कर्तव्यतोक्ता संग्रहे--
"पार्वणेष्टिं चाऽऽग्रयणं संध्योपासनकर्म च । |
स्मृत्यन्तरेऽपि--
"मलिम्लुचे मासि पौषे नान्वारम्भणमिष्यते । |
एतद्वचनद्वयमालस्यादिना स्वकालानुपक्रान्तस्थालीपाकादिप्रारम्भविषयम् । कालप्राप्तस्याऽऽरम्भे न दोषः ।
तथा च गर्गः--
"नामकर्म च दर्शेष्टिं यथाकालं समाचरेत् । |
नामकर्मग्रहणं नित्यनैमित्तिकस्मार्तकर्मोपलक्षणम् । दर्शेष्टिग्रहणं नित्यनैमित्तिकश्रौतकर्मोपलक्षणमिति प्रयोगपारिजातहेमाद्यादयः ।
मण्डनस्तु--
"आधानानन्तरं पौर्णमासी चेन्मलमासगा । |
'नित्यमत ऊर्ध्वं पर्वस्वाग्नेयेन स्थालीपाकेन य[१]जते' इति सूत्रेण पौर्णमास्यमावास्यात्मकेषु पर्वस्वाग्नेयस्थालीपाकानुष्टानमुक्तम् । तत्र तयोः पौर्णमास्यमावास्ययोः स्वरूपं गोभिल आह--
"यः परमो विप्रकर्षः सूर्याचन्द्रमसोः सा पौर्ण- |
दर्शशब्दो दृश्यते योगिभिरेव चन्द्रमा यत्रेति व्युत्पत्त्या मनुष्यैर्न दृश्यते चन्द्रमा यत्रेति विपरीतलक्षणया वाऽमावास्याया एव वाचकः । 'दर्शः सूर्येन्दुसंगमः' इतिकोशात् । सूर्येन्द्वोः संगमो यत्रेत्यर्थः ।
तत्र पूर्णिमानिर्वचनं मत्स्यब्रह्माण्डपुराणयोः--
"कलाक्षये व्यतिक्रान्ते दिवा पूर्णौ परस्परम् । |
पराह्णे सूर्यास्तमयकाले यथाऽऽदित्यः संपूर्णमण्डलः सन्नस्तमेति तथोत्तरक्षणे चन्द्रः संपूर्णमण्डलः सन्नुदेतीतिदृष्टान्तदार्ष्टान्तिकभावविवक्षया चन्द्रादित्ययोरुपन्यासः ।
- ↑ ग. यजेत ।