चत्वारो वर्णनक्रियायाम् । कव्यम्--यज्ञद्रव्यम् (पितृमेधसंबन्धि )। कः--ब्रह्मा । खवते--स्तौति । खविः, खवकः, खवमानः--स्तावकः। खुः--पृथिवी । खः--विष्णुः । खवनम्, खव्यम्, खाव्यम्, खवनीयम्--स्तवने, प्रशंसने । गवते--आशंसते, मन्यते । गवकः, गवमानः--आशंसकः, मन्ता । गः--गणपतिः । गुः, गविः, गव्यम्, गाव्यम्, गवनम् , गवनीयम्--षट् मनने । घवते--हुँकरोति । घवकः, घवमानः--हुँकर्ता । घुः--हुँकारः । घः--मेघः । घिवः, घव्यम्, घाव्यम्, घवनम् , घवनीयम् पञ्च हुँकारकर्मणि । [उङ्--अवते--पालयति । अवकः, अवमानः--पालकः। उः--गौरी । अविः--(भेड़)। अव्यम्, आव्यम्, अवनम्, अवनीयम्--रक्षणम् । [ऊङ्--] अवते--विश्वस्तं करोति । अवकः, अवमानः--विश्वासयिता । ऊः, अविः, अवनम् , अवनीयम् ,--चत्वारो विश्वसने । [ऋङ्--] अरते--महत्त्वं प्रदर्शयति । अरकः, अरमाणः--महत्त्वप्रदर्शयिता । ऋः, अरिः, अरणम् , अरणीयम्, अर्यम् , आर्यम्--षट् महत्त्व प्रदर्शने। [ ऋङ्--] अरते--हिनस्ति । अरकः, अरमाणः--हिंसकः । ऋः ( ?, ऋः), अरिः, अरम्, अरणम् , अरणीयम्, अर्यम् , आर्यम्--सप्त हिंसने । [लृङ्--] अलते--समाप्नोति । अलकः, अलमानः--समापयिता । लृः, आलिः, अलनम् , अलनीयम् , अल्यम्, आल्यम् --षट्--समापने । अलम्--पर्याप्तम् । [लॄङ्--] अलते--सहते । अलकः, अलमानः -- राजा, पर्वतः । लॄः, अलनम्, अलनीयम्--सहनम् । [ एङ--] अयते । अयकः, अयमानः । ए, अयिः, अयनम्, अयनीयम् । [ऐङ्--] आयते--शास्ति । आयकः, आयमानः--राजा। ऐ, आयनम्, आयनीयम्--त्रयः शासने । [ओङ--] अवति--शब्दयति । अवकः, अवमानः--द्वा आह्वयितरि । ओ, अवनम्, अवनीयम् -- त्रय आह्वाने । [ औङ--] आवते--गालिं ददाति । आवकः, आवमानः --गालिप्रदातरि । औ, अवनम् , औवनीयम्--गालिप्रदानम् । ङवते--खादति । ङवकः, ङवमानः--खादकः । ङ, ङवनम् , ङवनीयम्--खाद्यम् । ञवते--विस्मरति । ञवकः, ञवमानः--विस्मर्ता । ञ, ञवनम् , ञवनीयम्--विस्मरणम् । णवते -- वदति । णवकः, णवमानः--वदिता । ण, णवनम् , णवनीयम्--वाक्यम् , भाषा । नवते--निश्चिनोति । नवकः, नवमानः--निश्चेता । न, नु, नवनम् , नवनीयम्--चत्वारो निश्चये।
५५२. चुङ् च्युङ् जुङ् झुङ् छुङ्1 क्षुङ् टुङ् ठुङ् डुङ् ढुङ् पुङ् फुङ् बुङ् भुङ् प्रुङ् प्लुङ् गाङ् श्यैङ् गतौ--चवते--चलति । चवकः, चवमानः

टिप्पणी


१. 'छुङ्' वृत्तौ न व्याख्यायते। 'जुङ्' धातोरन्तरं 'ज्युङ्' व्याख्यायते ।

92
--चलिता । च, चवनम् , चवनीयम्--त्रयो गमने । च्यवते--तरति (उबराता है)। च्यवकः, च्यवमानः--तारकः (उबरानेवाला)। च्यवनः--एतन्नामा मुनिः । च्यवनम् , च्यवनीयम्--तरणम् (उबराना)। जवते--त्वरते । जवकः, जवमानः--क्षिप्रकारी । ज, जवः, जवनम् , जवमानम् (?, जवनीयम्), जव्यम्, जाव्यम् , जविः--सप्त तीव्रे, क्षिप्रे। ज्यवते1 --धावति । ज्यवकः, ज्यवमानः--धावकः । ज्यविः, ज्यवनम् , ज्यवनीयम्--धावनम् । छवते2--कूर्दते । छवकः, छवमान:--कूर्दकः । छवनम् , छवनीयम् , छव्यम् , छाव्यम् , छविः--पञ्च वैहायस्यां गतौ, कूर्दने । झवते--कूर्दते । झवकः, झवमानः--द्वौ कूर्दितरि । झ, झु, झवः, झविः, झवनम् , झवनीयम् , झव्यम् , झाव्यम्--अष्टौ कूदने । टवते--सिञ्चति (छिड़कता है)। टवकः, टवमानः--सिञ्चिता। ट, टु, टविः, टवनम् , टवनीयम् , टव्यम् , टाव्यम्--सप्त सिञ्चने । ठवते--वञ्चति , ठवकः, ठवमानः--वञ्चकः। ठ, ठु, ठविः, ठवनम् , ठवनीयम् , ठव्यम् , ठाव्यम्--सप्त वञ्चने । डवते--ऋजु भवति । डवकः डवमानः--ऋजुः । ड, डु, डबि, डवनम् , डवनीयम् डव्यम् , डाव्यम्--सप्त ऋजुभावे । ढवते--ध्माति । ढवकः, ढवमानः--ध्माता। ढ, ढु, ढविः, ढवनम् . ढवनीयम् , ढव्यम् , ढाव्यम्--सप्त ध्माने । पवते--रक्षति । पवकः, पवमानः--रक्षकः । प, पु, पविः, पवः, पवनम् , पवनीयम् , पव्यम् , पाव्यम्--अष्टौ रक्षणे। फवते--भवति । फवकः, फवमानः--भावुकः । फ, फु, फविः, फवनम्, फवनीयम् , फाव्यम् , फवः--सप्त भवने। बवते (?)। बवकः, बवमानः (?)। ब, बु, बविः, बवः, बवनम् , बवनीयम् , बव्यम् , बाव्यम् (?)। भवते--घर्षति । भवकः, भवमानः--घर्षिता । भ, भु, भविः भवः, भवनम् , भवनीयम् , भव्यम् , भाव्यम्--अष्टौ घर्षणे । प्रवते--अधिकं भवति । प्रवकः, प्रवमाणः--आधिक्यम् । प्र, प्रु, प्रवः, प्रविः, प्रवणम् , प्रवणीयम् , प्रव्यम् , प्राव्यम्--अष्टा आधिक्ये । प्लवते--तरति । प्लवकः, प्लवमान:--तरिता । प्लवः--मण्डूकः, लध्वी तरणिः (छोटा जहाज) । प्लवनम् , प्लवनीयम्--तरणम् । गावते--गानं करोति । गायकः, गायमानः--गायकः । गाः, गयः, गायनम् , गायनीयम् , गायम्--पञ्च गाने (संगीते)। श्यायते--तरति । श्यायकः, श्यायमानः--तरिता।
५५३. धृङ् अवध्वंसने--सहने । धरते--सहते । धरकः, धरमाणः, धारकः--त्रयः सोढरि । धरः--पर्वतः। धृत् , धरणी, धारणी, धरित्री, धरा--पञ्च

टिप्पणी


१. ज्युङ् सूत्रे न पठ्यते।
२. सूत्रे झुङ पूर्वं पठ्यते।

93
पृथिव्याम् । धरणम् , धारणम् , धरणीयम्, धारणीयम् , धर्यम् , धार्यम्--षट् सहने । धरिः--तटम् । धरुः --विषादः ( झगड़ा)।
५५४. मेङ् प्रतिदाने--ग्रहणे1 । मयते--गृह्णाति1 । मायः, मायकः,। मायमानः--ग्रहीता । मा--लक्ष्मीः। मा--अपव्ययः । मायनम् , मायनीयम्--ग्रहणम् मायम्--नाशनम् (छिपाना)।
५५५. दैङ् त्रैङ् पालने--रक्षणे । दायते--रक्षति । दायकः, दायमानः, दाता--रक्षकः । दायम् , दा, दानम् , दायनम् , दानीयम्--पञ्च रक्षणे । त्रायते--रक्षति । त्राता, त्रायकः, त्रायमाणः--रक्षकः । त्रातम् , त्राणम् , त्रायणम् , त्रायणीयम् , त्रायम्--पञ्च रक्षणे ।
५५६. प्यैङ् वृद्धौ--प्यायते--वर्धते । प्याता, प्यायकः, प्यायमानः--वर्धिता । प्या, प्यानम् , प्यायनम् , प्यायनीयम् , प्यायम्--पञ्च वर्धने ।
५५७. पुङ् पवने--श्वासग्रहणे । पवते--श्वसिति । पवः, पूः, पवनम् , पवमानः, पविता--पञ्च श्वसितरि | पविः, पव्यम् , पाव्यम् , पवनीयम्--चत्वार श्वसने । पवनम् , पावनम् , पूतम् , पूतिः--चत्वारः शुद्धौ । पवित्री--पवित्रकर्त्री ।
५५८. मुङ् मू2 बन्धने--मवते--बध्नाति । मुः, मवकः, मवमानः --त्रयो निगृहीतरि । मूतम्--आच्छादनम् । मूतिः, मवनम् , मवनीयम् , मव्यम् , माव्यम्--पञ्च बन्धने ।
५५९. डीङ् विहायसा गतौ--पक्षिणां गतौ। ड्यते--आकाशे चरति । डयकः, डयमानः--आकाशचारी । प्रडीनम्--पक्षिणामवतरणम् । उड्डीनम्--पक्षिणामुपरिगमनम् । संडीनम्--पक्षिणां संरक्षणम् । डय्यम् , डाय्यम् , डयनम् , डयनीयम्--षडाकाशगमने।
५६०. गुप गोपनकुत्सनयोः--रक्षायाम् , निन्दने । जुगुप्सते3--निन्दति

टिप्पणी


१. 'प्रणिदाने प्रणिदानम् प्रत्यर्पणम्' इति क्षीरस्वामी (क्षीरत० १।६८५)। हेमचन्द्रशाकटायनौ काशकृत्स्नवत् प्रतिदाने । प्रतिदानमपि प्रत्यर्पणमेव । तच्च कस्माच्चित् किञ्चिद् वस्तुगृहीत्वा वस्त्वन्तरस्यप्रदानम् । कन्नडटीकायाम् 'ग्रहणम्' (लेना) इत्यर्थों निर्दिष्टः, स च प्रतिग्रहणरूपो व्याख्यैयः । स्वकीयं वस्तु कस्मैचिद् दत्त्वा ततो वस्त्वन्तरस्य प्रतिग्रहणम् ( दानं प्रतिपरिवर्तने )।
२ इत्यस्य नाख्यातरूपं निर्दिष्टम् ।
३. दानादीनां सन् सार्वधातुके, द्विः सनि' आभ्यां सन् द्विर्वचनं च ज्ञेयम् । द्र० १।५८३ धातुसूत्रव्याख्यानम् ।

94
कुसयति । गुप्, गोपः, जुगुप्सकः, जुगुप्समानः--चत्वारः केत्सक । जुप्सा1 – जुप्सनम्1 जुप्सनीयम्1--त्रयः कुत्सायाम् ।
५६१. मान पूजायाम् ----आदरे । मीमांसते--आद्रियते । मीमांसः, मीमांसकः--आदरिता । मीमांसा, मानम् , मान्यम् मानिः, मान् , माननम् , माननीयम्--सप्त मान्यतायाम् ।
५६२. बध बन्धने--निग्रहे । बधते1--बध्नाति । बध् , बधः, बधकः, बधमानः--चत्वारो निग्रहीतरि । बधनम् , बधनीयम् , बध्यम् , बाध्यम्--चत्वारो बन्धने।
५६३. रभ राभस्ये----कार्योपक्रमे । रभते--उपक्रमते । रम् , रभकः, रभः, रभमाणः--चत्वार उपक्रमके। रभिः, रभणम्, रभ्यम् , राभ्यम् , रभणीयम्--पञ्च उपक्रमे ।
५६४. डुलभष् प्राप्तौ--लभते--प्राप्नोति । लभकः, लाभकः, लाभमानः--त्रयः प्रापके । लभ , लब्धिः, लब्धम् , लभिः, लभनम् , लभ्यम्, लाभ्यम् , लभः, लाभः--नव प्रापणे ।
५६५, द्युत शुभ रुच दीप्तौ----प्रकाशे। द्योतते--प्रकाशते । द्योतकः, द्योतमानः--प्रकाशकः। खद्योतः--सूर्यः, लघुकीटविशेषः । द्युत् , द्युतिः, द्योतनम् , द्योतनीयम्, द्युत्यम् , द्यौत्यम्--षट् प्रकाशे। शोभते--प्रकाशते । शोभकः, शोभमानः--द्योतकः । शुभ् , शुभिः, शुभम् , शोभा, शोभनम् , शोभनीयम्--षट् प्रकाशने । रोचते--अभिलषति, प्रकाशते । रोचकः, रोचमानः, रुचकः--प्रकाशकः । रुक्, रुचिः, रोचनम् , रोचनीयम् , रुच्यम् , रौच्यम् , षट् रोचने ।
५५६. श्वित वर्णे--श्वेतवर्णे । श्वेतते--शुभ्रो भवति । श्वेतकः, श्वेतमानः--शुभ्रवर्णकः । श्वित् , श्वितिः, श्वेतः, श्वेतनम् , श्वेतनीयम् , श्वित्यम् , श्वैत्यम्--सप्त शुभ्रवर्णे ।
५६७. ञिमिदा स्नेहने--मेदते--स्निग्धो भवति । मेदकः, मेदमानः,

टिप्पणी


१. अत्र पाठभ्रंशः प्रतीयते। यथासंख्यम् 'जुगुप्सा, जुगुप्सनम्, जुगुप्सनीयम्' इति शुद्धः पाठः स्यात् । यद्वोत्तरधातुवृत्त्यनुसारम् 'गुप्सा, गुप्सनम्, गुप्सनीयम्' इत्येवं पाठो द्रष्टव्यः।

95
स्नेहनकर्तरि । मेदिनी--पृथिवी। मेदस--शारीरधातुविशेषः । मेदुरम्--मेदोयुक्तम् । मिद् , मिदिः, मिदुः, मेदनम् , मेदनीयम् , मेद्यम् , मैद्यम् , मिन्नम् -- अष्टौ स्नेहने ।
५६८. ञिष्विदा मोचने----स्वेदे स्नेहने च । स्वेदते--(पसीना बहता है)। स्वेदकः, स्वेदमानः--स्वेदयुक्तः । स्विद् , स्विदिः, स्विदुः, स्वेदनम् , स्वेदनीयम्--पञ्च स्वेदे ।
५६९. घुट परिवर्तने1 -- नृत्ये । घोटते2--नृत्यति । घोटकः, घोटमानः--अश्वः । घोटिका--अश्वा । घुटिका--मात्रा, औषधगुटिका। घुट, घुटिः, घोटनम् , घोटनीयम् , घुट्यम् , घोट्यम् , घौट्यम् , घाटा--अष्टौ नृत्ये ।
५७०. रुट लुट रुठ लुठ प्रतिघाते--प्रतिहिंसायाम् । रोटते--प्रतिघातयति (बदले में मारता है )। रोटकः, रोटमानः--प्रतिहन्ता । रुट् , रुटिः, रोटनम् , रोटनीयम्, रोट्यम् , रौट्यम्--प्रतिघातने। रोटिः--( ?) । करोटिः--शिरः । लोटते--पदा ताडयति ( लात मारता है)। लोटकः, लोटमानः--पदेनघातकः । लुट् , लुटिः, लोटः, लोटुः, लोटनम् , लोटनीयम्--षट् पदाघाते । रोठते--कठोरो भवति । रोठकः, रोठमानः--कठोरं भावुकः, रुठ्, , रुठिः, रोठः, रोठनीयम्--पञ्च कठोरे । लोठते--मिलति । लोठकः, लोठमानः--मेलकः । लुठ्, लुठिः, लोठनम् , लोठनीयम्--चत्वारो मेलने, मिश्रणे ।
५७१. क्षुभ संचलने--कम्पने । क्षोभते--कम्पते। क्षोभकः, क्षोभमानः--कम्पकः । नान्तः क्षुण्णादीनाम् (?, क्षुभादीनाम् ) शुभ प्रभृतीनां प्रत्ययानामन्ते नकारस्य णत्वं न भवति । क्षुभ्, क्षुभिः, क्षोभनम् , क्षोभनीयम् , क्षुब्धम् , क्षुब्धिः --चत्वारः ( ?, षट् ) कम्पने ।
५७२. णभ तुभ हिंसायाम्--नभते--मारयति । नभकः, नभमानः--मारयिता । नाभिः--शरीरैकदेशः । पद्मनाभिः--अर्हन्तस्य पिता। नभ् , नभिः, नभनः, नभनीयम् , नभ्यम् , नाभ्यम् , नब्धिः, नब्धम्--अष्टौ हिंसायाम् । तोभते--ताडयति । तोभकः, तोभमानः--ताडिता । तुभ् , तुभिः, तोभम् , तोभ्यम् , तौभ्यम् , तुब्धिः, तुब्धम् , तोभनीयम्--अष्टौ ताडनायाम् ।

टिप्पणी


१. पाणिनीयमतानुसारमिह स्वार्थे सनि 'बीभत्सते' इत्यादिनि रूपाणि भवन्ति । यथा गुप् मान धात्वोर्वृत्तिकृता जुगुप्सते मीमांसते इत्यादीनि रूपाणि प्रदर्शितानि ।
२. 'परिवर्तने' इत्यन्ये। कातन्त्रेऽपि 'परिवर्तने' इत्येव पठ्यते । अतो घोटते इत्यनेन औषधादिपेषणक्रियोच्यते । नर्तनार्थस्तु लेखकप्रमादजः प्रतिभाति ।

96
५७३. श्रंसु भ्रशु अवस्रंसने--पतने । श्रंसते--पतति । श्रंसकः--श्रंसमानः--पतिता । श्रंसनम् , श्रंसनीयम् , श्रस्तम् , श्रस्तिः--चत्वारः पतने । भ्रशते --अधः पतति । भ्रशकः, भ्रशमानः, भ्रष्टः, भ्रष्टवान्--चत्वारः पतिते । अपभ्रंशः--विकृतः शब्दः । भ्रशनम् , भ्रशनीयम् , भ्रष्टिः--अधःपतने।।
५७४. ध्वंसु गतौ--दूरीभावे । ध्वंसते--दूरीभवति, नश्यति । ध्वंसकः, ध्वंसमानः, ध्वस्तः ध्वस्तवान्--चत्वारो ध्वंसकर्तरि । ध्वंसिः, ध्वंसः, ध्वंसा, ध्वंसनम् , ध्वंसनीयम्, ध्वंसिः--चत्वारो दूरीभावे ।
५७५. श्रम्भु विश्वासे--श्रम्भते--विश्वसिति । श्रम्भकः, श्रम्भमाणः, श्रब्धः, श्रब्धवान्--चत्वारो विश्वसितरि । श्रम्भिः, श्रम्भुः, श्रम्भणम्, श्रम्भणीयम् , श्रब्धिः --पञ्च विश्वासे।
५७६. वृतु वर्तने -- व्यवहारे। वर्तते--व्यवहरति । वर्तकः, वर्तमानः--व्यावहारिकः । वृत्तम् , वृत्तिः, वर्तनम् , वर्तनीयम् , वार्ता, वार्तिकम्--षड्व्यवहारे । वार्ताकः, वार्ताकिः--बेंगन' इति प्रसिद्धम् । इक्तिपौ धातुस्वरूपे--क्रियाभावे इक्ति पौ भवतः । वृतिः--वर्तनम् । वत्तिः, वर्तिका--दीपाङ्गम् ( 'बत्ती' इति प्रसिद्धम् )।
५७७. वृध2 वृद्धौ--वर्धते एधते । वर्धकः, वर्धमानः, वृद्धः--त्रयो ज्येष्ठे वृद्धे वा । वृध् , वृधिः, वृद्धिः, वर्द्धिः, वर्धनम् , वर्धनीयम् , वर्ध्यम् , वार्ध्यम् , वार्धिकम् , वार्धिक्यम्--दश वृद्धौ ।
५७८. शृधु शब्दकुत्सायाम्--ध्वनेर्हीनतायाम् । शर्धते--अपानिति । शर्धकः, शर्धमानः, शृद्धः--अपानशब्दकर्तरि । शृध् , शृधिः, शृद्धिः, शर्धा, शर्धनम् , शर्धनीयम् , शर्ध्यम् , शार्ध्यम्--अष्टौ अपानवायौ ।
५७९. स्यन्दू स्रवणे--स्रोतसि । स्यन्दते--प्रस्रवति । स्यन्दः, स्यन्दकः, स्यन्दमानः--त्रयः स्रोतसि । स्यन्दिः, स्यन्दनः, स्यन्दनीयम् , सन्द्यम् , सान्द्यम्--पञ्च स्रवणे ।
५८०. कृपू सामर्थ्ये--कृपायाम् । कृपो रो ल:--कृपुधातो रकारस्य लकारो भवति । कल्पते--कृपां करोति । कृपालुः, कल्पकः, कल्पमानः--त्रयः

टिप्पणी


१. 'भ्रंशु, इति साधु पाठः स्यात् । कातन्त्रधातुपाठेऽपि 'भ्रंश' इत्येव पठ्यते । अत उदाहरणेष्वपि 'भ्रंशते भ्रंशकः भ्रंशमानः' इत्यादीनि रूपाणि ज्ञेयानि ।
२. 'वृधु' इति शुद्धः पाठः स्यात् ।

97
कृपालौ । क्लृपे , क्लृपि, क्लृपा, कल्पनीयम्, कल्प्यम् , काल्प्यम्--षटे सामर्थ्ये ।
[इति काशकृत्स्नधातुपाठे भ्वादिगण आत्मनेपदिनः समाप्ताः]